तुळसीदासजयन्ती
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(फ़ेब्रुवरि २०१४) |
तुळसीदासजयन्ती | |
---|---|
के आचरन्ति | भारतीयाः |
वर्गः | national, historical, hindu |
महत्त्वम् | तुलसीदासस्य जयन्त्युत्सवः |
दिनाङ्कः | अगस्टमासः |
श्रीरामभक्तः ‘श्रीरामचरितमानस’ ग्रन्थकर्ता श्रीतुलसीदासः भारतदेशे अतीव प्रसिध्दः कविः आसन् । उत्तर भारते प्रतिगृहं रामचरितमानसग्रन्थस्य पठनं प्रचलत्ति स्म । व्रजभाषायां रामायणमहाकाव्यं लिखितवन्तः श्रीतुलसी दासस्य् जयन्तीमहोत्सवं प्रतिवर्षम् अगस्टमासे आचरन्ति ।
श्रीतुलसीदासस्य पिता आत्मारामः । माता च हुलसी । उत्तरप्रदेशराज्ये राजापुर समीपे बान्दा ग्रामे तुलसीदासस्य क्रिस्त शके १५२३ तमे वर्षे जन्म अभवत् । बाल्ये एव मातापित्रोः मरणं दृष्टवान् तुलसीदासः अन्यैरेव पोषितः युवकः सञ्जातः । दीनबन्धुदुहितान्नवली तुलसीदासस्य पत्नी आसीत् । तुलसीदासः पत्नीम् अतीव इच्छति स्म । परिवारे तुलसीदासस्य पत्नीप्रीतिः मातापित्रोः अभावं दूरीकृतवती आसीत् ।
एकदा रत्नावली मातृगृहं गतवती । एकदिनमपि तथा दूरे स्थातुम् असमर्थः वर्षाकाले मध्यरात्रौ श्वशुरगृहम् आगतवान् । गङ्गानदीं तरणेन पारङ्गतवान् आसीत् । पत्नी रत्नावली तुलसीं प्रति’ भवान् मयि एतावत् प्रीतियुक्तः अस्ति । एषा प्रीतिः श्रीरामे भवति चेत् सर्वदुःखानां परिहारः भवति” । इत्युक्तवती । प्रियपत्न्याः वचनानि श्रृत्वां तुलसी सम्यक् ज्ञानं प्राप्तवान्”। पत्नीप्रीतिः शाश्व्ता न भवति, इह जगति सर्वम् अशाश्वतमस्ति । ऎहिक सुखभोगेषु नित्यं सुखं नास्ति । श्रीरामः परमपावनः मोक्षदायकः” इति मनसि भावयन् गृहं त्यक्त्वा सज्जनैः सह तीर्थ क्षेत्राणि सञ्चरितवान् । तदा तुलसी तुलसीदास इति ख्यातः अभवत् । श्री तुलसीदास महोदयः हिमालये सन्यासदीक्षामपि स्वीकृतवान् । भगवतः वाल्मीकेः रामायण महाकाव्यं सम्यक् विज्ञाय व्रजभाषायां ‘श्रीरामचरितमानसम्’ इति महाकाव्यं कृतवन्तः । एतत् रचितवान् तुलसीरामायणम् इत्यपि कथयन्ति ।
श्रीरामचरितमानसे श्री तुलसीदासः प्रतिपात्रं विमृश्य सम्यक् पोषयित्वा महाकाव्यं रचितवान् । प्रत्येक घटनायाः अपि सविमर्शं काव्ये वर्णितवान् । सर्वेषां जनानां जीवने मार्गदर्शकं रामचरितमानस काव्यं भारतीयसाहित्ये एव अत्यन्तं महत्वपूर्णम् अस्ति ।
श्रीतुलसीदासः दोहावली, कवितावली, विनय पत्रिका, हनुमान् चालीसा, बरवै रामायणम् इत्यादि ग्रन्थान् रचितवान् । एतस्य काव्येषु व्यवहारज्ञानं नीतिः श्रीरामभक्तिः उत्तमविचाराः सर्वत्र सन्ति । एकस्यां दोहायां गोधन अश्वधन गजधन इत्यादि ‘राम’ नामधनस्य पुरतः धूलिसमानाः इत्युक्तवान् । श्री तुलसीदास्य स्त्रोत्राणि अपि सुन्दराणि सन्ति । ‘श्रीरामचन्द्रकृपालु भजमन हरण भवभयदारुणं’ इत्यादि श्रीरामस्याष्टकं स्तोत्रं अतीव जनप्रियम् अस्ति । पादद्वययुक्ते छन्दसि (‘दोहा’) श्री तुलसीदासः स्वीयं काव्यं रचितवान् । श्रीतुलसीदासस्य बाल्ये श्रीनरहरिदासः अध्यापनं पालनं च कृतवान् । श्रीतुलसीदासः शतवर्षपर्यन्तं जीवन् अन्ते (प्लेग् रोगेण मृतः अभवत् । रामभक्तिकाव्येषु श्रीतुलसीरामायणस्य अद्वितीयं स्थानमस्ति । हिन्दी भाषाजनाः एव न किन्तु सर्वे भारतीयाः अपि सगौरवं श्रीतुलसीदासं श्रीरामचरि मानसं च स्मरन्ति । श्रीतुलसीदासः अतीव कुशलः सेवासक्तः कष्टनिवारकः संस्कृतज्ञः च आसीत् । श्रीरामे श्री तुलसीदासस्य अतीव भक्तिः आसीत् । अथापि अन्यदेवानां विषये चापि गौरवम् आसीत् । सगुणरामभक्ति परम्परां भारते स्थापितवन्तः श्रीतुलसीदासमहोदयाः जनमानसे सदा विराजमानाः सन्ति ।