जगद्धात्रीपूजा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जगद्धात्री
जगद्धात्र्याः पूजा [१], राञ्जी
सम्बन्धः मातृका , पार्वती
शस्त्रम् चक्रम्, धनुः, बाणः
पर्वतः सिंहः
सहचारी शिवः

जगद्धात्री[सम्पादयतु]

जगत् धरति इति जगद्धात्री । एषा देवता हिन्दूदेवतायाः पार्वत्याः अंशः इति परिगण्यते । इयं देवता भारतदेशस्य पश्चिमवङ्गे ओडिशायां च पूज्यते । एतस्याः आराधना पूजाविधयः च तन्त्रशास्त्रस्य अनुगुणं वर्तते यतोहि एषा सत्त्वगुणस्य प्रतीका इति अनुमन्यते । एवमेव दुर्गा रजोगुणस्य काली तमोगुणस्य प्रतीके स्तः ।

कथा[सम्पादयतु]

दुर्गादेव्याः सृष्टेः अनन्तरम् इन्द्रवरुणवायुदेवाः स्वयं महच्छक्तियुक्ताः इति चिन्तितवन्तः । सर्वशक्तिवन्तः वयं यत्किमपि कर्तुं शक्नुयाम इति तेषां मनसि भावः उत्पन्नः । एवं ते सर्वेषां शक्तिप्रदायिनीं शक्तिं विस्मृतवन्तः । अतः आदिशक्तिः पार्वतीदेवी तेषां परीक्षणार्थं मायारूपं धृत्वा तेषां पुरतः एकं कुशं सृष्ट्वा उक्तवती – "हे देवाः ! एषः कुशः स्वीक्रियताम् ।" एतत् वाक्यं श्रुत्वा सर्वे देवाः हसितवन्तः । इन्द्रः कुशम् आनयतु इति वायुम् आदिष्टवान् । महतः परिश्रमस्य अनन्तरमपि सः विफलः जातः । एवं सर्वे अपि विफलाः । तदा पार्वतीदेवी प्रत्यक्षीभूय अवदत् – "अस्य जगतः मूलशक्तिः अहमस्मि । सम्पूर्णजगतः शक्तिः अहमेव ।" इति । सर्वे देवाः स्वस्य दोषान् अवगतवन्तः । तदा देवी तेषां पुरतः उमादेवी भूत्वा सिंहस्य उपरि उपविश्य आगतवती । देवानाम् अहङ्कारः गजरूपं गृहीतम् । अतः गजस्य उपरि सिंहासनस्था जगद्धात्री पूज्यते ।

जगद्धात्रीपूजा[सम्पादयतु]

कृष्णनगरस्य राजप्रासादे जगद्धात्र्याः पूजा
जगद्धात्र्याः पूजातोरणम् २०१२ ललितमहल्, मैसूरुनगरम्

भारतदेशे प्रथमतया जगद्धात्री पूजायाः अनुष्ठानं वङ्गराज्यस्य राज्ञा कृष्णचन्द्रेण कृतम् । सः नादिया जिल्लायाः कृष्णनगरस्य राजा आसीत् । जगद्धात्रीपूजा बहुषु स्थानेषु प्रसिद्धा अस्ति । नादियायाः कृष्णनगरस्य राजराजेश्वरीजगद्धात्रीपूजा वङ्गराज्यस्य एव अतीव पुरातनी पूजा वर्तते । पुरातनकाले यदा नवाबशासनमासीत् तदा करं न दत्तवान् इति कारणात् नवाब-सिराज्-उद्-दुल्लाहस्य आदेशेन कृष्णचन्द्रः कारागारे बद्धः अभवत् । विजयदशमी दिने कारागारात् तस्य विमोचनम् अभवत् । अतः एतस्य आचरणार्थम् एषा पूजा पुनः आरब्धा ।

"https://sa.wikipedia.org/w/index.php?title=जगद्धात्रीपूजा&oldid=456815" इत्यस्माद् प्रतिप्राप्तम्