दंष्ट्राकरालानि च ते...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दंष्ट्राकरालानि च - 11.25 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ २५ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चविंशतितमः(२५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

दंष्ट्राकरालानि च ते मुखानि दृष्ट्वा एव कालानलसन्निभानि दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ २५ ॥

अन्वयः[सम्पादयतु]

जगन्निवास, देवेश ! दंष्ट्राकरालानि कालानलसन्निभानि च ते मुखानि दृष्ट्वा एव दिशः न जाने । शर्म च न लभे । प्रसीद ।

शब्दार्थः[सम्पादयतु]

जगन्निवास = विश्वनिकेतन !
देवेश = सुराधिप
दंष्ट्राकरालानि = दन्तभयानकानि
कालानल - सन्निभानि च = प्रलयाग्निसदृशानि च
ते मुखानि = वदनानि
दृष्ट्वा एव = ईक्षित्वा एव
दिशः = आशाः
न जाने = न वेद्मि
शर्म च = सुखमपि
न लभे = न प्राप्नोमि
प्रसीद = प्रसन्नो भव ।

अर्थः[सम्पादयतु]

विश्वनिकेतन, सुराधिप ! दन्तभयानकानि प्रलयाग्निसदृशानि च तव वदनानि दृष्ट्वा एव दिशः न जानामि । धैर्यं शान्तिं च कथमपि न प्राप्नोमि । प्रसन्नो भव ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]