चूलिकामापिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

चूलिकामापिका (Screw Gauge)एकया चूलिकया (Screw) निर्मीयते यस्मिन् अवधानपूर्वकं वलितानि क्रियन्ते । वलितैरेभिश्चूलिका एकस्मिन् अर्धवृत्ताकारे घने घूर्णनं करोति । यदि चूलिका घटीयन्त्रस्य सूचिकायाः दिशि परिभ्राम्यते तर्हि सा पुरस्सरति तद्विपरीतदिशि परिभ्रामणात् च सा अपसरति । पूर्णेकावृत्या चूलिका यावन्मात्रं पुरस्सरणम् अपसरणं वा करोति तत्तु चूलिकायाः वलितमिति कथ्तते । वलितस्यास्य मानं प्रायः एकमिलीमीटरेण तुल्यं भवति । यदि चेत् वलितस्य वृत्तं १०० तुल्यभागेषु विभज्यते तर्हि एकस्मिन् भागे घूर्णनात् चूलिका १/१०० मि. मी. पर्यन्तं पुरो गमिष्यति । इदमेव तन्न्यूनतमं दैर्घ्यं भवति यत् चूलिकया माप्यते । दैर्घ्यञ्चेदं चूलिकामापिकायाः लघुतममाप (Least count) इति कथ्यते । अस्मिन् यन्त्रे मापिकाद्वयं वर्त्तते ।

चूलिकामापिका(Screw Gauge)

तयोरेका सरलमापिका (Linear Scale) भवति । सा चूलिकायाः सम्पूर्णां वलितसंख्यां सूचयति । अन्या च शिरोमापिका (Head Scale) इत्यभिधीयते । तया च मापिकायाः गोले निर्मितानां भागानां संख्या सूच्यते । सूक्ष्मलौहतन्त्वादीनां लघुदैर्घ्याणां व्यासादिमापने यन्त्रस्यास्य प्रयोगः क्रियते ।

प्रयोगरीतिः[सम्पादयतु]

चूलिकामापिकायाः प्रयोगस्य रीतिः भागत्रये विभक्ता ।

  1. चूलिकावलितानां लघिष्ठमापस्य च ज्ञानम् ।
  2. शून्यङ्कित्रुट्याः परिज्ञानम् ।
  3. दैर्घ्यस्य मापनम् ।

चूलिकावलितानां लघिष्ठमापस्य च ज्ञानम्[सम्पादयतु]

चूलिकायाः वलितं ज्ञातुं चूलिका वारमेकं पूर्णविर्ते परिभ्राम्यते । इत्थं चूलिका यावन्मात्रं पुरस्मरणमपसरणं वा करोति तदन्तरालं ऋजुमापके परिभ्राम्यते । अतो चूलिकायाः वलितं ज्ञायते । पुनश्च चूलिकाशिरसि वर्त्तमानाः भागाः पठयन्ते । संख्यया अनया चूलिकायाः वलितसंख्यां विभज्य चूलिकायाः लघिष्टमापः परिज्ञायते ।

शून्यङ्कत्रुट्याः परिज्ञानम्(Zero Error)[सम्पादयतु]

