दण्डकूर्दनम्
अथ्लेटिक्स् Pole vault | |
---|---|
An athlete in the middle of the vaulting phase | |
पुरुषाणां विक्रमाः | |
विश्वस्तरे | Renaud Lavillenie फलकम्:T&Fcalc (2014) |
ओलिम्पिक्-क्रीडायाम् | Renaud Lavillenie फलकम्:T&Fcalc (2012) |
महिलानां विक्रमाः | |
विश्वस्तरे | Yelena Isinbayeva फलकम्:T&Fcalc (2009) |
ओलिम्पिक्- क्रीडोत्सवे | Yelena Isinbayeva फलकम्:T&Fcalc (2008) |
ऐतिहासिकी पृष्ठभूमिः
[सम्पादयतु]आदिकालिका मानवा वनेषु विचरन्तो यदा कदा सङ्कटापन्ने पथि वर्तमाना आत्मनो रक्षार्थं वंशशाखादीनां साहाय्येन कूर्दित्वा रक्षणं प्राप्नुवन् । मार्गावरोधकान् कण्टकिनो गुल्मान गार्तान् स्वल्पजल-प्रवाहान् पल्वलान् वा वंशादीनां साहाय्यादेव पारयन्तस्ते कूदाविदौ नैपुण्यमलभन्त । परम्पराप्रक्रियया वर्धमानमे तत् कूदनं कला रुपमधारयत् । पुरातने काले वंशस्य प्रयोगः प्रलम्बकूर्दने ततोऽप्याधिक्यमानेतुं तथाऽवरोधेम्यः समुत्तर्तुं क्रियते स्म् । इत्यमेव प्रारम्बिकीषु प्रतियोगितासु वंशकूर्दनस्य प्रचलनं तलीयप्रलम्बतावर्धनाय विधीयते स्म न तून्नतकूर्दनाय ।
सन् १८७७ तमे वर्षेऽमेरिकादेशे सर्वप्रथमं 'वंशकूर्दनं’ विशेषयोग्यताप्रतियोगितायां समावेशितम् । ब्रिटिशजना वंशकूर्दनकलायामेकस्याः नवीनायाः प्रक्रियायाः प्रचलनमकार्षुर्या 'वंशारोहण' नाम्ना सम्बोध्यते स्म । सन् १६८० तमे वर्षेऽमेरिकादेशेनापि प्रक्रियेयं स्वीकृता । पूर्वं वन्यप्रदेशे वंशं सन्त्रोट्य तस्यैकं भागं तीक्ष्णं विधाय प्रयुञ्जन्ति स्म् कालान्तरेण तस्याः प्रक्रियाया विकासः समजायत । १६२४ तमे वत्सरे विश्वक्रीडोत्सवे वंशेऽपि परिवर्तनमभूत तथा १६६२ तमे वर्षे विश्वक्रीडासु 'फाइवर ग्लास पोल' नामकस्य विशिष्टरीत्या निर्मितस्य वंशखण्डस्य प्रयोग आदृतः ।
कीर्तिमानानां श्रृङ्खलापि क्रमशो वृद्धिं श्रितवती । सन् १८७७ तमे हायने 'जीमेनी कोल' नामकः कूर्दकः ६ फीट ७ इञ्चमितस्योच्चैः कूर्दनस्य कीर्तिमानमस्यापयत्, परं क्रमशस्तदवृद्धिमापन्नं सदद्य १८ फीटमितेन मानेन कूर्दन- विधौ यशस्वितां भजते ।
वंशकूर्दनप्रक्रियायाः अष्टौ भागाः
[सम्पादयतु]नियमैः परिपुष्टे वंशकूर्दने साम्प्रतं यावदनेके प्रकाराः आवैष्कृताः परीक्षणपूर्वकं परिष्कृताश्च । भूयो भूयो निरीक्षणेन परीक्षणेनानुभवेन च साध्ये सिद्धिरुपैति।’ तदनुसारमेवेदानीमधो निर्दिष्टा अष्टौ भागा निर्धारिता विद्यन्ते ।
