जयतू सुरभारती ग्रन्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:जयतु सुरभारती ग्रन्थः.jpg
जयतु सुरभारती ग्रन्थः

जयतु सुरभारती ग्रन्थः[सम्पादयतु]

विदुषां मनोविनोदार्थम् एष 'जयतु सुरभारती' ग्रन्थः साहलादं प्रस्तूयते।सुरभारत्या महत्वं सर्वेषामेव विदितम् । अत्र न केवलम् आध्यात्ममेव प्रस्तूयते ,अपितु ज्ञान- विज्ञानयोः  सर्वेऽपि पक्षाः सविशदं वर्ण्यन्ते,विव्रियन्ते च​।अत्र वेदाः, उपनिषदः, दर्शनानि,स्मृतयः, रामायण-महाभारतादिकं मानवानाम् आचार​-शिक्षां वर्णयन्ति । तत् एव् केचन् विषया अत्र समासतः प्रस्तूयन्ते।


अधिकांशतो निबन्धाः आकाशवाणीतः प्रचारिताः प्रसारिताश्र्च । तत्र केचन निबन्धाः वैदिक साहित्य्-संबंद्धा वर्तेन्ते। तदयथा- वेदेषु भौतिकविज्ञान-सूत्राणि,वेदेषु राज्यशासनपद्धतिः,वेदेषु राष्ट्धर्मो विश्र्वधर्मश्र्चेत्यादयः,केचन निबन्धा महापुरूषाणां जीवन​-चरित​-संबद्धाः सन्॔ति॔। तदयथा- श्री रामचन्द्रावतरणम्, जवाहरलाल नेहरूः,श्री राजेन्द्रप्रसादः,श्री वल्लभभाई पटेलः, श्री मोक्षमुलरः,श्री नानकदेवश्र्चेत्यादयः। केचन निबन्धा नैतिक​-विषयान् अवलम्बन्ते । तदयथा- वसुधैव कुटुम्बकम्, भीष्म​-पितामहस्य् ज्ञानोपदेशः, आत्मैव हात्मनो बन्धुः,इत्यादयः। केचन विविध- विषयका अपि निबन्धाः सन्ति। तद् यथा -प्रदुषण-समस्या ,विदेशेषु संस्कृतस्य प्रसारः,पुरा संस्कृतस्य लोकव्यवहारः प्रभृतयः। आशासे ग्रन्थोऽयं विदुषां समादरं प्राप्यति, तेषां मनोरञ्जनार्थं च भविष्यति।

उल्लेखः[सम्पादयतु]

"https://www.exoticindiaart.com/book/details/collection-of-sanskrit-essays-NZG297/" />
ref:https://www.exoticindiaart.com/book/details/collection-of-sanskrit-essays-NZG297/