तिङर्थः
दिखावट
पचति इत्यादौ तिङ्प्रत्ययः श्रूयते । तिङ्प्रत्य्यस्य कारकं/ भावः, कालः, सङ्ख्या च अर्थाः । यथा –पचति / ते इत्यत्र ‘ति/ते’ प्रत्ययः कर्तृकारकं, वर्तमानकालम्, एकत्वसङ्खयां च बोधयति । पच्यते इत्यत्र तु ‘ते’ इति प्रत्ययः कर्मकारकं, वर्तमानकालम्, एकत्वसङ्ख्यां च बोधयति । एवं च तिङ्प्रत्ययः कर्तृकारकं कर्मकारकं वा बोधयति, न अन्यानि कारकाणि इति ज्ञेयम् । भूयते इत्यादौ ‘ते’ इति प्रत्ययः भावं कालञ्च् बोधयति । अत एव प्रयोगः त्रिधा – १. कर्तरि २. कर्मणि ३. भावे चेति । अथवा – १. कर्तृवाच्यः २. कर्मवाच्यः ३. भाववाच्यः च इति त्रिधा ।