त्रिश्शूर्-उत्सवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
स्वर्णाभरणैः अलङ्कृतानाण् गजानां पङ्क्तिः

एषः पर्वविशेषः अस्ति । अरट्टुपूजा इति स्थले महोत्सवः एषः भवति । एतं महोत्सवम् भारतस्य महत्वपूर्णेषु वर्णयुक्तपर्वसु अन्यतमम् इति कथयन्ति । ४६ देवालयानाम् उत्सवमूर्ति- सम्मिलनम् अत्र भवति । तदा सङ्गीतस्य ढोलकवाद्यस्य, श्रृङ्गवाद्यस्य, काहलस्य च वादनं निरन्तरं प्रचलति । सामान्यतः ५०-६० गजाः अलङकृताः सन्तः यात्रायां यत् आगच्छन्ति तत् प्रमुखम् आकर्षणम् अस्ति । गजानाम् उपरि त्रयः नम्बूदरीजनाः, श्वेतच्छत्रधराः, रजतचामरधराः, व्यजनधराः उपविशन्ति । एषः महोत्सवः सततं ३६ घण्टाः यावत् प्रचलति । अन्ते विशेषस्फोटकानां वर्णमयं प्रदर्शनं मनमोहकं भवति । एतं महोत्सवं द्रष्टुम् देशविदेशेभ्यः जनाः आगच्छन्ति । एषः महोत्सवः फेब्रवरी/ मार्च मासे प्रचलति ।

मार्गः[सम्पादयतु]

वाहनमार्गे त्रिश्शूरतः १२ कि.मी

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=त्रिश्शूर्-उत्सवः&oldid=409301" इत्यस्माद् पुनः प्राप्तिः