टाइटेनियम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(टिटानियम् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search


भौतिक गुणाः मूल्य विवरणम्
आङ्ग्ळ सङ्केतः Ti
स्थिति सान्द्रम्
परमाणु सङ्ख्या २२
भारः ४८
अवतारः रजतशैली, प्राकृतवर्णः ( सिल्वर् ग्रे )
सान्द्रघनता 4.51 धानयाः / घन शतिमान
द्रावाङ्क तापांशः १६६८ oC, १९४१ oK
बुद्बुदाङ्क तापांशः ३२८७ oC, ३५६० oK

संक्षिप्तचरित्रम्[सम्पादयतु]

टैटानियं लोहस्य आविष्करणं द्वौ परिशोधकौ विभिन्नसमये कृतवन्तौ । ' ग्रेगोर् '( W. Gregor ) नामकः १७९१ तमे संवत्सरे प्रथमतया प्रकटितवान् आसीत् । अनन्तरं 'क्लप्रोथ् '( Klaproth ) नामकः यवन देशस्य देवपन्थस्य टैटनजात्याः नाम उपयोज्य " टैटानियम् " इति नाम स्थापितवान् । धातुसारणी ( धातु-अनुक्रमणिका - periodic table ) मध्ये सङ्क्रमणजाति-धातुसमुदाये चतुर्थे वर्गे प्रथमलोहः अस्ति । एतस्य परमाणुसंख्या २२ एवं माध्यभारः ४८ अस्ति । एतस्य वर्गे एव भ्रातृलोहौ गोमेदातु ( zirconium ) एवं गावातु ( Hafnium ) स्तः ।

उपलब्धिः[सम्पादयतु]

भूगर्भे, नद्यौ, शिलायां, समुद्रतीरे अपि बहवः विविधखनिजरूपेण लभ्यन्ते । सर्वेषु खनिजेषु "रुटैल्" एवं "इल्मेनैट्" इति नाम्नौ प्रसिद्धौ, व्यापारस्थायि उत्पादनार्थम् अधिकतया उपयुज्यमानौ अपि च । अद्य, टैटानियं लोहस्य उत्पादनं भारत, चीन, जपान् , अमेरिका, रष्या, उक्रैन् देशा ः एव कुर्वन्ति । प्रपञ्चस्य आहत्यखनिजधनेषु भारतस्य निधिः ४०% भवति । भारत देशे खनिजाः गोवाराज्यतः ओरिस्सा / वङ्गळराज्यपर्यन्तं समुद्रतीरे लभ्यन्ते । सर्वेषु स्थलेषु खनिजनिधिः अधिकं केरळ, तमिळनाडु राज्ययोः वर्तते ।

उपयोगाः[सम्पादयतु]

अस्य लोहस्य द्वौ गुणौ प्रसिद्धौ - भारः अपेक्षया अधिकबलम् एवं संक्षारणविरोधकप्रतिक्रिया(corrosion resistance)शक्तिः । एतौ कारणेन वायुयान, क्षिपि, नौकायान, रसायनयन्त्र, उपग्रह निर्माणार्थं बहवा एतस्य उपयोगं कुर्वन्ति ।

टैटानियं लोहस्य बहु मुख्य एवम् अधिकोपयोगः तस्य मिश्रधातुरूपेण अस्ति । स्फट्यातु ( अल्युमिनियम् ), रोचातु (वनेडियम् ) एताभ्यां सह मिश्रधातु ( Ti-6Al-4V ) बहु प्रसिद्धम् । उपग्रह, क्षिपि, रसायनयन्त्र, नौकायान, वायुयानानाम् उत्पादने बहु अधिकम् उपयुज्यते ॥

टैटानियं द्विजारेयं ( titanium dioxide) (प्राणवायुना कृतं भस्म इति वक्तुं शक्यते) इति रसायनं बहु प्रसिद्धम् । श्वेताञ्जनं ( white paint ) इत्यादि रङ्गलेपनानाम् एवम् औषधानाम् उत्पादने उपयुज्यते । श्वेतीकरणप्रक्रियायां ( whitening / bleaching ) एतं जारेयम् उपयुज्य श्वेतकागितं उत्पाद्यते । सूर्यकान्तिसंग्रहण- विद्युत् शक्ति-उत्पादन ( solar power generation ) यन्त्रेषु, टैटानियं द्विजारेयम् उपयुज्यते ॥

