सामग्री पर जाएँ

जयन्तीनिर्णयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


जयन्ती निर्णयग्रन्थस्य रचयिता मध्वाचार्यः भवति। अस्मिन् ग्रन्थे श्रीकृष्णजयन्तीव्रतं निरूपितम् अस्ति। कृष्णपक्षस्य अष्टमी रात्रौ रोहिणी नक्षत्रं यदा भवति तस्मिन् दिने जयन्तीं आचरणीयम् इति। सामन्यतः श्रावणमासे भवति। सकलपापनाशकं व्रतं भवति। अस्मिन् दिने निराहारः कर्तव्यः भवति। सन्द्यासमयेषु “योगाय योगपतये योगेश्वराय योगसम्भवाय श्री गोविन्दाय नमो नमः” अनेन मन्त्रेण स्नानं करणीयं भवति। “यज्ञाय यज्ञपतये यज्ञेश्वराय यज्ञसम्भवाय श्रीगोविन्दाय नमो नमः” अनेन मन्त्रेण रात्रौ श्रीकृष्णस्य पूजा कर्तव्या इति। तारतम्यानुसारं बलरामादीनां पूजा विहिता। अस्मिन् मध्यरात्रौ चन्द्रोदयानन्तरं श्रीकृष्णाय अर्घ्यसमर्पणं कर्तव्यम्। समनन्तरं चन्द्राय अपि अर्घ्यप्रधानं कर्तव्यम्। ब्रह्मचर्यपालनं करणीयम्। “विश्वाय विश्वपतये विश्वेश्वराय विश्वशम्भवाय श्रीगोविन्दाय नमो नमः” एनं मन्त्रं पठित्वा स्वापः कर्तव्यः इति। प्रातः उत्थाय आह्निकादिकं समाप्य, दानादिकं दत्त्वा, “सर्वाय सर्वपतये सर्वेश्वराय सर्वसम्भवाय श्रीगोविन्दाय नमो नमः” एनं मन्त्रम् उक्त्वा भोजनं कर्तव्यम्। “धर्माय धर्मपतये धर्मेश्वराय धर्मसम्भवाय श्रीगोविन्दाय नमो नमः” अनेन मन्त्रेण व्रतं समापनीयम् इति। एवम् अस्मिन् ग्रन्थे सरलतया निरूपितम् अस्ति।

कृष्णार्घ्यमन्त्रम्

[सम्पादयतु]

जातः कंसवधार्थाय भूभारोत्तारणाय च।
कौरवाणां विनाशाय दैत्यानां निधनाय च॥
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च।
गृहाणार्घ्यं मया दत्तं देवक्या सहितो हरे॥

चन्द्रार्घ्यमन्त्रम्

[सम्पादयतु]

क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन्॥

चन्द्रोपस्थानमन्त्रम्

[सम्पादयतु]

शशिने चन्द्रदेवाय सोमदेवाय चेन्दवे।
मृगिणी सितबिम्बाय लोकदीपाय दीपिने।
शीतदीधितिबिम्बाय तारकापतये नमः।

"https://sa.wikipedia.org/w/index.php?title=जयन्तीनिर्णयः&oldid=373854" इत्यस्माद् प्रतिप्राप्तम्