टी पी कैलासम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
T.P. Kailasam
जननम् (१८८४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ७-२९)२९ १८८४
Bangalore, India
मरणम् 1946
Bangalore, Karnataka, India
वृत्तिः Playwright, Geologist
राष्ट्रीयता India
प्रकारः Fiction, humour


आधुनिककन्नडनाटककारेषु सुप्रसिद्धः टि.पि.कैलासम् (T.P.Kailasam)।

बाल्यं जीवनं च[सम्पादयतु]

अस्य जीवनस्य कालावधिः १८८४तः -१९४६वर्षपर्यन्तम् आसीत् । मद्रासनगरे बि.ए.पदवीम्, एम्.ए.पदवीं च प्राप्य लण्डन्-नगरस्य रायल्-विज्ञान-महाविद्यालये अपि अध्ययनम् अकरोत् कैलासम् । रायल्-जियालाजिकल्-सोसैटि कृते प्रबन्धं लिखित्वा फेलोषिप् प्राप्तवान् प्रथमः भारतीयः कैलासम् । १९४५तमे वर्षे मदरास्-कन्नड-साहित्यसम्मेलनस्य अध्यक्षः अपि आसीत् कैलासम् । सः कदापि स्वयं न अलिखत् एव । तेन उच्यमानं सर्वं मित्राणि लिखित्वा अस्थापयन् इति श्रूयते । तस्य मरणानन्तरं तदीयानि कीचकादीनि नाटकानि प्रकटितानि । सः १७ कन्नडनाटकानि अलिखत् । “तावरेकेरे” (कमलकासारः) नामकः अस्य कथासङ्ग्रहः । “दि पर्पस्”, “दि बर्डन्”, “दि फुल्फिल्मेण्ट्” इत्यादीनि इङ्ग्लिषनाटकानि अपि अनूदितवान् ।

नटः कैलासम्[सम्पादयतु]

अयं कैलासं नटः अपि । इङ्ग्लेण्डदेशे अपि बहुषु नाटकेषु अभिनयं कृतवान् आसीत् । नाटकवीक्षणे येषां श्रद्धा अस्ति ते “नाटकानि जनानां जीवनसम्बद्धानि स्युः, जनानां कष्ट-सुखादयः समस्याः तत्र प्रतिबिम्बिताः भवेयुः, विचारप्रचोदनं कुर्युः” इति अपेक्षन्ते इति निर्णीतवान् आसीत् कैलासम् । अतः तादृशानि नाटकानि एव अरचयत् सः । पौराणिक-ऐतिहासिक-नाटकानां सामग्रीं सिद्धे कस्मिंश्चित् .... पुरयित्वा तदनुगुणम् एव नाटकं कुर्वतां वृत्तिगणानां स्वस्य शूर्वणखा-कुलवैभव-नम्कम्प्नि-नाटकेषु उपहासम् अकरोत् । नाटकमन्दिरस्य विचारमन्दिररूपेण परिवर्तने साधनत्वेन हास्यमेव उपयुक्तवान् सः । हास्यसाहित्यस्य अभावं दूरीकृतवान् च । मुख्यरूपेण नगरे वसतां मध्यमवर्गीयाणां जनानां जीवनं, तेषाम् आकांक्षाः, शुष्काभिमानः, श्वश्रूस्नुषयोः कलहः, पुरुषाणाम् अहङ्कारः इत्येतादृशं सर्वम् अपि विमर्शादृष्ट्या अपश्यत् कैलासम् । विधवाः, सेवकाः, पाचकाः, बालाः सर्वे अपि तस्य रङ्गभूमौ सञ्चारम् अकुर्वन् । कैलासं समस्याः सरलीकृतवान् । इङ्ग्लीषनाटकेषु सः विशिष्टवस्तुनिर्वहणपात्रम् असृजत् । नाटकानि जनसामान्यनां जीवनसमीपम् आनयत् अयम् । नाटकमन्दिरेषु विचारप्रचोदनस्य कल्पना अपि अस्य एव । हास्यस्य अभावकाले हास्यं सृष्टवान् कैलासम् एतदर्थं सदा स्मरणीयः अस्ति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=टी_पी_कैलासम्&oldid=484267" इत्यस्माद् प्रतिप्राप्तम्