चक्रम् (योगशास्त्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चक्रमिति परिकल्पना चक्रसदृश-आवर्तकं वदति । साम्प्रदायिकवैद्यशास्त्रदृष्ट्या एतानि मानवशरीरस्य उपरिविद्यमानस्तरयुगले विद्यन्ते इत्यभिप्रेतं वर्तते । चक्राणि “शक्तिकेन्द्राणि” । तानि दैहिकशरीरे विद्यमानबिन्दोः आरभ्य सूक्ष्मशरीरस्य स्तरेषु विस्तारं प्राप्य भ्रमणेन व्यजनाकाररचनां प्राप्नुवन्ति ।

सप्तचक्राणि

शब्दव्युत्पत्तिः[सम्पादयतु]

चक्रपदं संस्कृते विभिन्नवस्तुनः अर्थं प्रतिपादयतीति भट्टाचार्यस्य तान्त्रिकेतिहासविमर्शाख्ये ग्रन्थे उल्लिखितं वर्तते ।

  1. शक्तेः अपरिमितभ्रमणं वदतीदं चक्रपदम् ।
  2. जनानामेकं वृत्तम् । धार्मिकप्रयोगेषु विभिन्नचक्रसाधनानि वर्तन्ते । अनुगामिनः धार्मिकसभां कुर्वन्ति धार्मिकं विधानं चानुतिष्ठन्ति । निरुत्तरतान्त्रिकदृष्ट्या पञ्चविधचक्राणि वर्तन्ते ।
  3. चक्रपदं यन्त्राणाम् अनुभाविरेखाचित्राणां वा अर्थं वदति इत्यपि दर्शितम् ।
  4. शरीरस्यान्तः विभिन्नमज्जातन्तुजालमपि चक्रपदवाच्यमेव ।

बौद्धधर्मसाहित्यक्षेत्रे संस्कृतपदमिदं चक्रं ( पालीभाषायाः चाक्क इति पदम् ) वृत्तस्य विभिन्नेष्वर्थेषु प्रयुक्तं वर्तते । अस्तित्वस्य चत्वारिवृत्तानि स्थितेः कल्पना वा इत्यपि उल्लेखो वर्तते । तत्र देवाः मानवाः वा स्वस्यापेक्षितं ज्ञानं प्राप्तुं शक्नुवन्ति ।

चक्रव्यावस्था[सम्पादयतु]

सूक्ष्मशरीरस्य परितः भ्रममाणान्येतान्यावर्तकानि शक्तेः स्वीकरणार्थं प्रेषणार्थं च विद्यमानान्येतानि नाभिकेन्द्रितबिन्दवः इति परिगण्यन्ते । सामान्येन सप्तचक्राणि अथवा शक्तिकेन्द्राणि ( प्रकाशचक्राणीति तेषां नामान्तरम् ) सूक्ष्मशरीरस्यान्तः विद्यन्ते इत्यभिप्रायः सर्वसम्मतः वर्तते । तथैवान्वेषितमप्यस्ति । विशेषतः चक्राणां विवरणं विधानद्वयोर्मध्ये एकया रीत्या क्रियते ।

  1. पुष्पसदृशम्
  2. चक्रसदृशम्
  • प्रथमे विधाने निर्दिष्टायां सङ्ख्यायां पुष्पदलानि वृत्तस्यैकस्य परिधेः परितः दर्शयति ।
  • द्वितीये विधाने निर्दिष्टायां सङ्ख्यायां चक्रस्य दण्डानि वृत्तमेकं समानांशेन विभागं कुर्वन्ति । एतस्यैव चक्रसदृशमिति व्यवहारः । प्रत्येकस्मिन्नपि चक्रे निर्दिष्टसङ्ख्यायां विभागाः अथवा दलानि भवन्ति ।

चक्रसम्बन्धीमूलविषयाः उपनिषत्सु प्राप्तुं शक्नुमः । तेषां कालनिर्णयस्तु क्लेशकरः एव । कुतश्चेत् प्रथमतया क्रिस्तपूर्व १२००-९०० समये एतेषां लेखनात् १००० वर्षात् प्रागेव जनानां मुखतःमुखं प्रति प्रसरितमासीदिति अभिप्रायः वर्तते एव ।

व्याख्यानानि[सम्पादयतु]

चक्राणि शक्तिकेन्द्राणि भूत्वा शक्तेः उत्पादनं सङ्ग्रहणं च कुर्वन्ति । बिन्दवः ब्रह्माण्डापेक्षया अधिकं शक्तिं कर्षन्ति । मुख्याः -

