चीनदेशीयः विशालप्राचीरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चीनदेशीयः विशालप्राचीरः
विश्वपरम्परास्थानानि

चीन-देशस्य महाप्राचीरः
राष्ट्रम् 22px चीन
प्रकारः सांस्कृतिकम्
मानदण्डः i, ii, iii, iv, vi
अनुबन्धाः ४३८
क्षेत्रम् जम्बूद्वीप-प्रशान्तौ
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः १९८७  (११ सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

चीनेशीयः विशालप्राचीरः मृत्तिकया, पाषाणैः च निर्मितः कश्चन दुर्गव्यूहात्मकः प्राचीरः वर्तते, यः चीन-देशस्य विभिन्नैः शासकैः आक्रान्तॄणां रक्षायै क्रैस्ताब्दात् पूर्वकालीनात् पञ्चम्याः शताब्द्याः आरभ्य क्रिस्ताब्दस्य षोडशशताब्दीं यावत् निर्मितः। प्राचीरस्यास्य विशलतायाः अनुमानम् अंशेनानेन भवितुम् अर्हति यत्, एषः प्राचीरः अन्तरिक्षात् अपि परिलक्षितः भवति।[१] एषः प्राचीरः ६,४०० किलोमीटर-परिमिते (१०,००० ली, चीनी-लम्बता-मापन-मानकम्) क्षेत्रे विस्तृतः अस्ति।[२] एतस्य विस्तारः पूर्वदिशि शानहाइगुआन-तः पश्चिमदिशि लोप नुर-पर्यन्तम् अस्ति। आहत्य लम्बता कदाचित् ६७०० कि॰मी॰ (४१६० मील) अस्ति।[३] यद्पि पुरातत्वस्य सर्वेक्षणविभागस्य वर्तमान-सर्वेक्षणानुसारं समग्रः महाप्राचीरः, स्वस्य सर्वाभिः शाखाभिः सह 8,851.8 किलोमीटर (5,500.3 मील) पर्यन्तं विस्तृतः अस्ति।[४][५][६] 'मिंग'-वंशस्य सुरक्षायै दशलक्षतः अधिकाः सैनिकाः नियुक्ताः आसन्।[७] अनुमन्यते यत्, एतस्य महाप्राचीरस्य निर्माण-परियोजनायां कदाचित् २० तः ३० लक्षजनानां परिश्रमः वर्तते इति।[८]

चीन-देशे राज्यस्य रक्षां कर्तुं प्राचीरस्य निर्माणं तदा आरब्धं, यदा (अंग्रेजी :Qi), यान (अंग्रेजी :Yan), जाहो (अंग्रेजी :Zhao) इत्येताभ्यां राज्याभ्यां बाण-असीनाम् आक्रमणेभ्यः आत्मरक्षायै मृत्तिकां, पाषाणान् च संयाने नुदित्वा ईष्टिकानां प्राचीरः किन-साम्राज्यस्य (अंग्रेजी :Qin) अन्तर्गततया निर्मितः। एतत् साम्राज्यं लघूनां राज्यानाम् एकत्रीकरणं कृत्वा अखण्ड-चीन-देशस्य रचनाम् अकरोत्। किन-साम्राज्यात् पूर्वतनैः शासकैः निर्मिताः विभिन्नाः प्राचीराः संयोजिताः, तैः चीन-देशसय् उत्तरसीमायाः निर्माणम् अभवत्। पञ्चम्याः शताब्द्याः अनन्तरम् अनेके प्राचीराः निर्मिताः, येषां सम्मिलितं प्रारूपमेव चीनदेशीयः विशालप्राचीरः उच्यते। प्रसिद्धतमेषु प्राचीरेषु अन्यतमः २२०-२०६ क्रिश्टाब्दात् पूर्वं चीन-देशस्य प्रथम-सम्राजा किन-शी-हुआंग इत्यनेन निर्मितः। तस्य प्राचीरस्य केचन अंशाः इतोऽपि अवशिष्टाः। एषः प्राचीरः मिंग-वंशेन निर्मितात् प्राचीरात् दूरे उत्तरदिशायां निर्मितः अस्ति।[९] नवीन-चीन-देशस्य अतीव-लम्बमाना-सीमा आक्रमणकारिभ्यः पदाक्रान्तयोग्या आसीत्, अतः किन-शासकैः चीन-देशस्य अन्यसीमा विस्तीर्य अन्यसीमाभिः सह योजिता। एतस्य कार्यस्य कृते परिश्रमस्य, संसाधनस्य च आवश्यकता आसीत्। प्रचीरनिर्माणस्य सामग्रीं सीमां यावत् नयनं कठनम् आसीत्। यतः श्रमिकैः स्थानीयसंसाधनानाम् उपयोगं कृत्वा निकटवर्तिनः पर्वतस्य पाषाणैः, मृत्तिकया च प्राचीरस्य निर्माणं कृतम्। कालान्तरे विभिन्नैः साम्राज्यैः प्रचीरस्य समीकार्यं कृतम्। तेषु हान, सुई, उत्तरी इत्यादिभिः प्रचारीस्य निर्माणं, वर्धनं च कारितम्। सम्प्रति एषः प्राचीरः विश्वेस्मिन् चीन-देशस्य विख्यातिं वर्धयति। युनेस्को-द्वारा १९८७ तः विश्वपरम्परास्थानकत्वेन सः घोषितः।

चित्रदीर्घा[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. Empty citation‎ (help) 
  2. डेमियन ज़िमरमैन, ICE केस स्टडीज़: द ग्रेट वॉल ऑफ चाइना, दिसंबर १९९७
  3. Empty citation‎ (help) 
  4. "ग्रेट वॉल ऑफ चाइना 'ईवन लॉन्गर'". बीबीसी. 2009-04-20. आह्रियत 2009-04-20. 
  5. Empty citation‎ (help) 
  6. Empty citation‎ (help) 
  7. द ग्रेट वॉल ऑफ चाइना
  8. डैमियन ज़िमर्मैन, द ग्रेट वॉल ऑफ चाइना, ICE केस स्टडीज़, दिसंबर, १९९७
  9. "महान दीवार का निर्माण". Archived from the original on 2008-12-02. आह्रियत 2017-11-28. 

बाहरी कड़ियाँ[सम्पादयतु]