तपतीसंवरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
तपतीसंवरणम्  
Tapati meets Samvaran.jpg
तपत्याः संवरणेन सह मेलनम्
लेखकः कुलशेखरवर्मा
देशः भारतम्
भाषा संस्कृतम्

तपतीसंवरणं कुलशेखरवर्मणः कृतिः अस्ति। अस्मिन् षट् अङ्काः सन्ति । महाभारतस्य आदिपर्वणः उद्धृतम् अस्ति इतिवृत्तम् । अनपत्यतया दुःखितः संवरणः तपतीं परिणीय पुत्रम् आप्नोति । एषः तस्य कथा सारांशः । श्रृङ्गारः एव अङ्गी रसः । अस्यनाटकस्य सम्पादनं टि. गणपतिशास्त्रि- महोदयेन ट्रिवेण्ड्रं संस्कृत-सीरीस्-तः १९११ तमे संवत्सरे कृतम् ।

कथावस्तु[सम्पादयतु]

हास्तिनपुरमहाराजस्तपनः साल्वराजदुहितुर्महिष्यां सन्ततिमनवाप्य स्वप्ने दृष्टात् सूर्यबिम्बाच्च तस्या निरपत्यतां श्रुत्वा दुनिवारेण क्लेशेनाभिभूतो विदूषकेणापरविवाहाय प्रेरितः कदाचित् तेनैव सह महिष्याः प्रासादं प्रति व्रजन् पथि गुहागृहं समया मारकत्यां शिलायां दिव्याङ्गनायाश्चरणच्छायामालोकयत् । तत्रागता राज्ञी अन्तर्धाय तयोरालापानाशृणोत् । तत्रैव राजा तस्या दिव्यकन्यायाः कर्णपूरमलभत, विदूषकेण संवरणं प्रति सा समासक्तचित्तेति निवेदितम् । तत्र कर्णपूरे -

किं कुणइ चादअवहू सन्दसिणेही वि मेहपअरम्भि।

सुहिआ तिस्से दिट्ठी पुण्णा आणन्दबाहेण॥[१]

इति सन्देशाक्षराणि वाचयित्वा राजा तन्निषक्तहृदयो जातः । तदन्वेषणाय गच्छता राज्ञा श्रुतपूर्वालापा महिषी समधिगता, सामर्षा सा कृतानुनयापि तमवज्ञायान्यत्र गता।

अथ सूर्यपुत्री तपती नारदस्य वचसा स्वानुरूपं पति संवरणमेव योग्यं मत्वानुरक्तेन मनसा मणिशिलातले विश्राम्यन्ती संवरणं दृष्ट्वैव दिवमुत्पपात। तत्सखी मेनका कर्णपूरे गाथामुत्कीर्य राजानं परीक्षितुं तत्रैव विसृज्य गता।

एकदा तपती संवरणरागपरवशीभूता पुनरपि तत्रैव देशे समवातरत् । राजापि मृगयायै विदूषकेण सहागतः । तस्मिन् किंचिद् दूरं गतवति विदूषकं कपिमुखं दृष्ट्वा कपयः सजातीयं मत्वा तदधस्तात् कर्णपूरमाच्छिद्य पलायिताः । कर्णपूरविषयां जिज्ञासां कुर्वाणं राजानं स सर्वक्लेशमूलात् कर्णपूरात् स्वमोक्षमकथयत् । अथ वामनावतारभूमिं करतलोदकसरो मत्वा तौ ततो वामनमन्दिरं गतौ । विदूषकस्तत्र तपत्याश्छायां दृष्ट्वा राजानं न्यवेदयत् । अन्ततः स तां साक्षाददर्शत् । परन्तु प्रणयं निवेदयितुं चिन्तयत एव तस्य सांध्यं विधि निर्वर्तयितु समयः सूचितः । ततः स कुलपतेराश्रम प्रतस्थे ।

अथ संवरणो राक्षसान् निहत्य मुनीन् निर्भयान् कर्तुं कञ्चित् कालमयुध्यत । तापसानाश्वास्यासौ तदेव मणि-मण्डपं पुनर्गतः यत्र तपती प्रथमं दृष्टासीत् । विरहवशं तं रागपरा तपती कर्णपूरहस्तया रम्भया सहाभ्याजगाम, किन्तु स्वभार्या-वियोग-सन्तप्तं राजानमुत्प्रेक्ष्य क्लेशं क्लेशं सखीभिराश्वासिता नैवं स्वभार्यावियोगजन्मा मनोभवं सन्तापयतीति मित्र-सान्त्वनाय कर्णपूरमपि नेदानीं लब्धुं शक्यमिति वदति विदूषके रम्भया कर्णपूरस्तत्सविधे पातितः । विदूषकेण दत्तोऽसौ विरहातुरेण राजानभिज्ञाय निराकृत इति तपस्याः संशयो दृढोऽभवत्। तपतीति नाम प्रलपतो राज्ञो मुखादाकर्ण्य लब्धविश्वासा सा ‘मत्प्रणयेनासौ कां दशां नीत' इति मनसिकृत्य मूर्च्छिता बभूव ।