पाली-ऎथिलीन् , पाली-प्रोपिलीन् इत्यादि प्लास्टिक् एवं कृत्रिम पदार्थानाम् उत्पादने रसायनप्रतिक्रियायां (chemical reaction) उत्पादनस्य वेगं वर्धयितुं "रासायनिकमध्यवर्ती " (आवेजक - catalyst)रूपेण अपि टैटानियं त्रिनीरेयम् एवं चतुर्नीरेयं (Titanium trichloride & tetrachloride) बहवा उपयोज्यते । टैटानियं चतुर्नीरेयं रसायनिक युद्धे अपि उपयोगकरं भवति ॥

अयसा ( iron ) सह मिश्रणं कृत्वा अयोटैटानियं मिश्रधातुः ( ferrotitanium ) उत्पादयते । एतस्य मिश्रधातोः उपयोगः निर्मलायस ( stainless steel ), चित्रायस ( alloy steel ), वज्रायस ( stainless / forging steel ) इत्यादि मिश्रित आयसान् ( titanium steels ) उत्पादने अस्ति ॥

टैटानियं लोहस्य उत्पादनप्रक्रिया एवं विधानम्[सम्पादयतु]

प्रप्रथमं लोहखनिजस्य चूर्णीकरणं ( pulverisation ) भवति । धरणीतः लभ्यते इति कारणेन टैटानियं जारेयम् अधिकं सिकतया एवम् अयोजारेयेन् मिश्रितं भविति । सिकता ( sand ) एवम् अयसरहितं कर्तुं कौकिलीयेन ( coke - carbon ) सह मिश्रणं कृत्वा भर्जनं ( roasting, frying ) कुर्वन्ति । नीरेय ( chloride ) उपयुज्य, नीरजना ( chlorination ) इति प्रक्रियया रसायनरीत्या टैटानियं द्विजारेयं , टैटानियं चतुर्नीरेयं ( titanium tetrachloride )रूपेण परिवर्तयन्ति । टैटानियं चतुर्नीरेयं द्रव्यरूपेण भवति । एतेन सह अयोत्रिनीरेयं ( फेर्रिक् क्लोरैड् - ferric chloride ), सिकतनीरेयं ( चतुर्नीरेयं - सिलिकान् टेट्राक्लोरैड् - silicon tetrachloride ) एवं स्फट्यत्रिनीरेयं ( aluminium trichloride ) अपि आगच्छति । एतानि शुद्ध टैटानियस्य उत्पादनार्थम् अवाञ्चित कल्मष पदार्थानि एव ॥

एषायाः रसायन प्रतिक्रियायाः समीकरणं ( equation ) एवमस्ति -

2FeTiO3 + 3C + 7Cl2 = 2FeCl3 + 2TiCl4 + 3CO2

अथ केवलं शुद्धटैटानियं चतुर्नीरेयम् अवश्यकम् । अतः एतस्य मिश्रणस्य पृथक् सम्बद्धराहित्यं करणीयं भवति । एतत् केवलं विभागीकरणक्वथनेन (प्रभागशः आसवन - fractional distillation) एव साध्यम् । एतत् क्वथनान्तरं, शुद्ध चतुर्नीरेयं स्वीकृत्य विविधप्रक्रियायाः उपन टैटानियं लोहः उत्पाद्यते । सप्तविधप्रक्रियाम् अन्विष्य परिशोधितवन्तः । अद्य सर्वेषु उत्पादनकेन्द्रेषु , " क्राल् प्रक्रिया " उपयुज्य एव लोहस्य उत्पादनं प्रचलति । इतरेषु , " हन्टर् प्रक्रिया " , " फ़ान् आर्केल् -डी-बोयर् प्रक्रिया " " उदजनेन् निर्जारयन प्रक्रिया " , " चूर्णातुना निर्जारयन प्रक्रिया ", " विद्युत् शक्त्या विभिन्नीकरण प्रक्रिया " इति सन्ति । नूतनतया " ऎफ़्-ऎफ़्-सी केम्ब्रिड्ज् प्रक्रिया " अपि आगता ।

क्राल् प्रक्रियायाः रसायनिक समीकरणं एवमस्ति -

TiCl4 + 2Mg = Ti + 2MgCl2 + उष्ण शक्ति

"https://sa.wikipedia.org/w/index.php?title=टाइटेनियम्&oldid=369576" इत्यस्माद् पुनः प्राप्तिः