तर्कसङ्ग्रहः
श्रीमदन्नंभट्टेन रचितः तर्कसङ्ग्रहो नाम ग्रन्थः न्यायशास्त्रे विशिष्टं स्थानम् अलङ्करोति । बालपाठार्थम् उपयुज्यमानोऽपि अयं ग्रन्थः दर्पणः हस्तिनमिव सर्वमपि न्यायशास्त्रविषयं स्वकीये लघुशरीरे अन्तर्भाव्य दर्शयति ।
परिचयः
[सम्पादयतु]भारतीयदर्शनसमुद्रेषु न्यायदर्शनम् अगाधम् अनुपमम् अतिविशालं च वर्तते । । भगवान् महर्षिः गौतमः जगतां दुःखनिवारणस्य मोक्षप्राप्तेश्च उपायान् प्रतिपिपादयिषुः आदौ प्रमाणप्रमेयादीनि सूत्राणि रचयामास । तानि गौतमन्यायसूत्राणीति प्रथितानि सन्ति । ततश्च महर्षिः कणादः अथातो धर्मं व्याख्यास्याम इत्यादीनि सूत्राणि निरचिनोत् । किन्तु एतानि सूत्राणि मन्दप्रज्ञैः दुरवगाह्यानीति मत्वा अनेके च विपश्चिद्वरेण्याः तानि सूत्राणि सरलतया विवरीतुं प्रयतितवन्तः । अतः तत्र अनेकानि अमूल्यानि ग्रन्थरत्नानि भासन्ते । तादृशेषु इदमेकम् आबालवृद्धैः कण्ठे धार्यम्, महोज्ज्वलं सत् शास्त्रज्ञपरिषदि समेषां गौरवाय भवति । एवम् शास्त्रपुरुषस्य मुकुटमणिप्रायः अयम् अन्नम्भट्टः।अन्नम्भट्टेन विरचितः ग्रन्थः तर्कसङ्ग्रहः । न्याय-वैशेषिकयोः शास्त्रयोः सारसङ्ग्रहरूपः अयं ग्रन्थः तर्कशास्त्राध्ययनं प्रविविक्षूणां छात्राणां कृते द्वारायते । अत्र ग्रन्थकर्ता न्यायशास्त्रस्य पारिभाषिकैः पदैः लघूनि हृद्यानि च सूत्राणि विरचय्य, "दीपिका"ख्यां व्याख्यां च स्वयमेव अतनोत् । तत्रायं ग्रन्थारम्भे प्रतिजानीते यथा-
- निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
- बालानां सुखबोधाय् क्रियते तर्कसङ्ग्रहः ॥ इति ।
दीपिकाख्यायां स्वकृतव्याख्यायामपि वदति यथा-
- विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम् ।
- टीकां "शिशुहितां" कुर्वे तर्कसङ्ग्रहदीपिकाम् ॥ इति ।
एतेन ज्ञायते यत् एष विद्यालयेषु छात्रशिक्षायै प्रयत्नशील आसीदिति । दुश्शकां तर्कशैलीमपि ललितपदबन्धैः निबध्य यथार्थेन तर्कशास्त्रे बालबुद्धीनां प्रवेशिकामेनां रचयितुं सक्षमोऽन्नंभट्ट एव नान्यः ।
कर्तुः देशः कालश्च
[सम्पादयतु]अयं आन्ध्रदेशीयः इति श्रूयते । सः तेलङ्गब्राह्मणः स्याच्च तेषां पितुः नाम तिरुमलः इति उच्यते । तेऽद्वैतविद्याचार्य: इत्युपाध्याख्यातः । अन्नंभट्ट कौण्डिन्यपुरे न्यायशास्त्रस्याध्ययनमध्यापनं च कृतवान् । तेन विपुलाः ग्रन्थरचना: कृतवान् स्म । काशीगमनमात्रेन नान्नंभट्टायते द्विजः इति वाक् तदा प्रसिद्धा अभवदस्माच्चअन्नंभट्ट सम्यग्यता इति विद्वतां निकष इत्यमन्वत् । षोडशशतमानस्य अन्त्यभागे अयं जीवति स्म इति विदितं भवति ।
पारिभाषिकम्
[सम्पादयतु]यद्यपि शास्त्रग्रन्थेषु पारिभाषिकपदानां बाहुल्यं भवत्येव । तत्रापि तर्कशास्त्रे पारिभाषिकैः पदैरेव ग्रन्थाः प्रणीयन्ते । किं बहुना शास्त्रान्तरेष्वपि तर्कशास्त्रीयाणि पारिभाषिकपदान्येव प्रयुज्यन्ते । अत एवेयम् लोकोक्तिः - काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् प्रसिद्धा । "काणादम्" नाम वैशेषिकं शास्त्रम्, आधुनिकस्य नवीनन्यायशास्त्रस्य मूलम् । अत्र शास्त्रे "अवच्छिन्नम्, अवच्छेदकम् इत्यादीनि कानिचित् विशिष्टानि पारिभाषिकपदानि पर्यायपदरहितानि भवन्ति । तानि अन्यभाषापदैरपि अनूदितुं न शक्यन्ते। अत एव तर्कशास्त्रम् कठिनम् इत्यामनन्ति बुधजना अपि।
आलोकव्याख्यानम्
[सम्पादयतु]भाषादृष्ट्या सरलस्यापि अस्य ग्रन्थस्य विषयबाहुल्यम् अल्पाक्षरत्वं च तस्य व्याख्यानापेक्षतां स्मारयतः । सन्ति अस्य बहूनि व्याख्यानानि दीपिकादीनि । तथापि पण्डितप्रवरेण वरदाचार्य-महाभागेन कृतम् आलोक-नामकम् एतत् व्याख्यानं विशेषप्रयोजनम् आतनोति । अत्र सरलया भाषया मूलस्थानां विषयाणां विवरणं कृतम् । विद्वत्प्रदर्शनापेक्षया छात्रसौलभ्यविषये दृष्टिः आदृता । नूतनाः विषयाश्च सोपानक्रमेण निरूपिता । ‘गन्धवती पृथिवी’, ‘रूपरहितस्पर्शावान् वायुः’ इत्यादिस्थलेषु लक्षणविवरणावसरे आचार्यवर्यस्य लेखनी महान्तम् उपकारं जनयति छात्राणाम् । न्याय-शास्त्रप्रविविक्षुभिः अवश्यं पठनीयः अयं ग्रन्थः । सुन्दरं मुद्रणं चापि ग्रन्थस्यास्य अपरं वैशिष्ट्यम् ।
बाह्यसम्पर्कतन्तवः
[सम्पादयतु]- तर्कसङ्ग्रहग्रन्थस्य मूलं विकिस्रोतसि ।