सामग्री पर जाएँ

चित्रकाव्यम् (ग्रन्थः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एतस्य काव्यस्य रचयिता अस्ति श्रीरामभद्राचार्य: । (1740-1904) कोयम्बत्तूरुसमीपे ‘सुन्दपालयम्’ ग्रामे तस्य जन्म । तेन 25 अधिका: कृतय: रचिता: । तासु बह्व्य: पूजा-सम्प्रदायादि-सम्बद्धा: । तस्य अपूर्वप्रतिभाया: निदर्शकम् अस्ति ‘चित्रकाव्यम् ।’ चित्रकाव्ये चमत्कृति: विशेषत: भवति, या च सामान्यान् जनान् रञ्जयति विशेषेण । किन्तु काव्यशास्त्रज्ञा: आनन्दवर्धनादय: एतस्य प्रकारस्य अप्राधान्यं मन्यन्ते । रसधाराम् अवलम्ब्य ते काव्यस्य स्तरं निश्चिन्वन्ति । चित्रकाव्यादय: सकृत् पठनेन अवगता: न भवन्ति । अर्थावगमार्थं पौन:पुन्येन श्लोका: परिशीलनीय: भवति । क्वचित् व्याख्यानं विना श्लोकस्य अर्थ: एव न अवगम्यते । एतस्य सर्वस्य कारणत: काव्यपठनावसरे अनुस्यूततया प्रवहन्त्या: रसधाराया: विच्छित्ति: सहजा एव खलु ? एवम् एतानि रसभङ्गकारणानि इत्यत: एतेषाम् अप्राशस्त्यं कल्प्यते काव्यमर्मज्ञै: । वयं तु न रसधारायां निमज्जनं कर्तुम् उद्युक्ता: । चमत्कृतौ एव अस्माकम् आसक्ति: । एतम् अंशं मनसि निधाय ग्रन्थस्था: केचन श्लोका: उदाह्रियन्ते भवतां मनोविनोदाय ।

तन्त्रोत्तरम्

[सम्पादयतु]

यत्र प्रश्नद्वयस्य अपि एकम् एव उत्तरं भवति तत् तन्त्रोत्तरम् ।

वृक्षालि: कीदृशी च्छायां न करोति, च शूलिन: ।
पत्नी का प्रश्नयोरेकं विदुषा वाच्यमुत्तरम् ॥ (1.7)

अत्र प्रथम: प्रश्न: - ‘कीदृशी वृक्षपङ्क्ति: छायां न ददाति ?’ इति । द्वितीय: प्रश्न: - शूलिन: (शिवस्य) पत्नी का ?’ इति । उभयो: अपि एकम् एव उत्तरम् ‘अपर्णा’ इति । अपर्णाशब्दस्य ‘पर्णरहिता’ ‘पार्वती’ चेति अर्थद्वयम् । पर्णरहिता वृक्षपङ्क्ति: च्छायां न ददाति खलु ? शिवस्य पत्नी पार्वती इति तु सर्वै: विदितम् एव । एवम् उभयो: अपि एकम् एव उत्तरम् अत्र ।

व्याससमासोत्तरम्

[सम्पादयतु]
मुनिं त्रयाणां वर्णानां मेलने लेशमन्त्ययो: ।
प्रथमान्तिमयोर्ब्रूते पशून् पदमिदं वद ॥ (1.23)

कश्चन मुनि: । तस्य नाम्नि वर्णत्रयम् । अन्तिमयो: वर्णयो: मेलनेन ‘लेश:’ इत्यर्थ: प्राप्यते । प्रथमान्तिमयो: मेलनेन ‘पशव:’ इत्यर्थ: लभ्यते । एवं तर्हि स: मुनि: क: ? स: मुनिरस्ति ‘गालव:’ । अन्तिमयो: मेलनेन ‘लव:’ इति पदं प्राप्यते । लव: - लेश: । प्रथमान्तिमयो: मेलनेन ‘गाव:’ इति पदं लभ्यते । गाव: पशव: ।

बहिर्लापिक्रम:

[सम्पादयतु]
का बाणतनया को वा प्रसूनैर्जयति प्रजा: ।
प्रश्नोत्तराद्यवर्णाभ्यां घटिता पातु देवता ॥ (1.38)

‘बाणपुत्री का ? क: प्रसूनै: प्रजा: जयति ? अनयो: प्रश्नयो: उत्तरयो: आद्यक्षरे ये भवत: ताभ्यां युक्ता देवता सर्वान् रक्षतु’ इति श्लोकार्थ: । बाणतनया ‘उषा’ । प्रसूनै: प्रजा: जयति ‘मार:’ । तयो: आद्यक्षराभ्यां घटिता देवता ‘उमा’ ।

प्रश्नोत्तरम्

[सम्पादयतु]

