जलोदरनाशकमुद्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


करणविधानम्[सम्पादयतु]

कनिष्टिकायाः अग्रभागम् अङ्गुष्टस्य मूलाय नीत्वा अङ्गुष्टं कनिष्टिकायाः पृ‌ष्टभागे स्थापनीम् ।

परिणामः[सम्पादयतु]

अनामिका जलतत्वं निर्दिशति । शरीरे जलप्रमाणं यदा अधिकं भवति तदा वेदना, विध्रधिः च सम्भवति । अग्नितत्वस्य अङ्गुष्टः जलतत्वं न्यूनीकरोति । अङ्गुष्टस्य मूले अनामिकां यदा स्पर्षयामः तदा जलतत्वं न्यूनीभूत्वा वेदना, विध्रधिः च सर्वं समीचीनं भवति ।

उपयोगः[सम्पादयतु]

अधिकमूत्रता एतया मुद्रया शमिता भवति । प्रवाससमये, वा बहिः गमनसमये मूत्रस्य अवरोधं कर्तुं इयं मुद्रा बहु उपकारिणी अस्ति । शरीरे कुत्रापि विध्रधिः आगतः चेत् इमां मुद्रां ५० निमेषपर्यन्तं कृत्वा तत्पश्चात् एव प्राणमुद्रा क्रियते चेत् विध्रधिः शीघ्रतया शमिता भवति । सन्धिविध्रधिः अपि शमिता भवति । लालारसस्य अधिक उत्पत्तिं स्थगयति । इयं मुद्रा जलोदररोगस्य, हस्तिपादरोगस्य च शमनं करोति । ’डायारिया’ अतिमलविसर्जनं शीघ्रतया दूरीकरोति । ग्रन्थीनां अतिस्रावं सम्यक् करोति । स्त्रीणां मासिकस्रावम् अपि व्यवस्तितं करोति । नेत्रात् जलागमनं, नासिकायाः स्रावं शीतं, कण्ठवेदनां च समीचीनं कर्तुं जलोदरनाशकमुद्रायाः साकं सूर्यमुद्रा अपि करणीया ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जलोदरनाशकमुद्रा&oldid=409269" इत्यस्माद् पुनः प्राप्तिः