तत्पुरुषसमासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


तत्पुरुषसमासः[सम्पादयतु]

प्रायेण उत्तरपदार्थप्रधानः तत्पुरुषसमासः।
अतिमालः, अर्धपिप्पली, पूर्वकायः, निष्कौशाम्बिः इत्यादिषु उत्तरपदार्थस्य प्राधान्याभावेऽपि तत्पुरुषः समासः भवति। अतः लक्षणे प्रायेण इत्युक्तम्।

भेदाः[सम्पादयतु]

तत्पुरुषसमासः चतुर्धा -

  1. सामान्यतत्पुरुषः
  2. कर्मधारयः
  3. द्विगुः
  4. नञ् प्रभृतयश्चेति।

सामान्यतत्पुरुषः सप्तधा[सम्पादयतु]

  1. प्रथमातत्पुरुषः यथा - ‘अर्धग्रामः’ अर्धं ग्रामस्य इति अर्धग्रामः।
  2. द्वितीयातत्पुरुषः यथा - ‘गृहगतः’ गृहं गतः इति गृहगतः।
  3. तृतीयातत्पुरुषः यथा - ‘नखभिन्नः’ नखैः भिन्नः इति नखभिन्नः।
  4. चतुर्थीतत्पुरुषः यथा - ‘गोहितम्’ गवे हितम् इति गोहितम्।
  5. पञ्चमीतत्पुरुषः यथा - ‘चोरभयम्’ चोरात् भयम् इति चोरभयम्।
  6. षष्ठीतत्पुरुषः यथा - ‘वृक्षमूलम्’ वृक्षस्य मूलम् इति वृक्षमूलम्।
  7. सप्तमीतत्पुरुषः यथा - ‘कार्यकुशलः’ कार्ये कुशलः इति कार्यकुशलः।

कर्मधारयसमासः नवधा[सम्पादयतु]

  1. विशेषणपूर्वपदकर्मधारयः - यथा - ‘नीलमेघः’ नीलो मेघः इति नीलमेघः।
  2. विशेषणोत्तरपदकर्मधारयः - यथा - ‘वैयाकरणखसूचिः’ वैयाकरणः खसूचिः इति वैयाकरणखसूचिः।
  3. विशेषणोभयपदकर्मधारयः - यथा - ‘शीतोष्णम्’ शीतम् उष्णम् इति शीतोष्णम्।
  4. उपमानपूर्वपदकर्मधारयः - यथा - ‘मेघश्यामः’ मेघः इव श्यामः इति मेघश्यामः।
  5. उपमानोत्तरपदकर्मधारयः - यथा - ‘नरव्याघ्रः’ नरः व्याघ्रः इव इति नरव्याघ्रः।
  6. अवधारणापूर्वपदकर्मधारयः - यथा - ‘विद्याधनम्’ विद्या एव धनम् इति विद्याधनम्।
  7. सम्भावनापूर्वपदकर्मधारयः - यथा - ‘आम्रवृक्षः’ आम्रः इति वृक्षः इति आम्रवृक्षः।
  8. मध्यमपदलोपीकर्मधारयः - यथा - ‘शाकपार्थिवः’ शाकप्रियः पार्थिवः इति शाकपार्थिवः।
  9. मयूरव्यंसकादिकर्मधारयः - यथा - ‘देशान्तरम्’ अन्यो देशः इति देशान्तरम्।

द्विगुसमासः त्रिधा[सम्पादयतु]

  1. समाहारद्विगुः - यथा - ‘त्रिलोकी’ त्रयाणां लोकानां समाहारः इति त्रिलोकी।
  2. तद्धितार्थद्विगुः - यथा - ‘षाण्मातुरः’ षण्णां मातॄणाम् अपत्यम् इति षाण्मातुरः।
  3. उत्तरपदद्विगुः - यथा - ‘पञ्चगवधनः’ पञ्चगावः धनं यस्य सः पञ्चगवधनः।

नञ्प्रभृतयः पञ्चधा[सम्पादयतु]

१ नञ्समासः - यथा - ‘अधर्मः’ न धर्मः इति अधर्मः।
२ कुसमासः - यथा - ‘कुपुरुषः’ कुत्सितः पुरुषः इति कुपुरुषः।
३ गतिसमासः - यथा - ‘शुक्लीकृत्य’ अशुक्लं शुक्लं कृत्वा इति शुक्लीकृत्य।
४ प्रादिसमासः - यथा - ‘प्राचार्यः’ प्रगतः आचार्यः इति प्राचार्यः।
- ‘अतिदेवः’ अतिक्रान्तः देवम् इति अतिदेवः।
- ‘निर्वाराणसिः’ निष्क्रान्तः वाराणस्याः इति निर्वाराणसिः।
५ उपपदसमासः - यथा - ‘कुम्भकारः’ कुम्भं करोति इति कुम्भकारः।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तत्पुरुषसमासः&oldid=409281" इत्यस्माद् पुनः प्राप्तिः