प्रश्नवाक्ये एव उत्तरम् अपि यत्र निहितं भवति तत् प्रश्नोत्तरम् । अधो दत्ते श्लोकद्वये अपि उत्तरं प्रश्नवाक्ये एव अस्ति । अत: आदौ प्रश्नवाक्यस्थम् उत्तरम् अन्विष्यन्तु । तत् न लब्धं चेत् आवरणे दत्तानि उत्तराणि पश्यन्तु । 1. का सारभूमि: आभाति ? 2. कोऽपेत: साधुसङ्गत: ? (कोऽपेत: = क: अपेत: = दूरङ्गत:) 3. को द्रवो धान्यभेद: स्यात् ? 4. काम् आर्तां बाधते शशी ? 5. कोऽपवादरतो लोके ? 6. का व्याख्याता पदावलि: ? 7. पथि को याति वेगेन ? 8. केन सृष्टमिदं जगात् ? (1-48,49) ( उत्तराणि- 1. कासारभूमि: (कासारयुक्ता भूमि:) 2. कोपेत: (कोपयुक्त:) 3. कोद्रव: (धान्यविशेष:) 4. कामार्ताम् (कामपीडायुक्ताम्) 5. कोपवादरत: (कोपसहित:) 6.काव्याख्याता (कात्येषु उक्ता) 7. पथिक: (प्रयाणिक:) 8. केन (ब्रह्मणा, क: = ब्रह्मा)

चित्रोत्तरम्

[सम्पादयतु]

कया सुधांशुराभाति ? केषु भाति च कालिमा ? औदार्यं श्लाघ्यते कस्य ? कयो: कङ्कणधारणम् ? (1.50) ‘कया’ इति पदे मध्ये ‘ल’कार: योजनीय: । कलया खलु चन्द्र: शोभते ? ‘केषु’ इत्यत्र ‘शे’ योजनीयम् । केशेषु कृष्णवर्णता शोभते । ‘कस्य’ इत्यत्र ‘र्ण’ योजनीयम् । कर्णस्य खलु औदार्यं श्लाघ्यते ? ‘कयो:’ इत्यत्र ‘र’ योजनीयम् । करयो: भवति कङ्कणधारणम् । एवं प्रश्नवाचकशब्दे कस्यचित् वर्णस्य योजनात् उत्तरं प्राप्यते ।

प्रतिलोमानुलोमोत्तरम्

[सम्पादयतु]

प्रथमप्रश्नस्य यत् उत्तरं तदेव प्रतिलोमतया पठाम: चेत् द्वितीयस्यापि उत्तरं प्राप्यते ।

मूर्ध्नि का धार्यते केशरम्यतां च ददाति क: !
प्रतिलोमानुलोमाभ्याम् एकैनैव वदोत्तरम् ॥(1.57)

शिरसि का धार्यते ? इति प्रश्न: । ‘मालिका’ इति उत्तरम् । प्रतिलोमतया एतत् पठितं चेत् ‘कालिमा’ इति पदं प्राप्यते । तत् ‘केशरम्यतां क: ददाति ?’ इत्येतस्य प्रश्नस्य उत्तरं भवति ।

सूत्रप्रश्न:

[सम्पादयतु]
नरक: कस्यास्सूनु: के वा कुर्वन्ति दानमर्थिभ्य: ।
पाणिनिसूत्रेणैकेनोत्तरयुग्मं सुधीभिरिह वाच्यम् ॥(1.67)

‘नरक: कस्या: पुत्र: ?’ ‘के अर्थिभ्य: दानं कुर्वन्ति?’ इति प्रश्नद्वयम् अस्ति । अनयो: उत्तररूपेण एकं पाणिनीयसूत्रं वक्तव्यम् । उत्तरम् अस्ति ‘भुव: प्रभव:’ इति सूत्रम् । नरक: भुव: (भूम्या:) पुत्र: । प्रभव: (धनिका:) दानं कुर्वन्ति ।

अव्यक्तवचनम्

[सम्पादयतु]

काचिद्वेश्या निजे गेहे धनिकं कञ्चिदागतम् स्वानुजैर्मर्दयित्वा च हत्वा तत्स्वं समस्तकम् ।

बहि: क्षिपति तं कूपे पातयित्वाथवा बलात् ।
सा च केऽनुजास्तस्या: धनिकस्य च को वद ॥(1.78)

काचित् स्वगृहम् आगतं धनिकं स्वस्य अनुजै: मर्दयित्वा तदीयं सर्वस्वं हत्वा तं बहि: पातयति । सा का ? तत् गृहं कुत्र ? धनिक: क: ? तस्या: अनुजा: के ? सा का इति दूरे कुत्रापि अन्वेष्टव्यं नास्ति । सा विलक्षणा अस्ति भवतां शरीरे एव । सा अस्ति जिह्वा । तस्या: गृहं मुखम् । तस्या: अनुजा: दन्ता: । कूप: उदरम् । धनिक: इक्षुदण्डादि रसवद्वस्तु । मुखम् आगतम् इक्षुदण्डं दन्तै: मर्दयित्वा तदीयं उदरं प्रति प्रेषयित्वा तं बहि: पातयति ।

