जलन्धरः
अयमसुरविशेषः। जालन्धरेत्यपि कथ्यतेऽयम्॥
उत्पत्तिः
[सम्पादयतु]इन्द्रः शिवं द्रष्टुं शिवलोकं गत्वा एकं भयानकं पुरुषं दृष्ट्वा तं पुनःपुनः पप्रच्छ ईश्वरः क्वगतः । स उत्तरं न ददौ इन्द्रः क्रुद्धस्तं वज्रेण जघान । ततो रुद्रस्तेजसा प्रजज्वाल । तत इन्द्रो भीतस्तं प्रणम्य तुष्टाव रुद्रस्तुष्ट इन्द्रदाहार्थोत्पन्नं भालनेत्रस्थवह्निं गृहीत्वा गङ्गासागरसङ्गमे प्राक्षिपत् ततः स बालरूपोभूत्वा रुरोद तस्य रोदनशब्देन सप्तलोका वधिरीकृतास्तच्छ्रुत्वा ब्रह्मा विस्मितस्तत्रागत्य तं बालं समुद्रक्रोडे दृष्ट्वा तं पप्रच्छ कस्यायं पुत्त्रः समुद्रस्तं प्रणम्योवाच मम पुत्त्रः अस्य जातकर्म्मादि कुरु इत्युक्त्रा ब्रह्मा क्रोडे ददौ स बालस्तस्व श्मश्रु दधार श्मश्रु धुन्वतो ब्रह्मणो नेत्राभ्यां जलमगमत् ब्रह्मा समुद्रमुवाच यस्मादनेन मम नेत्राभ्यां निर्गतं जलं धृतं तस्मादयं जलन्धरनामा अधुनैव सर्व्वशास्त्रवेत्ता रुद्रं विना सर्व्वभूतावध्यश्च भविष्यति इत्युक्त्रा शुक्रमाहूय तमासुरराज्ये न्यवेशयत् स कालनेमिसुतां वृन्दामुपयेमे ।[१]
श्रीपाद्मे महापुराणे ६।३।५०॥