जार्ज् कार्लिन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जार्ज् कार्लिन्
२००८ तमे वर्षे जार्ज् कार्लिन्
जन्मनाम जार्ज् डेनिस् पेट्रिक् कार्लिन्
जननम् (१९३७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-१२)१२, १९३७
न्यूयार्क्-नगरम्
मरणम् २२, २००८(२००८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-२२) (आयुः ७१)
सन्त मोनिका, केलिफोर्निया, अमेरिका
माध्यमाः दूरदर्शनम्, चलच्चित्रम्, आकाशवाणी, पुस्तकानि
सक्रियकालः 1956–2008
प्रकारः व्यक्तिहास्यम्, कृष्णहास्यम्, नीलहास्यम्, व्यङ्ग्यम्
विषयाः अमेरिकीयसंस्कृतिः, अमेरिकीयाङ्ग्लभाषा, नित्यजीवनम्, मरणम्, तत्वशास्त्रम्, क्रीडा, मानवव्यवहारः, मनश्शास्त्रम्, देशभक्तिः, वार्धक्यम्, राष्ट्रियता, कुटुम्बः
विशिष्टकृतिः/पात्राणि Class Clown
"Seven Words You Can Never Say on Television"
Rufus in Bill & Ted's Excellent Adventure and Bill & Ted's Bogus Journey
Narrator for Thomas the Tank Engine and Friends
Mr. Conductor on Shining Time Station
The George Carlin Show
Fillmore in Cars, Cars Toons: Mater's Tall Tales and Mater and the Ghostlight
हस्ताक्षरम्
जालपुटम् www.georgecarlin.com


श्रीमन् जार्ज् डेनिस् प्यट्रिक् कार्लिन् महोदयः क्रि. श. १९३७ तमे वर्षे मे मासस्य १२ दिनङ्के अजायत। एषः अमेरिकादेशस्य प्रसिद्धः हास्यकलावित् लेखकः नटः च। असौ कर्लिन् महोदयः पञ्च ग्रमि प्रशस्तिं स्वस्य हास्यसङ्ग्रहाय प्राप्तवान्। असौ हास्यनटनाय, राजकीयकार्याय, आङ्ग्लभाषायाः मनोविज्ञानाय धर्माय च अतिप्रसिधद्धः वर्तते।

महोदयेन एतेन एच्.बी.ओ. दूरदर्शनवाहिन्याः कृते १४ पृष्ठानां हस्यधारावाहिनी कृता । गत १९८० तमे वर्षे कार्लिन् आक्ट् अमेरिक समाजं, तत्रत्यां संस्कृतिं च अधिकृत्य महतीं टीकां अकरोत्। किञ्च क्रि.श. २००८ तमे वर्षे विश्वस्य प्रसिद्धेषु शतं हस्यकलावित्सु द्वितीयं स्थानं प्राप्नोत्। प्रथमस्थानं रिचर्ड् प्रियर्, तृतीयं स्थनं च लेन्नी ब्रूसर् महोदयाभ्यां स्वीकृतम्।

एषः जानि कार्सिन् महोदयस्य काले दि टुन्नैट् शो प्रदर्शने भागं गृहीतवान्। एतस्य प्रथमा धारावाहिनी "स्याटर्दे नैट् लैव्"। एतस्य मरणात् चतुर्मासात् पूर्वम् अन्तिम एच्.बी.ओ. नटनं चलनचित्ररूपेण आगतम्। अमेरिकादेशस्य अद्भुतहास्यनटेन २००८ तमे वर्षे "मार्क् ट्वैन्" प्रशस्तिः प्राप्ता।

जीवनकथा[सम्पादयतु]

जार्ज् कार्लिन् महोदयः मनहट्टन् इति प्रदेशे अजयत। प्याट्रिक् कर्लिन् महोदयः एतस्य पिता। एतस्य द्वितीयः पुत्रः जार्ज् कर्लिन्। पिता राष्ट्रियविज्ञापिकासंस्थायां व्यवस्थापकः आसीत्। न्यू यार्क् इति स्थले वसति स्म। प्यट्रिक् महोदयस्य पत्नी मेरी चिरि। एषा कार्यदर्शी भूत्वा कार्यं निर्वहति स्म। मूलतः एते ऐरिश् वंशजाः रोमन् केथोलिक् मतम् अनुसरन्ति स्म।

