तस्मात्त्वमुत्तिष्ठ यशो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(तस्मात्त्वमुत्थिष्ठ - 11.33 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
तस्मात्त्वमुत्ति यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तस्मात् त्वम् उत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् मया एव एते निहताः पूर्वम् एव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥

अन्वयः[सम्पादयतु]

सव्यसाचिन् ! तस्मात् त्वम् उत्तिष्ठ, यशः लभस्व । शत्रून् जित्वा समृद्धं राज्यं भुङ्क्ष्व । एते मया पूर्वं निहताः । निमित्तमात्रं भव ।

शब्दार्थः[सम्पादयतु]

सव्यसाचिन् = सव्येन हस्तेनापि शरप्रयोगे निपुण !
तस्मात् = ततः हेतोः
उत्तिष्ठ = सज्जस्व
यशः = कीर्तिम्
लभस्व = प्राप्नुहि
शत्रून् = अरीन्
जित्वा = विजित्य
समृद्धम् = निष्कण्टकम्
राज्यम् = आधिपत्यम्
भुङ्क्ष्व = अनुभव
एते = इमे
पूर्वम् एव = प्रथममेव
निहताः = विनाशिताः
निमित्तमात्रम् = हेतुमात्रम्
भव = जायस्व ।

अर्थः[सम्पादयतु]

तस्मात् हे अर्जुन ! त्वम् उत्तिष्ठ, कीर्तिं प्राप्नुहि । अरीन् विजित्य निष्कण्टकम् आधिपत्यम् अनुभव । एते मया इतः पूर्वमेव विनाशिताः । त्वं निमित्तमात्रं भव ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]