तृणबदरफलरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तृणबदरफलरसः
कूपीषु सङ्गृहीतः तृणबदरफलरसः
तृणबदरफलानि

तृणबदरफलस्य रसः एव तृणबदरफलरसः । एतत् तृणबदरफलम् आङ्ग्लभाषायां Strawberry इति उच्यते । अस्य रसः Strawberry Juice इति उच्यते । तृणबदरफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य तृणबदरफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि तृणबदरफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं तृणबदरफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । तृणबदरफलानि बहुविधानि सन्ति । तदनुगुणं फलरसस्य अपि वर्णः रुचिः च परिवर्तते ।

फलरसस्य निर्माणम्[सम्पादयतु]

अस्य तृणबदरफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् तृणबदरफलं प्रक्षाल्य लघु लघु खण्डाः करणीयाः । अनन्तरं बीजं पृथक् करणीयम् । तदनन्तरं फलखण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलायाः चूर्णम् अपि योजयितुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=तृणबदरफलरसः&oldid=345358" इत्यस्माद् प्रतिप्राप्तम्