ततस्तपतीविरहेण मरणोन्मुखं राजानं मृतं परिज्ञाय विदूषके भृगोरात्मानं पातयितुं गते सखीभिः प्रयोजिता तपती स्वं प्रकाश्य राज्ञो हृदयं करेणास्पृशत् । स च तां पाणौ कर्तुमुद्यतो मेनकया वारितः 'अस्याः पित्रा सूर्येणानुज्ञात एव भवान् पाणिं गृह्णातु' इति, सूर्यश्च भवदर्थमियं संकल्पितपूर्वैवेति च । अथ राजा धावित्वा विदूषकं मरणान्निवारयति स्म ।

संवरणः सूर्यं प्रति द्वादशाहं तपोऽतप्यत । वशिष्ठस्तदानीं तं विरमय्य तस्मै सूर्यं तपतीं याचितवान् । परिणीता सा स्वप्ने कुमारं जनयामास।

क्षणमप्यसोढविप्रयोगयोस्तयोः मिथो रमयतो राक्षसवधनिहितवैरभावा कापि राक्षसी सुन्दरी सती राजानं प्रति गगनमालायाः प्रणयं निवेदयामास । समुद्रे तं मज्जयितुं कृत-संकल्पां तां विदूषकेण वारितोऽपि राजा व्यामोहवशान्नाभिज्ञातवान् मायाविनीम् । विमानमानेतुं तस्यां प्रस्थितायां सकर्णपूरा मेनका प्रविश्य तमवहितं चकार । राक्षस्या सहाभिसारचर्चा श्रुत्वा तपती ततो वामनमन्दिरं गता राज्ञा मेनकासहकारेणाश्वासिता।

पत्या सह हिमवत्सु रममाणा तपती सूर्यदेवेन न सेहे, सा च हयसेनेन वियोज्य आनायिता। अथ राजशून्यं हास्तिनपुरं पाञ्चालोऽधिकृतवान् । संवरणः प्रियामन्विष्यन् गिरगहनेषु चरन् कथंचिद् विदूषकेण संगम्य निजं राज्यं परहृतं विदित्वा जेतुं सन्नद्धः सूर्यप्रषितेन रथेन प्रस्थितः । रक्षोभिः कृतया मायया सर्वत्रानावृष्टिरासीत्, किन्तु राजनि प्राप्त एव प्रकामं ववर्ष, येन राज्यं समृद्धं बभूव स्वायत्तं च । गङ्गालोकप्रासादं गतस्य संवरणस्य सविधे कृत-मेनका-रूपा तपती समुपतस्थे । सा हि पितुरादेशविधेया न भूतार्थरूपेण तमुपगन्तुमुदसहत । अथ तयालिङ्गितो राजा तपत्येवेति प्रत्यभिज्ञाय रहस्यमपृच्छत् । सा च प्रत्युवाच तपतीं तावत् सूर्यः सावित्रीसन्निधाने सम्प्रेष्य भवन्तं तु वृष्ट्या राज्यमृद्धं कर्तुमिहानीतवान्, अहं च तपत्या वृत्तं निवेदयितुमायाता इति । मेनकारूपेणैव सा राज्ञा सह कंचित् कालं वस्तुमैच्छत् ।

अत्रान्तरे सा राक्षसी पुनर्मायया राजानमवञ्चयत् । अन्ततो राजा मायां विज्ञाय यावत् स्वस्थो जातस्तादेव सूर्येण कृतप्रसादा तपती प्रत्यागता । अथ मोहनिका राक्षसी राजानं क्षमां प्रार्थ्य न्यवेदयत् सूर्यलोकं व्रजन्तीं मां युवयोः पुत्रेण बाणप्रहारैः रुध्यमानां मोचयेति । तपती शङ्काकुला जाता क्व मे पुत्रः कदा कथं जात इति । तामजनिंमन्यां वसिष्ठः प्राबोधयत् स्वप्ने लब्धजन्मानं सूर्यदेवनियुक्तया आ जन्मनः सावित्र्या पाल्यमानं तस्याः पुत्त्रं रक्षोध्वंसकारिणमिदानीं तारुण्यमुपगतमिति नवनवा निरन्तराभिवर्धित-कौतूहला सरसराग-हृद्या कथैव प्रीणाति । ‎

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. किं करोति चातकवधूः सान्द्रस्नेहापि मेघप्रवरे।
    सुहिता तस्या दृष्टिः पूर्णानन्द-बाष्पेण।।
"https://sa.wikipedia.org/w/index.php?title=तपतीसंवरणम्&oldid=436934" इत्यस्माद् पुनः प्राप्तिः