चेन्नई अन्ताराष्ट्रियविमानस्थलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चेन्नई अन्ताराष्ट्रियविमानस्थलम्[सम्पादयतु]

चेन्नई अन्ताराष्ट्रियविमानस्थलम् (आईएटीएः MAA, आईसीएओः VOMM ), एतत् माद्रास इंटरनेशनल एयरपोर्ट इति नाम्ना विख्यातम् अस्ति। चेन्नई(माद्रास), इति भारतवर्षस्य दक्षिणस्यां दिशि तिरूसूलम् इति नगरे स्थितम्। एतत् भारतवर्षस्य सर्वापेक्षयाबृहदन्ताराष्ट्रियप्रवेशद्वारेषु अन्यतममस्ति। एतत् विमानक्षेत्रम् भारतवर्षस्य तृतीयव्यस्ततममस्ति(देहल्लीमुम्बाई इत्यनयोः अनन्तरम्)। एतत् एकमन्तर्राष्ट्रियं केन्द्रं भवति येन २००७ तः प्रायः १२ कोटियात्रीणां निर्वाहं कृतमस्ति। किञ्च २५तः अधिकविमानपङ्क्त्याः सेवां प्रददाति। भारतवर्षे मुम्बाई इति नगरात् परम् इदं द्वितीयं बृहत् केन्द्रमस्ति। इदं स्थलं मीनमबाक्कम् किञ्च तिरसूलम् इत्यनयोः पार्श्वे स्थितं वर्तते। यत्र यात्रीणां प्रवेशः तिरूसूलनामके नगरे भवति। किञ्च वस्तुनां प्रवेशः मीनमबाक्कमनामके नगरे कर्तुं शक्यते।

इतिहासः[सम्पादयतु]

माद्रास् (चेन्नई) इत्यस्य विमानस्थलम् भारतस्य प्रथमविमानस्थलेषु अन्यतमम्। किञ्च १९५४ तमे ईशबीयाब्दे बेलगाममाध्यमेन एयर इंडिया इत्यस्य प्रथमं गन्तव्यस्थलम् आसीत्। अनेन कारणेन मीनमबाक्कम एयरपोर्टरूपेण अस्य समर्पणं जातम्। अनन्तरं तिरूसूलनामके नगरे एकं नवीनं टर्मिनलनिर्मितम्। किञ्च तस्य दक्षिणस्यां दिशि पल्लावरम् इत्यस्य पार्श्वे यात्रिणः सञ्चालनं स्थानान्तरितं जातम्। पुरातनटार्मिनल् इत्यस्य व्यवहारः कार्गो टर्मिनलरूपेण क्रियते। किञ्च एतत् भारतीयकूरियर् कंपनी ब्लू डार्क इत्यस्य स्थलं भवति।

संचरना[सम्पादयतु]

चेन्नई अन्ताराष्ट्रियविमानस्थले टर्मिनलत्रयं वर्तते। मीनमबाक्कम् इत्यस्मिन् स्थाने स्थितपुरातनटर्मिनल् इत्यस्य प्रयोगः कार्गो इत्यस्य कृते प्रयुज्यते। तिरूसूलनामके नगरे निर्मितटार्मिनल् इत्यस्य प्रयोगः यात्रिसंचालनार्थम् उपयुज्यते। यात्रीटर्मिनल्परिसरे गृहसंबन्धः किञ्च अंताराष्ट्रियटर्मिनल् वर्तते। यत्र एकसंयोजकभवनेन उभयोः संयोजनं भवति। तत्र एकः प्रशासनिकः कार्यालयः किञ्च एकः भोजनालयः वर्तते। अयं परिसरः एका अखण्डसंरचना भवति। परन्तु अस्य निर्माणं वर्धमानरूपेण जातम्।

टर्मिनल्, एयरलाइन् किञ्च गन्तव्यस्थलम्[सम्पादयतु]

कामराज् गृहसंबन्धः टर्मिनल् (KDT) इत्यनेन गृहसम्बन्धयानस्य संचालनं क्रियते। यत्र च अंताराष्ट्रिय टर्मिनल् (AIT) अंतर्राट्रिययानस्य कृते भवति। मीनमबाक्कम इत्यस्मिन् स्थाने स्थितपुरातनटर्मिनल् इत्यस्य व्यवहारः कार्गो आँपरेशन् इत्यदर्थं क्रियते।

सम्बद्धाः लेखाः[सम्पादयतु]