चारमीनार्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चारमीनार-

चारमीनार् पार्श्वदृश्यम्
चारमीनार्
चारमीनार् पुरोभागः
चारमीनार् अधोभागतः

हैदराबादनगरस्य हृदयभागे विपणिमध्ये अस्ति एतत् चारमीनार्[नष्टसम्पर्कः] वीक्षकगोपुरस्थानम् । हैदराबाद् नगरस्य प्रमुखम् आकर्षणस्थानम् अस्ति एतत् । क्रिस्ताब्दे १५९३ तमे वर्षे प्लेग् रोगात् मुक्तिः प्राप्ता इत्यस्य स्मरणार्थं नर्तकयाः भागमत्याः स्मरणार्थं च एतम् विशेषशिल्पं महम्मद् कुलीषा निर्मितवान् । अत्र चत्वारि गोपुराणि सन्ति । गोपुराणि ५० मीटर उन्नतानि ३० मीटर् विस्तृतानि च सन्ति । चतुर्षु र्भागेषु तोरणानि सन्ति । एतेषां पार्श्वभागे पाटलपुष्पाणां सुन्दरचित्रणनि , अरेबिकभाषया शासनानि च चित्रितानि सन्ति । उपरि गन्तुं सोपानानि सन्ति । गोपुरशिखरेभ्यः नगरदर्शनम् अतीवानन्दाय भवति । चारमीनारप्रदेशं परितः आपणाः सन्ति । अत्र आभरणानां विपणिः काचकङ्कणानां मौक्तिकानां च वाणिज्यं च सदा प्रसिद्धम् अस्ति । प्रवेशकालः –प्रातः ९ वादनतः सायं ४ वादनं यावत् । सायङ्काले ७ वादनतः ९ वादनपर्यन्तं दीपोत्सवः भवति । गोपुराणि प्रकाशे अति सुन्दराणि भवन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चारमीनार्&oldid=480295" इत्यस्माद् प्रतिप्राप्तम्