  • नाड्यः
  • इडा,
  • पिङ्गलम्,
  • सुषुम्ना ( Sypathetic, Parasympathetic and Central Nerve System ) इति ।

पृष्ठास्थिनः उपरि वक्राकारेण भ्रमन्ति । परस्परं तदा तदा घर्षणं प्राप्नुवन्ति च ।छेदनबिन्दौ तानि बलिष्ठशक्तिकेन्द्राणि रचयन्ति । एतान्येव चक्राणि । मानवशरीरे त्रीणि शक्तिकेन्द्राणि सन्ति । अधस्तात् अथवा प्राणिचक्राणि पादाङ्गुलीश्रोणीकुहरयोः मध्ये विद्यमानानि । प्राणिसाम्राज्ये अस्माकं विकसनमूलं सूचयन्ति । मानवचक्राणि पृष्ठास्थ्नि विद्यन्ते । श्रेष्ठचक्राणि अथवा दैविकचक्राणि पृष्ठवंशस्य उपरि, शिरसः मध्यभागे च स्थितानि । अनोडिय जुडिथमहोदयः चक्राणामेकमाधुनिकं व्याख्यानं दर्शयति – “चक्रमिति क्रियाशीलतायाः केन्द्रम् । जीवशक्तिं स्वीकृत्य, समीकृत्य प्रकटीकरोति । चक्रं च पृष्ठवंशादारभ्यविद्यमानमज्जातन्तुतः प्रसार्यमाण-ग्याङ्लियानामकजैविकशक्तिक्रियाशीलभ्रममाणमेकं वृत्तम् ।” इति । सामान्यतः अत्र षट्-चक्राणि प्रसिद्धानि । पृष्ठास्थिनः अधस्तादारभ्य ललाटस्य मध्यभागपर्यन्तं विद्यमानस्य शक्तेः स्तम्भपङ्क्तौ षट्-चक्राणि, अपि च सप्तमचक्रं दैहिकदेहात् बहिः विद्यते । षट्-चक्राणि ज्ञानस्य मूलस्थितिना सह वर्तन्ते ।

सुसान् शुम्ष्किमहोदयः एनमेवाभिप्रायमङ्गीकरोति । अस्माकं पृष्ठास्थ्नि विद्यमानानि चक्राणि स्वसन्निहितशरीरभागस्य कार्यस्योपरि प्रभावं जनयन्ति तेषु कार्यप्रवृत्तिं वा जनयन्तीति अभिप्रेतं वर्तते । शवपरीक्षाद्वाराऽपि चक्राणामस्तित्वं नैव ज्ञायते इत्यतः अधिकजनाः ‘चक्रमिति केवलं कल्पना एव न वास्तवमि’ति मन्वते । अथापि तेषामस्तित्वं सप्रमाणकं निश्चप्रचमुक्तमस्ति पौरात्यानां सम्प्रदाये ।

चक्राणि पृष्ठास्थानि विद्यमानानि शक्तिकेन्द्राणि पृष्ठवंशस्याधस्तादारभ्य मानवस्य मज्जातन्तुव्यवस्थायाः मुख्येषु भागेषु चलित्वा शिरसः उपरि ऊर्ध्वमुखेन चलन्ति । चक्राणि जीवभौतशास्त्रस्य शक्तयः अथवा मानवशरीरस्य प्राणबिन्दवः अथवा सम्पर्कबिन्दवः इति परिगण्यन्ते । “प्राणानि भवतां सुप्तशरीरस्य मूलानि शक्तिक्षेत्राणि च । समग्रचक्रव्यवस्था अत्यावश्यकी। जगति शक्तेः मूलं च ” इति शुम्ष्कि वदति ।

सप्तचक्राणि[सम्पादयतु]

सप्तचक्राणि यथा –

सप्तचक्राणि
  1. मूलाधारचक्रम् ( पृष्ठवंशस्यान्तिमास्थि )
  2. स्वाधिष्ठानचक्रम् ( जननेन्द्रियसम्बन्धी तन्तुः )
  3. मणिपूरचक्रम् ( नाभिप्रदेशः )
  4. अनाहतचक्रम् ( हृदयप्रदेशः )
  5. विशुद्धिचक्रम् ( कण्ठप्रदेशः )
  6. आज्ञाचक्रम् ( पीनल्-नामकतन्तुः, तृतीयनत्रस्थानम् )
  7. सहस्रारचक्रम् ( शिरसः उपरिभागः, नवजातशिशोः शिरसः ‘मृदुभागः’ )

