तत्रैकस्थं जगत्कृत्स्नं...
दिखावट
(तत्रैकस्थं जगत् - 11.13 इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
- अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रयोदशः(१३) श्लोकः ।
पदच्छेदः
[सम्पादयतु]तत्र एकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा अपश्यत् देवदेवस्य शरीरे पाण्डवः तदा ॥ १३ ॥
अन्वयः
[सम्पादयतु]तदा पाण्डवः देवदेवस्य तत्र शरीरे अनेकधा प्रविभक्तं कृत्स्नं जगत् एकस्थम् अपश्यत् ।
शब्दार्थः
[सम्पादयतु]- तदा = तदानीम्
- पाण्डवः = अर्जुनः
- देवदेवस्य = हरेः
- तत्र = तस्मिन्
- शरीरे = देहे
- अनेकधा= बहुधा
- प्रविभक्तम् = पृथक्भूतम्
- कृत्स्नम् = सकलम्
- जगत् = भुवनम्
- एकस्थम् = एकस्मिन् स्थितम्
- अपश्यत् = दृष्टवान् ।
अर्थः
[सम्पादयतु]तदा अर्जुनः हरेः तस्मिन् शरीरे बहुधा विभक्तं सकलमपि जगत् एकत्रैव वर्तमानम् अपश्यत् ।