सामग्री पर जाएँ

टोङ्कमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(टोंकमण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)
टोङ्कमण्डलम्
मण्डलम्
राजस्थानराज्ये टोङ्कमण्डलम्
राजस्थानराज्ये टोङ्कमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
  Total ७,१९४ km
Population
 (२००१)
  Total १४,२१,७११
Website http://tonk.nic.in/

टोङ्कमण्डलं (हिन्दी: टोंक जिला, आङ्ग्ल: Tonk district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति टोङ्क इत्येतन्नगरम् ।

भौगोलिकम्

[सम्पादयतु]

टोङ्कमण्डलस्य विस्तारः ७,१९४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे सवाई माधोपुरमण्डलं, पश्चिमे अजमेरमण्डलम्, उत्तरे जयपुरमण्डलं, दक्षिणे बून्दीमण्डलम् अस्ति । अस्मिन् मण्डले ६१ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं टोङ्कमण्डलस्य जनसङ्ख्या १४,२१,७११ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.३३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४९ अस्ति । अत्र साक्षरता ६२.४६ % अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • दियोली
  • मलपुरा
  • निवाई
  • तोडरायसिङ्घपुर/तोडरायसिंहपुर
  • टोङ्क
  • उनियारा
  • पीपलू

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • टोङ्क जमा मस्जिद्
  • सुनहरी कोठी
  • देवनारयणमन्दिरम्
  • कल्याणजी-मन्दिरम्
  • जलदेवीमन्दिरम्
  • बदरीनाथमन्दिरम्
  • कल्पवृक्ष
  • जैनमन्दिरानि
  • घण्टा घर
  • राजमहल
  • शिवाजी उद्यानवनम्

इत्यादीनि ।

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=टोङ्कमण्डलम्&oldid=482233" इत्यस्माद् प्रतिप्राप्तम्