जडत्वम् (भौतविज्ञानम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


जडत्वम् (Inertia) भौतिकवस्तुनः एका स्थितिः ।

जडत्वनियमः[सम्पादयतु]

यदि चेद् कश्चिद् पदार्थः स्थावरः जङ्गमो वा तर्हि स स्थिर एव तिष्टति एकस्यामेव दिशि वा एकेनैव वेगेन तावत् गतिं करोति यावत् त्दुपरि किञ्चिद् बाह्यबलं न प्रयुज्यते ।

नियमस्यास्ये द्वौ भागौ । प्रथमेन भागेन सूच्यते यद् जडपदार्थः स्वयमेव स्वस्थित्याः परिवर्त्तने असमर्थो भवति । यद् वस्तु यस्मिन् स्थाने स्थितं तत्रैव तिष्टति यावद् बलप्रयोगेण तन्नापसर्यते । यदि चेद् किञ्चित् वस्तु गत्वरं भवति तर्हि तद्वेगेनैव ऋजुरेखायां गमनं करिषियति यावद् किञ्चित् बाह्यं बलं तस्य अवस्थायां परिवर्त्तनं न करोति । नियमश्चायं जडत्वनियम इत्यमिधीयते । एतदुसारेण जडपथार्तेषु स्वयमेव तादृशि काचिद् प्रवृत्तिर्नजायते यया तैः स्वकीयायां चलावस्थायाम् अचलायांवा किञ्चिद् परिवर्त्तनं कर्तुं शक्यते ।

ईदृक्परिवर्तनमं कर्तुं बलस्यावश्यकता भवति । तथ्यस्यास्य याथार्ध्यं प्रयोगेण न साधानीयं यतोऽस्माभिः किञ्चिद् वस्तु तत्र सन्निविष्टाद् बलाद् कदापि पूर्णतया पृथक्कर्तुं न शक्यते ।भुवि स्थितं वस्तु आधातेन किञ्चिद्दूरं गत्वा सन्तिषट्ति यतः तदुपरि घर्षणबलं कायं करोति । यदि चेद् घ्र्षणम् ऊनीक्रियते अर्थात् यदि चेद् कश्चिद् शिशककन्दुकः हिमोपरि चाल्यते तर्हि सोऽधिकं दूरं गत्वा संस्थितिं प्राप्स्यति । इत्थं तगेण भवबोद्धु शक्यते यत् वस्तुनोरुमयोर्मध्ये यदि घ्र्षणस्य सर्वथामावो भवेत् तर्हि गत्वरं वस्तु अवष्यमेव सदैव गतिं कुर्यात् ।

नियमनस्यास्य द्वितीयेन भागेन वयं बलस्य परिभाषां विद्मः । अर्थात् तेन ज्ञायते यत् बलस्य किं कार्यम् ? बलं कस्यचिद् वस्तुनः स्थिराम् अवस्थां परिवर्त्तयति परिवर्त्तयतु वा प्रयत्नम् करोति ? यदि चेद् केनचिद् पुरुषेण कुड्ये आघातः क्रियते तर्हि तेन तत्र बलं प्रयुज्यते तत्र तस्य कोऽपि प्रभावो नहि लक्ष्यते । अतएव सम्भवेच्चेदं यत् बलेन कस्यचिद् वस्तुनः स्थितवरावस्थां परिवर्त्तयितुप्रयले कृतेऽपि तात्र साफल्यावाप्तिर्न नियता । इत्थमेव बलं कस्याचिद् वस्तुनः समानगतिकाम् अवस्थां परिवर्त्तयति परिवर्त्तयितु वा प्रयत्नं करोति । निअयमेऽस्मिन् तथ्यञ्चेदं सन्निहितं यत् कस्यचित् वस्तुनः अवस्थापरिवर्त्तनम् कर्तुं वस्तुनि प्रयुज्यमानं बलं प्रयोज्यम् । जडस्य द्वौविध्यं सम्भाव्यते ।

(१) स्थिति विषयकं जडत्वम् ;

(२) गतिविषयकं जडत्वं च

स्थितविषयकं जडत्वम् (Inertia of Rest )[सम्पादयतु]

अस्यार्थे यत् स्थितं वस्तु स्थानमेव अपेक्षते । यदि चेद् मोटर्यने आसीनः पुरुषः वेगेन गमनं प्रारभते तर्हि पुरुषस्य शिरः पश्चभागे विनर्मात । कारणञ्चास्य यद् तस्य शिरसोऽघोभागः यानेन सहैव गतिमान् भवति किन्तु ऊर्ध्वभागः स्थितिदशां अपेक्षते अतः स पश्च भागे एव तिष्टति । यदि च्गेद् गवाक्षशीशके मुशुण्डिकागुलिकायाः प्रहारः क्रियते तर्हि तस्मिन् तत्कालमेव गोलाकारं छिद्रं संजायते ।किन्तु मन्दाघातेन शीशकं चिटकायते । कारण्ञ्चास्य यद् यतेअ गुलिकाप्रहारः भवति तत्रस्थे शीशके तीव्रा गतिः प्रादुर्भवति किन्तु अविश्टं शीशकं झडत्वात् स्थैर्यमेव भजति । ढुलिका निस्सारणार्थं यदा काष्ठेन कोटनामकं परिधानं ताड्यते तदा काष्ठेन अकस्मात् परिधाने गतिः उत्पाद्यते किन्तु जडत्वात् रजः स्थैर्यं भजति अतः परिधानात् रजकणाः पृथग् भवन्ति । गत्याः जडत्वं –यदा गतिशीलं वाश्ष्पयानम् अवरुद्याते तर्हि यात्रीणाम् शिरांसि अग्रे विनमन्ति । यदि चेद् वेगेन गच्छन्त्याः द्विचक्रिकयाः पुरश्चक्रिकावरोधिनी आकृष्यते तर्हि द्विचक्रिका निष्पततति । शनैश्शनैः गच्छतः वाष्पयानात् अवरोहणकालेऽवरोहणानान्तरं सदैव यानगमनस्य दिशि किञ्चिद्दूरं गन्तव्यं अन्यथा पदनादस्थिभङ्गादीन् भविष्यन्ती सम्भाव्यते यदि चेद् गच्छतः वाष्पयानस्य प्रकोष्टकेकश्चिद् कन्दुक ऊर्ध्व्वं प्रति क्षिप्यते तर्हि कन्दुकः पुनः तत्रैव प्रत्यावर्तते । जडवात् कदुकः यानेन सह सततं क्षौतिजदिशि गमनंकरोति यद्यपि तस्येयं गतिरविदितप्रायैव भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]