ततश्च परिवृत्तिपूर्वकं चूलिका ’अ’ इति अर्ध्दवृत्ताकारघनस्य समतलान्तभागेन सर्वथा संयुज्यते परिलक्ष्यते च यत् शिरोमापिकायाः शून्यं ऋजुमापकस्य शून्येन मिलति न वा । यदि चेदुभे शून्ये मिलेताम् तर्हि यन्त्रे शून्याङ्की त्रुटिर्न भवेत् । यदि चेदुभे शून्ये न मिलेताम् तर्हि शून्याङ्की त्रुटिः संजायेत । तां त्रुटिं परिज्ञातुं शिरोमापकस्य तञ्चिह्न्ं पठ्य ते यत् सरलमापकस्य रेखोपरि वर्तते । तथाच चूलिकायाः शिरस्तु घनस्य समतलान्तभागेन सर्वथा मिलितं भवति । यदि चेत् चूलिकायाः ’स’ इति शिरसः अर्ध्दवृत्ताकारघनस्य ’प’ इति शिरसश्च मध्ये स्वल्पावकाशो वर्त्तेत सरलमापकस्य च शून्यशिरः ऋजुमापकस्य शून्यशिरसा मिलितं भवेत् तर्हि शून्याङ्की त्रुटिः ऋणात्मिका भवति । सा च प्रेक्षणेषु संयुज्यते । परन्तु, यदि शून्ययोरुभयोः सम्मिलनात् पूर्वमेव चूलिकायाः ’’स’’ इति शिरः घनस्य ’प’ इति शिरसा मिलेत् तर्हि शून्याङ्की त्रुटिः धनात्मिका भवति । सा च प्रेक्षणेन ऊनीक्रियते ।


दैर्घ्यस्य मापनम्[सम्पादयतु]

यस्य वस्तुनः स्थौल्यं तद् ‘प’ इति ‘स’ इति एतयोर्मध्ये स्थाप्यते चूलिका च परिवर्त्यते । क्रिया चेयं तावत्पर्यन्तं क्रियते यावत् तद् वस्तु ‘प’ इति ‘स’ इति शिरसोर्मध्ये याथार्थेन दम्यते । सरलमापिका शीर्षमापकश्च पठ्येते यथावश्यकं शून्याङकीं त्रुटिं च संयोज्य वियोज्य वा तस्य स्थोल्यं परिज्ञायते ।

तन्तुनः व्यासस्य मापनकाले प्रत्येकस्मिन् स्थाने उभयोर्लम्बरूपयोः दिशोः प्रेक्षणं कर्त्तव्यम् । यतः तन्तुनः परिच्छेदः तस्मिन् स्थाने पूर्णतया वृत्ताकारो न भवेत् । एतादृशानि प्रेक्षणानि च तन्तुनः दैर्घ्यस्य पञ्चसु षट्सु वा स्थानेपु करणीयानि ।

सर्वेषां प्रेक्षणानां मघ्यमानग्रहणात् तन्तुनः यथार्थो व्यासः गृह्यते । तदनु तन्तुनः दैर्घ्यं सामान्यमापकेन माप्यं तस्य संहतिश्च भौतिकतुलया ज्ञातव्या । यतो धनत्वम् = संहतिः / आयतनम् । आयतनञ्च = π त्र२ दैर्घ्यं । यत्र Π = ३.१४, ‘त्र’ इति तन्तुनः त्रिज्या ‘दै’ इति च तस्य दैर्घ्यं भवति । अतएव ज्ञातासु सर्वासु-राशिपु घनत्वस्य गणना क्रियते ।

अवधानीयम्[सम्पादयतु]

  1. चूलिकामापिकायां वस्तुनः सम्पीडनकाले चूलिकाशीरसोः वस्तुनश्च मध्ये यत्किञ्चिदपि स्थानं न अवशिष्येत् न चापि तद्वस्तु समधिकं दम्येत येन तञ्चिपिटं भवेत् ।
  2. धनात्मिका ऋणात्मिका वा त्रुटिः सावधानतया पठनीया ।
  3. यदि चेत् शीर्षमापकस्य चिन्हं दुष्पाठ्यं भवेत् तर्हि पठनशीशकस्य (Reading lense) प्रयोगः करणीयः ।
  4. तन्तुनः व्यासमापनकाले चूलिका एकस्मिन्नेव दिशि परिभ्राम्या । येन पिच्छदा त्रुटिः (Backlasha Error) न संजायेत ।
  5. तन्तुनः व्यासस्य मापनं प्रत्येकस्मिन् स्थाने द्वयोर्लम्बरूपयोः दिशोः कर्त्तव्यम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चूलिकामापिका&oldid=409253" इत्यस्माद् पुनः प्राप्तिः