दुरदृष्टवशात् यदा कार्लिन् महोदयः द्वैमासिक शिशुः आसीत् तदैव माता पितरौ विच्छेदनं प्राप्तवन्तौ। अस्य मातमहः डेनिस् चेरि ऐरिश् देशजः आसीत्। परं न्यू यार्क् प्रदेशे आरक्षकः आसीत्। एतस्य मातमह्याः नम ओ ग्राडी इति। अमेरिकादेशं प्रति आगमनात् पूर्वं नाम परिवर्तनम् अकुर्वन्। कार्लिन् महोदयः आङ्ग्लभाषाप्रौढिमां मातुः सकाशात् ज्ञातवान्। मात्रा सह अस्य सम्बन्धः समीचीनः नासीत् अतः अनेकवारं गृहं त्यक्‍त्वा अन्यत्र गच्छति स्म।

कर्लिन् महोदयस्य आन्तरिकम् जीवनम्[सम्पादयतु]

जार्ज् कर्लिन् महोदय: क्रि श १९५० तमे वर्षे आगस्ट्मासे ओहियो इत्यत्र ब्रिण्डा होस्ब्रिक् इति कन्यकाम् दृष्टवान् । ततः १९६२ तमे वर्षे जून् मासृ तया सह विवाह: अभवत् । तयो दम्पत्यो: एकैक: पुत्र: कैल्ली । अयं पुत्र: १९६३ तमे वर्षे जुन् मसस्य २५ दिनान्के अजायत । तस्य पत्नी ब्रिण्डा महोदया १९९६ तमे वर्षस्य मे मसस्य ११ दिनाङ्के अर्बुदरोगेण मृता अभवत । क्रि श १९९६ तमे नवम्बर् मासे कार्लिन् सिल्लि वाडे इति कन्यया सह परिचय: प्राप्तः । सा अपि हास्यलेखिका आसीत् । क्रि श १९९७ तमे वर्षे तयो: विवाहः अभवत् । कार्लिन् महोदय: रोमन्क्यथोलिक् मतीय: आसीत् । तस्मिन् धर्मे देवे च आसक्तिः नासीत् । स: तयो: टीकाम् करोति स्म । धर्मानुयायिनम् अपि निन्दति स्म । अस्य जीवनस्य अन्तिमकाले ’फिक्षनल किड स्टफ्’ इति बैबल ग्रन्थम् वर्णयति स्म । तस्य द्वितीये पुस्तके कार्लिन् महोदय: अवर्णयत् यत् स: सूर्यदेवम् प्रार्थयति । सः क्रि श २००४ तमे वर्षे कस्मिंश्चित् संवादकार्यक्रमे उक्तवान् यत् पुष्पाणि तस्य वैयक्तिकजीवनं प्रति साहाय्यम् अकुर्वन् इति ।

वृत्तिजीवनम्[सम्पादयतु]

क्रि श १९५९ तमे वर्षे जार्ज् कार्लिन् तथा जाक् बर्न्स् च मिलित्वा समूहमेकम् आरभत । एतौ एकस्याम् आकाशवाण्यां के.एक्स्.ओ.एल् फोर्त्वर्ण तेक्सस् इत्यत्र कार्यं निरवहन् । तत: १९६२ तमे वर्षे प्रत्येक कलावित् भूत्वा प्रसिद्धिम् प्राप्तवान् । एष महोदय: अमेरिका देशस्य संस्कृतिः, क्रैस्तीयाः, राजकीयविषयः, आहार:, वार्ता, देशभक्तिः, तन्त्रज्ञानम् इत्यादिश्हु सर्वेषु विषयेषु विमर्शाम्, कृतवान् । एतस्य अन्तिममतचालनम् १९९२ तमे वर्षे अभवत् । एवम् विश्वप्रसिद्धस्य कार्लिन् महोदयस्य नटनं तस्य योगदानं च अमेरिका जनाः अद्य अपि स्मरन्ति ।

नटनाप्रभावः[सम्पादयतु]

कार्लिन् महोदयस्य नटना प्रभावः अन्येषां कृते एवम् अस्ति । देनी केय्, जोनातन् विन्टर्स्, लेन्नी ब्रूस्, रिचर्ड् प्रयार्, जेर्री लूइस्, मोर्ट् सह्ल्, स्पैक् जोन्स्, अर्नी कोवाक्स् च। क्रिस् रोक्, जेर्री सैन्फ़ील्ड्, लूइस् ब्लाक्, जोन् स्टूवर्ट्, स्तीफन् कोल्बेर्ट्, बिल् मेहर्, पाट्रीस् ओ नील्, आडम् करोला, कोलिन् क्विन्, स्टीवन् रैट्, मिच् हेड्बर्ग्, रसेल् पीतर्स्, जे लेनो, बेन् स्टिलेर्, केविन् स्मित्, क्रिस् रश् च एते महोदयाः कार्लिन् महोदयेन प्रभाविताः असन्।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=जार्ज्_कार्लिन्&oldid=292787" इत्यस्माद् प्रतिप्राप्तम्