सामग्री पर जाएँ

चिक्रोडः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Squirrels
Various members of the family Sciuridae




  



 Callosciurus prevostii  Tamias sibiricus  Tamiasciurus hudsonicus

 Sciurus niger  Spermophilus columbianus 

 Xerus inauris   Cynomys ludovicianus
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Mammalia
गणः Rodentia
उपगणः Sciuromorpha
कुलम् Sciuridae
Fischer de Waldheim, 1817
उपविभागीयस्तरः

and see text

चिक्रोडः

चिक्रोडाः मध्यमगात्रीयाः प्राणिनः दंशक परिवारस्य सदस्याः । अस्मिन् वर्गे वृक्षवासी , भूवासी, नभगामी चिक्रोडाः इत्यादि भेदाः भवन्ति । अमेरिका युरेशिया तथा आफ्रिका भूखण्डानां मूलनिवासिनः चिक्रोडाः ४ कोटि वर्षेभ्यः पूर्वं भूमौ जाताः । ते आनित्यहरिद्वर्णप्रदेशात् मरुभूमि पर्यन्तं सर्वेषु भूप्रदेशेषु वस्तुं शक्यन्ते । ध्रुवप्रदेशः तथा अतिशुष्कभूभागाः तैः न वासयोग्याः । रामायणे सेतुबन्धनाख्याने विक्रोडस्य उल्लेखः अस्ति । सेतुबन्धनेन सदृशं महाकार्ये लघुजीवेन चिक्रोडेन अपि भागः गृहीतः । अन्य भारतीय भाषासु तमिळु- अनिल्, तेलुगु- वुदुत, मलयाली- अन्नन्, कन्नड- अळिलु, - इति नामनि संबोध्यते।

शरीररचना

[सम्पादयतु]

चिक्रोडाः लघुजीवाः । कुब्जे शरीरे केशसमृद्धः पुच्छः, विशालानि नेत्राणि च भवन्ति । केशाः मृदुदुकूलमिव भासन्ते । प्रत्येकेपादे ५ अंगुल्यः विद्यन्ते । पादाग्रः यः वृक्षारोहणे सहायकः, मृदु भूत्वापि दृढः वर्तते । तेषां हृदयभागे तथा अन्य निम्नाङ्गेषु स्थितेभ्यः स्पर्शाङ्गेभ्यः उत्कृष्टं स्पर्शज्ञानं ते प्रदर्शयन्ति । विशालनेत्रयुक्ताः चिक्रोडाः तीक्ष्णं दृष्टिसामर्थ्यमपि आप्नुवन्ति । चिक्रोडानां दन्ताः शक्तिशाली भवन्ति आजीवनपर्यन्तं वर्धन्ते च ।आहारकर्तनार्थं मुखस्य अन्ते स्थलावकाशः विद्यते । चिक्रोडानां आयुः षट् वर्षाणि । नगरवासी चिक्रोडाः वाहनाघातेन ग्रामवासिनः आहाराभावेन च आकालमरणं प्राप्नुवन्ति ।

आहारम्

[सम्पादयतु]

मूलतः चिक्रोडाः शाकाहारिणः शुष्कफलानि बीजानि शाकानि च खादन्ति । यदा शाकाहारः अलभ्यः तदा कीटान् अण्डानि पक्षिशावकान् सर्पशावकान् च खादन्ति । समशीतोष्णप्रदेशे ग्रीष्मः तेषां कृते कठोरकालः । यतः भूमौ स्थितानि बीजानि अङ्कुरितानि । अपिच नवाहारोत्पादनं यावत् न संभवति । शीतप्रदेशेषु अधिकशः कीटानेव भक्षयन्ति ।

व्यवहारः

[सम्पादयतु]

चिक्रोडानां सन्तानोत्पत्तिः वर्षे एक या द्विवारं भवति । गर्भावस्था त्रि – षट् सप्ताहात्मकी । जात्यानुसारेण सन्तानसंख्यासु भेदाः सन्ति । नवजातः चिक्रोडः दन्तहीनः दृष्टिहीनः च वर्तते । चिक्रोडा षट्- दशसप्ताह पर्यन्तं स्तन्यपानं कुर्वती शिशून् पालयति । प्रथमवर्षान्ते चिक्रोडशिशुः यौवनावस्थां प्राप्नोति । भूवासिनः चिक्रोडाः समाजपेमिणः किन्तु वृक्षवासिनः एकाकिनः भवन्ति । भू तथा वृक्षवासी चिक्रोडाः दिनचराः किन्तु नभगामीचिक्रोडाः निशाचराः वर्तन्ते

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=चिक्रोडः&oldid=484318" इत्यस्माद् प्रतिप्राप्तम्