सामग्री पर जाएँ

चंद्रशेखरेंद्र सरस्वती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जगद्गुरु शङ्कराचार्याः श्री चंद्रशेखरेंद्र सरस्वती

[सम्पादयतु]
जगद्गुरू चन्द्रशेखरेन्द्र सरस्वती महास्वामिन:

पूर्वाश्रमः

[सम्पादयतु]

जगद्गुरू चन्द्रशेखरेन्द्र सरस्वती महास्वामिन: ( १८९५-१९९४) [जन्मनाम : स्वामिनाथन् ] । जनै: काञ्ची महामुनि: अथवा प्रीत्या “महापेरियवा” ( आदरणीय: ऋषिवर्या: इति लोकभाषायां ) कामकोटिपीठस्य अष्टाषष्ठितम: पीठाधिपति: आसीत् । तेषां उपदेशा: वैदिकधर्मस्य मार्गदर्शनपुस्तकमिति “दैवत्तिन् कुरळ” रूपे प्रकाशितं भवति । श्रीचन्द्रशेखरेन्द्र सरस्वती स्वामिनां जन्म मे मासस्य २० तमे तिथौ क्री.श. १८९४ वर्षे तमिळुनाडु राज्यस्य विळुपुरम् ग्रामे अभवत् । तेषां जनक: सुब्रह्मण्य शास्त्री , कन्नडभाषीय: स्मार्तानुसारक: विप्र: आसीत् । सुब्रह्मण्य शास्त्री शालायां शिक्षक: आसीत् । तेषां अम्बा महालक्ष्मी अपि कन्नडभाषीया तिरूवय्यार् ग्रामस्य विप्रासीत् स्म । स्वामिनाथ: तेषां द्वितीय: पुत्र: आसीत् । स्वामिनाथस्य उपनयन संस्कार: क्री.श १९०५ तमे वर्षे तिन्डिवने कृतम् स्वपितृणा । स: बाल्यादेव वेदान् कण्ठपाठं कृत्वा पूजादिषु पितु: सहाय्यमकरोत् । क्री.श १९०६ वर्षे कामकोटिपीठाधिपतय: श्री चन्द्रशेखरेन्द्र सरस्वती तिन्डिवनस्य समीपस्थे पेरुमक्कलग्रामे चातुर्मासानुष्टानं कर्तुं समागतवन्त: । तदा स्वामिनाथ: पितृभि: तेषां अनुग्रहं प्राप्तुं अगच्छत् । तदनन्तरं अचारिया: कलवै इति प्रदेशे सिद्धिं प्राप्तवन्त: । तेषां उत्तराधिकारित्वे स्वामिनाथस्य मातृश्वश्रीय: कामकोटिपीठस्य सप्ताषष्टितम: पीठाधिपतिरिति स्थापित: । तेऽपि अल्पकाले एव ब्रह्मैक्यं प्राप्तवन्त: । अनन्तरं स्वामिनाथ: मठस्य अधिकारिभि: पीठाधिपतिं कृत: । क्री.श १९०७ तमे वर्षे तेषां पट्टाभिशेक: अभवत् । सन्यासाश्रमस्वीकरणानन्तरं “चन्द्रशेखरेन्द्र सरस्वती” इति नाम अभवत् । मठस्य परम्परानुसारं तेषां प्रशिक्षणं वेदपुराणादिषु) प्राचीनग्रन्थाध्ययनं कृतम् । तदा तेषां आयु: केवलं पञ्चदशवर्षा: आसीत् । द्विवर्षपर्यन्तम् तेषां अध्ययनं मठस्य विदवद्भि: कुम्भकोणे अभवत् । तत: क्री.श १९११ वर्षादारभ्य १९१४ पर्यन्तं महेन्द्रमङ्गलपुरे अखण्डकावेर्या: नदीद्वीपस्य समीपे अध्ययनम् प्राचलत् । अाचार्यै: चित्रीकरणे , गणितशास्त्रे , ज्योतिषे च निपुणता सम्पादितं ।


योगदानानि

[सम्पादयतु]

ते समस्त भारतवर्षं यात्रां कृत्वा धर्मप्रचारमकरोति स्म । तेषां नित्यानुष्टानेन सन्ध्यावन्दनादिभि: जनेभ्य: प्रेरणां प्रयच्छन् आसन् । बहव: विशिष्टाद्वैतिन: , क्रैस्तव: , मोहम्मदीया: अपि तै: प्रभावितो भूत्वा तेषां अनुसारका: अभवन् । ते स्वजीवनम् अम्बा कामाक्ष्या: सेवार्थं समर्पितवन्त: । भारतस्य विश्वस्य च बहव: प्रान्तीया: तेषां आषिर्वादं प्राप्तु अधिकाधिकसङ्क्यायां आगच्छन्त: आसन् । ते परम्परामनुसृत्य शङ्कराचार्याणां सिद्धान्तोपदेशानां प्रचारं कृतवन्त: । तेषां काले एव बहूनां आलयानां कुम्भाभिषेक: , पुनर्निर्माण: च अभवत् । वेदाध्ययनस्य वेदपण्डितानाम् च बहुधा अभिवृद्धि: कृत्य तै: । शतवर्षपर्यन्तं धर्मस्य कृते बहूनि अदृष्टपूर्वाणि कार्याणि कृतम् आचार्यवर्येण । नेपाल देशस्य नृप: , ग्रीक् राजवंशीया: , दलैलामा , गान्धि: , सी रोजगोपालाचारि: , भारत् रत्न पुरस्कृत एम् एस् सुब्बुलक्ष्मी , एम् जि आर् , अटल् बिहारि वाजपेयी , बिर्ला कुटुम्बस्था: , आर् पि गोयेन्का च इत्यादय: अनेका: श्री चन्द्रशेखरेन्द्र सरस्वती स्वामिभि: अनुग्रहिता: अभवन् ।


भारतस्य स्वातन्त्र्यसंग्रामे योगदानम्

[सम्पादयतु]

तेषां अनुग्रहेण स्वातन्त्र्यवादि एफ् जी नटेश ऐय्यर् क्रैस्तधर्मात् पुन: वैदिक: अभवत् । तस्य निरीक्षणे कान्ग्रेस् पक्षेण “नान् कोआपरेशन् “ आन्दोलनम् प्रारब्दं तिरूचिरापल्लिप्रदेशे । जगद्गुर: अपि स्वदेशी आन्दोलनेन प्रभावितो भूत्वा खादिनिर्मितानां वस्त्राणां धारणं प्रारब्दवन्त: । अनेन बहूनां स्वातन्त्र्यसंग्रामिन: आत्मानं धन्या: मत्वा देशस्य सेवार्थं प्रेरिता: आसन् । ते स्वोपदेशै: समाजिकदुर्परम्पराणां निर्मूलनम् कृतवन्त: । समानताया: असृशता खण्डनम् च कृतम् आचार्यै: । अनेन समाजे एकात्मभावनापि जागृता । यदा तेषां गान्धिना सह मिलनम् अभवत् तदा ते देशं परवशात् कुशासनात् मुक्तव्यम् इत्यादि सदुपदेशान् दत्तवन्त: तस्मै । गान्धि: अपि आचार्याणां तेजसा वचसा च बहुधा प्रेरित: आसीत् ।

सम्बद्धाः लेखाः

[सम्पादयतु]