चायसस्यम्
एतत् चायसस्यं भारते अपि वर्धमानः कश्चन सस्यविशेषः । एतत् चायसस्यम् आङ्ग्लभाषायां Tea Plant इति उच्यते । चायसस्यस्य पत्राणि शुष्कीकृत्य चायचूर्णं निर्मीयते । तेन चायचूर्णेन चायं निर्मीयते । कुत्रचित् चायपत्रेभः एव चायं निर्मीयते । एतत् चायसस्यं "केमेलिया सैनेन्सिस्" इति सस्यजातौ अन्तर्भवति । एतत् सस्यं नित्यहरिद्वर्णसस्यम् । चायसस्यं गुल्मरूपेण वर्धते । एतत् चायसस्यम् उष्णवलये तथा उप-उष्णवलये च प्रमुखतया वर्धते । अस्य चायसस्यस्य कतिपय प्रभेदाः समुद्रस्य वातावरणम् अपि सहन्ते । तादृशानि चायसस्यानि ब्रिटन् तथा अमेरिकासंयुक्तसंस्थानस्य वाषिङ्ग्टन्-प्रदेशस्य उत्तरभागे च वर्धन्ते । एतेषां चायसस्यानां वार्षिकं ५० अङ्गुलं यावत् वृष्टिः आवश्यकी भवति । आम्लीयमृत्तिकायाम् एतानि चायसस्यानि सम्यक् वर्धन्ते । १५०० पादमिते उन्नते स्थाने एतानि चायसस्यानि उत्तमरीत्या वर्धन्ते । तादृशे उन्नते स्थाने चायसस्यानि मन्दगत्या वर्धन्ते, परन्तु तेषां गन्धः बहु उत्तमः भवति ।
एतत् चायसस्यं यदा सम्यक् वर्धते तदा तानि १-२ अङ्गुलं यावत् कर्त्यन्ते । तानि पत्राणि मुकुलम् अथवा पल्लवम् इति उच्यते । कर्तनानन्तरं चायसस्ये सप्ताहाभ्यन्तरे नूतनानि पल्लवानि उद्भवन्ति । चायसस्यस्य अवरोधः कोऽपि न भवति चेत् तत् वृक्षरूपेण वर्धते । तथा वृक्षः भवति चेत् पल्लवानां चयनं कष्टकरम् इति कारणतः पर्याप्तस्य औन्नत्यस्य प्राप्त्यनुक्षणं तानि कर्त्यन्ते ।
अस्मिन् चायसस्ये विधद्वयं भवति । एकविधस्य सस्यस्य पत्राणि अत्यन्तं लघ्वाकारकाणि भवन्ति । अपरस्य विधस्य चायपत्राणि महाकारकाणि भवन्ति । लघ्वाकारकाणां पत्राणां सस्यानि चीनामूलीयानि । तस्य प्रभेदस्य सस्यशास्त्त्रीयं नाम अस्ति "सैनेन्सिस् सैनेन्सिस्" इति । अस्य प्रभेदस्य चायं चीना, फार्मोसा, जपान् इत्यादिषु देशेषु उपयुज्यते । महाकारकाणां पत्राणां सस्यानि च भारतस्य असममूलीयानि । तस्य प्रभेदस्य सस्यशास्त्रीयं नाम अस्ति "सैनेन्सिस् अस्सामिका" इति । अस्य प्रभेदस्य चायं भारते तथा अन्येषु देशेषु उपयुज्यते । इदानीं चायप्रभेदाः बहवः सन्ति । यतः मूलप्रभेदेषु आधुनिकतन्त्रज्ञानस्य उपयोगेन बहवः वंशाः निर्मिताः सन्ति । चायसस्यानां वर्गीकरणे तेषां पत्रस्य गात्रम् आकारः वा प्रमुखं पात्रं वहति । मध्यमगात्रस्य पत्रयुक्तं "काम्बोड्" प्रभेदः अपि इदानीं प्रसिद्धः अस्ति ।