- १. वंशस्य ग्रहणं तथा वंशग्रहणपूवकं धावनम्,
- २. धावनमार्गः, परिक्षणचिह्नदानं तथैतेषां मध्ये धावनस्य गतिः,
- ३. वंशस्य गर्ते निखातनं तथा हस्तयोरपसारणम्,
- ४.पादस्योच्छलनबिन्दौ स्थापनमुच्छलनप्रयासश्च,
- ५. उच्चैर्दोलनं तथोच्चैरुत्यानम्,
- ६. शरीरस्य वलनं तथा पदयोः कर्तरीविधानम्,
- ७. ऊर्ध्व-प्रक्षेपणमथ यष्टेः पारं गमनम्,
- ८. वंशत्यागस्तथा भूमावागमनम् ।
एतासां क्रियाणां क्रमिकः परिचयश्चेत्थं वर्तते -
वंशस्य ग्रहणं तथा वंशग्रहणपूर्वकं धावनम्
[सम्पादयतु]सामान्यतः कूर्दक उल्लङ्घन-यष्टेर्निकटं गत्वा तदीयोच्चतासमानोच्चतावन्तं वंशं गृहणाति । तदा हस्तावाकर्षणरहितौ कूर्परावीषदवलितौ मणिबन्धावङ्गुल्यश्च सरला भवन्ति । स वंशं गृहीत्वा धावनारम्भस्थाने (यतः कूर्दनाय धावनारम्भो भवति तत्र गच्छति । तत्रोल्लङ्घनयष्टिमभितो मुखं विधाय तिष्ठति । तस्य दक्षिणो हस्तः पूरणतया पृष्ठे तथा वंशः शरीरस्य दक्षिणपार्श्वे भवति । कॄर्दकः स्वीयेन वामहस्तेन वंशं तथा गृहणाति येन ह्स्तः शरीरेण संलग्नो भवेत् । कूर्परः ६ अंशैर्वलितो हस्तयोरन्तरं च प्रायः २, १२ फुटमितं भवति । वामो हस्तः स्फिचः ६-६" दूरे भवति । वामहस्तस्याङ्गुष्ठो वंशस्याधोभागं तथाऽङ्गुल्य ऊर्ध्वभागं गृह्णन्ति । वंशस्यान्तिमो भागो नेत्रयोः पुरस्तिष्ठति । कूर्दकस्य वपुः सर्वथा वलनरहितं, स्कन्धौ विकर्षणहीनौ तथा धावनमार्गस्य समानान्तरशलिनौ भवतः ।
धावनमार्गः
[सम्पादयतु]धावनकूर्दकस्य गतिग्रहणक्षमतायां निर्भरति । सामान्यतस्त्रिविधा जना लभ्यन्ते ये गति-ग्रहणे भिन्नं सामर्थ्यं धारयन्ति । यथा -
- (१) केचन विलम्बेन गतिं गृह्णन्ति,
- (२) केषाञ्चिद् गतिर्मध्याश्रेणीका भवति,
- (३) अन्येऽतिशीघ्र गतिमात्मसात् कुर्वन्ति । एतेषां त्रिविधानामपि कूर्दकानां कृते पृथक्-पृथक् प्रकारवन्तौ धावनमार्गा भवन्ति । यथा -
(१) प्रथमस्थितिकः कूर्दकोऽधिकं दूरतो धावनमारभते । तस्मै चरण क्रमणान्यधिकान्यपेक्षन्ते । २-८-१० चरण-क्रमण विधिस्तदर्यमुचितो मन्यते । शीघ्र गतिप्रापकाय २-६--८ तथाऽन्यस्मै ४-६-८ पदक्रमणविधिरुचितो भवति ।
