ज्योतिप्रसाद आगरवाला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ज्योतिप्रसाद आगरवाला इत्याख्यः असम-राज्यस्य प्रथमः चलच्चित्रनिर्माता आसीत्। अस्य जन्म ई. स. १९०३ तमस्य वर्षस्य जून-मासस्य सप्तदश (१७) दिनाङ्के अभवत्।[१] अयं नाट्यकारः, कथाकारः, गीतकारः, पत्रसम्पादकः, सङ्गीतकारः, गायकश्च आसीत् । तेन चतुर्दशवर्षदेशीयेन एव “शोणित कुंवरी” इति नाट्यस्य रचना कृता आसीत् । ई. स. १९३५ तमे वर्षे “ज्योमति कुंवारी” इति नाट्याधारितं प्रथमम् असमप्रान्तीयं चलच्चित्रं निर्मापितम् आसीत् । सः अस्य चलच्चित्रस्य निर्माता, निर्देशकः, पटकथाकारः, मञ्चनिर्माता, सङ्गीतकारः, नृत्यनिर्देशकश्च आसीत् ।

सन्दर्भः[सम्पादयतु]

  1. "জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনী". Notun Pohor. Archived from the original on 2023-04-24. आह्रियत 2023-04-24. 
"https://sa.wikipedia.org/w/index.php?title=ज्योतिप्रसाद_आगरवाला&oldid=482033" इत्यस्माद् प्रतिप्राप्तम्