तृश्शूर्
तृश्शूर् तृश्शिव पेरूर् ट्रिच्चूर् | |
---|---|
नगर: | |
उपरितः घड़ीयानस्य दिशि: तृश्शूर् पूरम्, लूर्द्ध् चर्च:, व्याघ्रक्रीडा, वडक्कुंनाथस्य (उत्तरनाथस्य) मन्दिर: | |
देशः | India |
राज्यम् | केरल |
मण्डल | तृश्शूरमण्डलम् |
Government | |
• Type | महापौर-परिषद् शासन |
• महापौर | एम् के वर्ग्गीस् |
• प्रति महापौर | राजश्री गोपन् |
• आरक्षक प्रत्यायित | अङ्कित् अशोकन् भा।आ।से। |
Area | |
• Total | १०१.४३ km२ |
Elevation | २.८३ m |
Population (2011) | |
• Total | ३,१५,५९६ |
• Density | ३,१००/km२ |
भाषा: | |
• कार्याययी | मलयालम्, आंग्ल |
पत्रवाहन अनुक्रमणिका संख्या |
680XXX |
दूरभाष सङ्केत: | तृश्शूर्: 91-(0)487, इरिङ्गलाकुडा: 91-(0)480, वडक्काञ्चेरी: 91-(0)4884, कुन्नंकुलम्: 91-(0)4885 |
वेलाभू | 0 किलोमीटर (0 मील) |
साक्षरता | 97.24% |
वर्षा | 3,100 मिलीमीटर (120 इंच) |
माध्य ग्रीष्मकाल तापमानं | 35 °से (95 °फ़ै) |
माध्य शीतलकाल तापमानं | 20 °से (68 °फ़ै) |
Website | www.corporationofthrissur.org |
तृश्शूर् केरलस्य सांस्कृतिक राजधानी इति प्रसिद्धं नगरम् अस्ति। इदं नगरं केरलस्य मध्ये स्थितम् अस्ति, तृश्शूर् मण्डलस्य प्रशासनिक केन्द्रम् अपि अस्ति। केरलस्य कला-संस्कृति केन्द्राणि केरल साहित्य अकादमी, केरल संगीत-नाटक अकादमी, केरल ललितकला अकादमी इत्यादीनि मुख्यालयं तृश्शूर् नगरसय हृदये एव सन्ति।
विश्वप्रसिद्धं तृश्शूर् पूरम् प्रतिवर्षं नगरस्य केन्द्रे स्थिते श्री वडक्कुंनाथमन्दिर प्राङ्गणे उत्सवं करोति। अस्मिन् मन्दिरे शिव: पूज्यते। अपि च श्रीराम, पार्वती, गाणेशरूपा:, शङ्करनारायण:, भगवान् विष्णु:, च समानमहत्वस्य देवता: सन्ति। इदं मन्दिरं दक्षिणी कैलासम् इति नाम्ना प्रसिद्धम् अस्ति, यत् केरलस्य प्राचीन १०८ शिवालयेषु प्रथमस्थानं प्राप्नोति। कथ्यते यत् तिरु (तमिल् भाषायां सम्मानशब्द:) शिव (उत्तरेश्वरं निर्दिश्य) पेरूर् (बृहत् नगरम्) -- तृश्शिवपेरूर् इति पदम् कालान्तरेण तृश्शूर् इति कथ्यते। परन्तु आंग्लानाम् उच्चारणशैल्या: कारणात् एतत् ट्रिच्चूर् इति अभवत्, अनन्तरं १९४७ तमस्य वर्षस्य जूलै मासस्य १४ दिनाङ्के स्वातन्त्र्यानन्दरम् तृश्शूर् मण्डलस्य अस्तित्वम् अभवत्। अत्रत: ३० कि।मी। दूरे चेरुतुरुत्ती नगरे केरल-कलामण्डलम् अस्ति, यत्र केरलस्य सांस्कृतिक विशिष्टतां प्रकाशयन्त: बहव: कलारूपा: अद्वितीयरीयत्या पाठ्यन्ते। अस्य नगरस्य शिल्पकार: कोच्ची राज: रामवर्म तम्बुराण: आसीत्। रामवर्मा परिवारस्य पारुक्कुट्टी नाम्ना राजमाता अपि तृश्शूर् नगरस्य महत्वपूर्णपरिवर्तनेषु योगदानं कृतवान् अस्ति। पुरातनकाले तृश्शूर् नगरं कोच्ची राजवंशस्य केन्द्रम् आसीत्। कोच्ची महाराजस्य प्रासाद: अद्यापि अस्मिन् नगरे निगम-क्रीडाङ्गणस्य समीपे एव स्थित: अस्ति।
अस्मिन् नगरे केरलशैल्या निर्मिता: बहव: हिन्दु मन्दिरा: सन्ति। तथा नगरमध्ये तेक्किङ्काडु (सागौन वनम्) प्राङ्गणे वडक्कुंनाथमन्दिरम् अस्य कूत्तंबलं (कूत्तु - केरलस्य प्रदर्शनकला, अंबलम् - मञ्च) च प्रसिद्धम् अस्ति।
अरब् देशात् आगत: मालिक् इब्नु दिनार् इत्यनेन निर्मितं भारतस्य प्रथमा मस्जितं चेरमान् जुमा मस्जिद् तृश्शूर् मण्डलस्य कोडुङ्गल्लूर् नगरे स्थितम् अस्ति। तत्र एव प्रसिद्धं कोडुङ्गल्लूर् कुरुम्बा भगवती मन्दिरम् अस्ति। रोमकपुरस्य बेसलिका इत्यस्य आदर्शरूपेण निर्मितं नूतनं चर्चं नगरस्य मध्ये अस्ति। अत्रत: २४ कि।मी। दूरे हिन्दुनां पवित्रं मन्दिरं गुरुवायूर् श्रीकृष्णस्वामी मन्दिरम् अस्ति। तृप्रयार् श्रीरामस्वामी मन्दिरं, इरिञ्जालक्कुडा कूडल्माणिक्य मन्दिरं, पालयूर् चर्चं, इरुंनिलंकोड् शिव मन्दिरं, उत्राळिक्कावु, नेल्लुवाया धन्वन्तरी मन्दिरं च सन्ति, ये सर्वे तृश्शूर् मण्डले स्थिता: सन्ति।
आकाशवाणी (अखिल भारतीय रेडियो) तृश्शूर् नगरस्य समीपस्थे रामवर्म्मपुरे स्थितात् केन्द्रात् प्रसारयति। केरलराज्यस्य महत्वपूर्णेषु रेडियोसेवासु आकाशवाणी तृश्शूर् नगरस्य केन्द्रम् अत्यतमम् अस्ति। तृश्शूर् मण्डलं इत्येतदतिरिक्तं पालक्काड्, मलप्पुरं इत्यादि मण्डलेषु च रेडियो श्रोतार: मुख्यतया अस्मिन् प्रसारणे एव अवलम्बन्ते। तृश्शूर् नगरात् समीपस्थ: समुद्रतट: वाटानप्पळ्ळि समुद्रतट: अस्ति, य: विंशति किलोमीट्टर् दूरे अस्ति।