जानुवातः सन्धिवातश्च

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


“ मम जानुद्वये सन्धिषु च पीडा भवति, अहं सन्धौ ज्वलनपीडामनु भवामि, कश्चिद्वदति मम जानुनि शोथः जायते, मम जानु रक्तवर्णं दृश्यते” इत्येवं प्रकारेण बहुधा अस्य रोगस्य विषये श्रूयते । वातजनितशरीरचालनं कष्टकरं भवति । वातरोगाः विभिन्नप्रकारकाः सन्ति । तेषु जानुवातः, सन्धिवातः, कटिवातः, हस्तग्रन्थिवातश्च प्रधानाः । बहुव्यापकत्वात् अस्य रोगस्य मूलकारणं वर्णयितुं न शक्यते । तथापि एवम् ऊहितुं शाक्यते यत् –समीचिनखाद्याभावः, स्वस्थस्य यत्नाभावः, नियमितयोगासनस्याभावः, शरीरदौर्बल्यं, कोष्ठकाठिन्यं, विश्रान्त्यभावः इत्यादीनि कारणानि । रोगः बहुप्राचीनः भवति चेत् , औषधेन अस्य उपशमः न भवितुमर्हति । हृत्पिण्डः अपि दुर्बलः भवति ।

इदानीं समग्रविश्वे यः कोऽपि अनेन रोगेण आक्रान्तः भवति, तत्क्षणादेव औषधेन सह योगासनं कर्तुं वैद्येन सूच्यते । नियमितरुपेण निर्दिष्टानि कानिचन आसनानि यदि रोगी अभ्यसेत्, तर्हिनूनं शनैः शनैः औषधं विना अपि रोगस्य उपशमः भवति । अवश्यं, नियमितरुपेण आसनाभ्यासेन सह समुचितखाद्यविश्रान्त्यादीनामपि आवश्यकता अस्ति । रोगी एतान् सर्वान् प्रति जाग्रतः भवति चेत् औषधस्य आवश्यकता न भवति ।

सन्धिवातरोगिभ्यः खाद्यसूची[सम्पादयतु]

प्रकृतरोगिभिः उपयोग्यनुपयोगिखाद्यानां च विषये अवश्यं ज्ञातव्यम् ।

अनुपयोगि खाद्यानि – ब्रीहिः, कन्दमूलं. स्तम्भालुकं, पूतिका, पक्वरम्भाफलम् । अम्लं यथा –दधि, तिन्त्रिणी ।
उपयोगिखाद्यानि –अङ्कुरितबीजं हरीतशाकनिर्मितं व्यञ्जनं ,गोधूमरोटिका, अल्पोष्णम् अन्नं दुग्धंच ।
फलेषु –नारङ्गफलं, स्वादुफलं, पूर्णशाकं, धान्यकपत्रं, कर्कटीरक्तवृन्ताकयोः मिश्रणेन निर्मितं ‘सालाड्’, जम्बीरफलं, तरम्बुजफलम्, अनत्रासं, विल्वं, पारावतम् इत्यादीनि फलानि ।
रोगी प्रत्यहं विंशतिचषकपरिमितं जलम् अवश्यं पिबेत् । प्रातः उत्थाय मुखप्रक्षालनं विना एव चषकद्वयपरिमितं जलम् अवश्यं पिबेत् । किमर्थं मुखप्रक्षालनं विना जलं पातव्यम् इति चेत् उत्तरम् –रात्रौ शयनसमये मुखगह्वरे याः लालाः क्षरिताः भवन्ति । तासां लालानां बहुसुगुणाः वर्तन्ते । यथा लालानां पचनशक्तिः, मलनिष्कासनशक्तिः , दुषितवायुनिष्कासनशक्तिः इत्यादयः ।

सन्धिवातस्य प्रधानकारणं तु कोष्ठकाठिन्यम् । अतः रोगी स्वेदरपरिष्कारार्थं यत्नं कुर्यात् । तदर्थमपि सः पर्याप्तं जलं पिबेत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जानुवातः_सन्धिवातश्च&oldid=481561" इत्यस्माद् प्रतिप्राप्तम्