अक्षरविन्याससरसम्

[सम्पादयतु]

चारं निहतवान् कृष्ण: स्वरे राजा तु पूज्यते । नादो वीणां नादयति भावं वद सखे द्रुतम् । पादान्तर्नूपुरन्यासे नारीवत् रम्यतां व्रजेत् ॥ ‘चारम्’ इत्यत्र ‘नू’ इत्यक्षरं योजनीयम् । तदा ‘चाणूर’ पदं प्राप्यते । ‘चाणूरं कृष्ण: निहतवान्’ इति वाक्यं प्राप्यते । ‘स्वरे’ इत्यत्र ‘पु’ इत्यक्षरं योजनीयम् । तदा ‘स्वपुरे’ इति पदं लभ्यते । ‘स्वपुरे राजा पूज्यते’ इति तु युक्तम् एव । ‘नाद:’ इत्यत्र ‘रंकार: योजनीय: । तत: ‘नारद’पदं प्राप्यते । ‘नारद: वीणां वादयति’ इति वाक्यम् । किम् अक्षरं कुत्र योजनीयम् इति कवि: एव उक्तवान् अस्ति - ‘नू’ ‘पु’ ‘र’ न्यास: क्रियताम् इति वदन् ।

शब्दगूढम्

[सम्पादयतु]

अधोनिर्दिष्टे श्लोके क्रियापदं गूढतया निहितम् अस्ति । तत् किम् इति किं भवन्त: अन्वेष्टुं शक्नुयु: ?

आपदर्थं हि संख्यावान् गृहं क्षेत्रे च पार्थिवात् ।
विद्वानेव विजानाति गूढमत्र क्रियापदम् ॥(1.140)

अत्र क्रियापदम् ‘आपत्’ इति । आपत् = प्राप्तवान् । पण्डित: (संख्यावान्) राजत: गृहं क्षेत्रम् अर्थं (धनं) च प्राप्नोत् इति वाक्यस्वरूपम् । ‘आपदर्थम्’ इत्यत्र पदच्छेद: विचिन्त्य करणीय: । प्रथमपरिच्छेदे इतोऽपि कानिचन प्रकरणानि सन्ति रुचिराणि । किन्तु तेषाम् अवगमनं कठिनम् इत्यत: अत्र न निरूप्यन्ते। द्वितीयपरिच्छेदे शतं बन्धा: सन्ति । तन्नाम श्लोका: चित्ररूपेण निरूपयितुं शक्या: । स्वरूपज्ञापनाय ‘कृष्णसर्पबन्ध:’ दीयते अध: । अर्थज्ञानार्थं मूलस्थं व्याख्यानम् एव दीयते ।

कृष्णसर्पबन्ध:

[सम्पादयतु]

ग्रन्थकार: रमणीयतया चित्ररचने अपि समर्थ: । बन्धानां चित्राणि प्राय: तेनैव रचितानि । सङ्गणकद्वारा तानि यथावत् मुद्रितानि सन्ति पुस्तकेऽस्मिन् । एतत् चित्रकाव्यस्य स्थूलं स्वरूपम् । चित्रकाव्यस्य समग्रस्य अवगमनं न सुलभसाध्यम् । अधिकं भाषाज्ञानम्, विशेषावधानं च अपेक्षते एतस्य अवगमनार्थम् । क्वचित् (शास्त्रप्रमेयादिषु) शास्त्रविषय: एव निरूप्यते । तत्र तु शास्त्र-ज्ञानमन्तरा अर्थावगम: सर्वथा अशक्य:। प्रतिभावान् पण्डित: कवि: एव एतादृशं काव्यं रचयितुं शक्नुयात् । रामभद्राचार्य: एतत् काव्यं विरचयन् स्वस्य पाण्डित्यं प्रतिभाशालितां च निरूपितवान् अस्ति । एतस्य सम्पादनेन प्रकाशनेन च सम्पत्वर्य: संस्कृतलोकस्य महान्तम् उपकारं कृतवान् अस्ति । संस्कृतक्षेत्रं ग्रन्थरत्नेन विभूषितम् अभवत् एतेन । ग्रन्थे तत्र तत्र दृश्यमानानि प्रश्नचिह्नानि, नक्षत्रचिह्नानि, व्याख्यानराहित्यं (300-400) च ग्रन्थस्यास्य परिष्कारसापेक्षतां निरूपयति, तथापि यत् एतावत् कृतं तत् निश्चयेन महाश्रमसाध्यम् एव । अत: निश्चयेन अभिनन्दनम् अर्हन्ति प्रकाशकादय: सर्वेऽपि ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]