ग्रहणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
चन्द्रग्रहणस्य रेखागणितीयचित्रम्

किन्नाम ग्रहणमिति जिज्ञासायामुच्यते गृह्यतेऽनेनेति व्युत्पत्त्या ग्राहको यदा ग्राह्यं वस्तु गृह्णाति तदा ग्रहणम् । यतो ग्रहणे ग्राह्यग्राहकयोर्योगो भवति । ग्रहणं पूर्णिमायाममावास्यायां वा भवति । परन्तु सर्वदा पूर्णिमान्ते अमावास्यान्ते वा न भवति, तदैव भवति यदा ग्राह्यग्राहकयोः पूर्वापरान्तराभावो याम्योत्तरान्तराभावश्च भवति । तदुक्तं सूर्यसिद्धान्ते –

भानोर्भार्धे महीच्छाया तत्तुल्येऽर्कसमेऽपि वा ।
शशाङ्कपाते ग्रहणं कियद्भागाधिकोनके ॥

अर्थात् –सूर्यतः राशिषट्कान्तरे पृथिव्याश्छाया (भूभा) तथा च तया महीच्छायया समे अर्कसमे वा कियद्भागाधिकोनके शशाङ्कपाते ग्रहणं सम्भवति । अत्र कियद्भागाधिकोनके इत्यस्मिन् वाक्ये कियत् शब्दः किञ्चिदित्यर्थस्य ज्ञापकः ।

ग्रहणावयवाः[सम्पादयतु]

ग्रहणं द्विविधम् । चन्द्रग्रहणम्, सूर्यग्रहणञ्च । उभयोः ग्रहणयोः पञ्चावयवाः सन्ति । यथा-

  • स्पर्शः
  • उन्मीलनम्
  • मध्यग्रहणम्
  • सम्मीलनम्
  • मोक्षश्चेति सर्वग्रहणे ।

अत्र यदा ग्राहकवस्तु ग्राह्यं स्पृशति तदा ग्रहणस्य स्पर्शरूपावयवः । ग्राह्यवस्तुनः अर्धभागः यदा ग्राहकमध्ये प्रविशति तदा सम्मीलनकालः । ग्राह्यग्राहकयोः केन्द्रयोगः यदा भवति तदा मध्यग्रहणम् । ग्राह्यबिम्बस्य मोक्षकालारम्भकालः उन्मीलनम् । ग्राहकात् ग्राह्यवस्तुनः सम्पूर्णमुक्तिः मोक्ष इत्युच्यते । चन्द्रग्रहणे पूर्वकपाले स्पर्शः पश्चिमे मोक्षः । सूर्यग्रहणे पश्चिमे स्पर्शः पूर्वे मोक्षः ।

सद्यःकालीने पूर्णग्रहणे
Lunar eclipse April 15 2014 California Alfredo Garcia Jr1.jpg
एप्रिल् 15, 2014
Lunar eclipse October 8 2014 California Alfredo Garcia Jr mideclipse.JPG
अक्टोबर् 8, 2014

चन्द्रग्रहणम्[सम्पादयतु]

चन्द्रग्रहणे ग्राह्यश्चन्द्रः ग्राहकश्च राहुसंज्ञया प्रसिद्धा भूच्छाया (भूभा) कथ्यते । चन्द्रस्य स्वतः प्रकाशः नास्ति । सः सूर्यस्य प्रकाशेन प्रकाशितो भवति । चन्द्रः स्वगत्या स्वकक्षायां पूर्वभिमुखो गच्छन् भूच्छायायां प्रविशति । तदा सा भूच्छाया चन्द्रस्य आच्छादिका भवति । यदा भूभां चन्द्रः स्पृशति तदा चन्द्रग्रहणस्य स्पर्शकालः प्रारभ्यते । यदा चन्द्रस्य अर्धभागः भूच्छायया आच्छादितो भवति तदा चन्द्रग्रहणस्य सम्मीलनकालः । यदा पुनः चन्द्रः सम्पूर्णतया भूभायां प्रविशति तदा केन्द्रयोगेन चन्द्रग्रहणः मध्यः । यदा च भूच्छायया चन्द्रः अर्धमुक्त भवति तदोन्मीलनकालः । यदा चन्द्रः सम्पूर्णमुक्तस्तदा मोक्षकालः । तदुक्तं –भूच्छायां प्राङ्मुखश्चन्द्रो विशत्यस्य भवेदसौ इति ।

सूर्यग्रहणम्[सम्पादयतु]

सम्पूर्णं सूर्यग्रहणम्


सूर्यात् षड्राश्याभ्यन्तरे चन्द्रः यदा भवति तदा पूर्णिमान्तकालः । अस्मिन् ग्रहणे भास्करस्य छादकः चन्द्रो भवति । एतेन यथा मेघाच्छन्नो रविः क्वचिच्छन्नः क्वचिद् दृश्यश्च तथैव भिन्नकक्षास्थेन इन्दुनाऽऽच्छादितः सूर्यः क्चचिदाच्छादितः क्वचिद् दृश्य एव अतस्तदा सूर्यग्रहणम् । सूर्यग्रहणं न सार्वभौममस्ति सूर्यपृथिव्योर्मध्यभागे यदा चन्द्र आगच्छति तदा चन्द्रस्य छाया पृथिव्यां पतति । तदुक्तं सूर्यग्रहणविषये सूर्यसिद्धान्ते – छादको भास्करस्येन्दुरधः स्थो धनवद् भवेदिति

बाह्यसम्पर्कतन्तवः[सम्पादयतु]

Image galleries

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ग्रहणम्&oldid=409224" इत्यस्माद् पुनः प्राप्तिः