शिरसि कनिष्ठात् गरिष्ठपर्यन्तं विद्यमानानि चक्राणि – गोटः, ललनः, आज्ञा, ललाटः, सोमः, सहस्रारः (तस्मिन् श्रीचक्रम्) ।

अधिकपठनाय[सम्पादयतु]

  • Apte, Vaman Shivram (1965). The Practical Sanskrit Dictionary (fourth revised & enlarged ed.). Delhi: Motilal Banarsidass Publishers. ISBN 81-208-0567-4. 
  • Bucknell, Roderick; Stuart-Fox, Martin (1986). The Twilight Language: Explorations in Buddhist Meditation and Symbolism. London: Curzon Press. ISBN 0-312-82540-4. 
  • Edgerton, Franklin (2004) [1953]. Buddhist Hybrid Sanskrit Grammar and Dictionary (Reprint ed.). Delhi: Motilal Banarsidass Publishers. ISBN 81-208-0999-8.  (Two volumes)
  • Flood, Gavin (1996). An Introduction to Hinduism. Cambridge: Cambridge University Press. ISBN 0-521-43878-0. 
  • Chia, Mantak; Chia, Maneewan (1993). Awaken Healing Light of the Tao. Healing Tao Books. 
  • Monier-Williams, Monier. A Sanskrit-English Dictionary. Delhi: Motilal Banarsidass Publishers. 
  • Prabhananda, S. (2000). Studies on the Tantras (Second reprint ed.). Calcutta: The Ramakrishna Mission Institute of Culture. ISBN 81-85843-36-8. 
  • Rinpoche, Tenzin Wangyal (2002). Healing with Form, Energy, and Light. Ithaca, New York: Snow Lion Publications. ISBN 1-55939-176-6. 
  • Saraswati, MD, Swami Sivananda (1953–2001). Kundalini Yoga. Tehri-Garhwal, India: Divine Life Society. foldout chart. ISBN 81-7052-052-5. 
  • Tulku, Tarthang (2007). Tibetan Relaxation. The illustrated guide to Kum Nye massage and movement – A yoga from the Tibetan tradition. London: Dunkan Baird Publishers. ISBN 978-1-84483-404-4. 
  • Woodroffe, John (1919–1964). The Serpent Power. Madras, India: Ganesh & Co. ISBN 0-486-23058-9. 
  • Banerji, S. C. Tantra in Bengal. Second Revised and Enlarged Edition. (Manohar: Delhi, 1992) ISBN 81-85425-63-9
  • Saraswati, Swami Sivananda, MD (1953–2001). Kundalini Yoga. Tehri-Garhwal, India: Divine Life Society. ISBN 81-7052-052-5. 
  • Shyam Sundar Goswami, Layayoga: The Definitive Guide to the Chakras and Kundalini, Routledge & Kegan Paul, 1980.
  • Leadbeater, C.W. The Chakras Wheaton, Illinois, U.S.A.:1926—Theosophical Publishing House—Picture of the Chakras on plates facing page 17 as claimed to have been observed by Leadbeater with his third eye
  • Sharp, Dr. Michael (2005). Dossier of the Ascension: A Practical Guide to Chakra Activation and Kundalini Awakening (1st ed.). Avatar Publications. ISBN 0-9735379-3-0. Archived from the original on 2012-12-21. आह्रियत 2015-06-22. 
  • Guru Dharam S Khalsa and Darryl OKeeffe. The Kundalini Yoga Experience New York, NY U.S.A.:2002, Fireside, Simon & Schuster, Inc. Copyright by Baia Books Limited. Kriyans and meditations copyright Yogi Bhajan, All Rights reserved.
  • Judith, Anodea (1996). Eastern Body Western Mind: Psychology And The Chakra System As A Path To The Self. Berkeley, California, USA: Celestial Arts Publishing. ISBN 0-89087-815-3
  • Dahlheimer, Dr. Volker (2006). Kundalini Shakti: Explanation of the Seven Chakras (Video clip with words and explanative grafics ed.). 5th Level Publications. 
  • Florin Lowndes, 'Enlivening the Chakra of the Heart: The Fundamental Spiritual Exercises of Rudolf Steiner' ISBN 1-85584-053-7, first English edition 1998 from the original German edition of 1996, comparing 'traditional' chakra teaching, and that of C.W.Leadbeater, with that of Rudolf Steiner.

बाह्यसम्पर्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चक्रम्_(योगशास्त्रम्)&oldid=484352" इत्यस्माद् प्रतिप्राप्तम्