जिम्नास्टिक्स्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जिम्नास्टिक्स् (Gymnastics) एका प्रसिद्धा दैहिकक्रीडा वर्तते ।

जिम्नास्टिक्स्क्रीडा शैली
जिम्नास्टिक्स्क्रीडा शैली

जिम्नास्टिक्स्-क्रीडा विभिन्नव्यायामशैली समूहः वर्तते । अस्मिन् व्यायामे निरुपकरणाः सोपकरणाः वा क्रियाः भवन्ति । प्राचीनकालात् एव नटाः कार्मणिकाः (बाजीगर) च ईदृशं व्यायामं प्रदर्शयन्ति । इमे व्यायामाः १-समूहशः २-व्यक्तिशः च क्रियन्ते किञ्च भूतले तथा साधन-विशेषसाहचर्येण भूतलात् ऊर्ध्वभागेऽपि सम्पाद्यन्ते । पुरुषाः महिलाः च उभावपि व्यायामम् इमं कुर्वन्ति । आङ्गिकं सन्तुलनं समतोलनं वलनं दोलनं च अस्मिन् विशिष्य साधनीयं भवति ।

जिमनास्टिक्-व्यायामस्य अनेके प्रकाराः सन्ति । यथा-

  • फिक्स्ड् बार
  • समान्तर दो बार
  • पोमेल्ड हार्स
  • दो रिंग
  • लांग हार्स वाल्टस

एते मुक्ताः उत्थितव्यायामाः पुरुषेभ्यः सन्ति । तथा एव महिलाभ्यः - समान्तर दो बार, भिन्न-भिन्न उन्नत बार, बेलेन्सिंग आन् बीम, लांग हार्स-प्रभृतयः । प्रतियोगितासु एतेषां स्वीकृत्या विश्वक्रीडोत्सवेषु भूयान् प्रचारो दृश्यते । क्रियावैशिष्ट्येन अधिकाङ्कलब्ध्या विजेतारो भवन्ति ।

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जिम्नास्टिक्स्&oldid=421865" इत्यस्माद् प्रतिप्राप्तम्