जम्बूफलरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जम्बूफलानि
शाखायां लम्बमानानि अपक्वानि, अर्धपक्वानि, पक्वानि च जम्बूफलानि

जम्बूफलस्य रसः एव जम्बूफलरसः । एतत् जम्बूफलम् आङ्ग्लभाषायां Jambul इति उच्यते । अस्य रसः Jambul Juice इति उच्यते । जम्बूफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य जम्बूफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि जम्बूफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं जम्बूफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । जम्बूफलानि बहुविधानि सन्ति । तदनुगुणं फलरसस्य अपि वर्णः रुचिः च परिवर्तते ।

फलरसस्य निर्माणम्[सम्पादयतु]

अस्य जम्बूफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् जम्बूफलं प्रक्षाल्य बीजं निष्कासनीयम् । तदनन्तरं फलखण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=जम्बूफलरसः&oldid=361249" इत्यस्माद् प्रतिप्राप्तम्