धावनप्रारम्भायोभावपि पादौ संयोज्य वंशं शरीरस्य समक्षं द्वाभ्यां हस्ताभ्यां गृहीत्वा दक्षिणं हस्तं कूर्पराद् मनाग् वलयित्वा च सज्जः सन् कूर्दकः प्रथमं चरणक्रमणमुच्छलनवता पादेन कुरुते । धावनं सामान्यं भवति, तस्मिन् कस्या अप्यतिरिक्तायाः शक्तेरावश्यकता न स्वीक्रियते । प्रारम्भिकेषु चतुः क्रमणेषु वंशो नीचैरागन्तुं प्रवर्ततेऽन्तिमसञ्चरणस्य पूर्तेः पूर्वमेव वंशो गर्ते निपात्यते । अन्त्यं क्रमणं किञ्चिद लघु भवति यतः शरीरस्य भारो वंशस्थोपरि गमनाय सहाय्यं करोति । यदोच्छलनशीलः पादः पृथ्व्या उच्छलति तदा सर्वतः प्रथमं वंशोपरि निम्नभागीयो हस्तो दक्षिणहस्तस्य निकटेऽपसार्यते ।
द्वितीयं कार्यं (यत् तदानीं क्रियते) द्वयोरपि हस्तयोर्मस्तकोपर्युत्थापने तथा कूर्परयोः प्रायः ६० अंशे वलनमस्ति । हस्तयोरिदं वलनं भूमेः प्राप्तस्योत्पतनस्याघातं समाप्तुं शक्नोति ।
हस्तयोरग्रेऽपसारणम्
[सम्पादयतु]हस्तयोरग्रेऽपसारणं तथा वंशस्य निश्चिते गर्ते स्थापनं युगापदेव भवतः । अस्मिन् विधौ कूर्दकः स्वस्य पूर्वाभ्यासस्य वैशिष्टयेनैव नितरां साफल्यमावहति ततस्तदीयोत्पतनं च कीर्तिप्रदं भवति ।
पादस्योच्छलनबिन्दौ स्थापनं तयोच्छलनम्
[सम्पादयतु]उत्तमोच्छलन-प्राप्तये भूमौ चरणस्य पूर्णतया निपतनमावश्यकं विद्यते । जानुरिषद् वलितो भवति । पादस्य भुमौ निपतनेन सहैव शीघ्रं पादतलं भुवं स्पृशति । समीचीनोच्छलनोपलब्धये समुच्छलनवतः पादस्य पार्ष्णिस्तलं च वंशस्य पुरः पूर्णतया स्थिते स्याताम् । एतेन साकमेव पादस्थथा हस्तस्य ग्रहणविधिर्यः सर्वत उच्चैर्भवेद, एकस्यां रेखायां भवेताम् । वंशो गर्ते तथा निपात्येत यतो यद्यूर्धव तनाद ग्रहणस्थलाद् वंशस्य पुरत एका रेखा दीयेत चेत् सा समुच्छलनवतः पादस्य पार्ष्णि यावद् गच्छेत् । अनेके कूर्दका अत्र कट्याः पृष्ठभागे वलन्ति तथा मस्तकं पृष्ठभागं प्रति नमयन्ति ।
उच्चैर्दोलनम्
[सम्पादयतु]इदं कार्यं जानोग्रे तथोर्ध्वभागं प्रत्युच्छलनविधानेन सम्पाद्यते । शीघ्रमेव वामः पादोऽपि दक्षिणपादस्य निकटे दोलयित्वाऽऽयाति किञ्चात्यल्पाय कालाय द्वावपि पादौ समानौ भवतः । उभावपि हस्तौ यौ वंशस्य गर्ते स्थापनकाले ६० अंशोपरि वलितावभूतां पूर्णतया वलतः । शरीरं हस्ताभ्यां न दोलायतेऽपि तु स्कन्धाभ्यां दोलायते ।
स्फिचौ विकर्षणरहितौ भव्तस्तथा ते मध्ययष्टेर्निकटतो गच्छतः येन सन्तुलनस्यार्धव्यासो न्यूनो भवेत् तथा गतिवृर्द्धि यायात् । तदानीं जानुनी वक्षः प्रति वेगेनोत्याप्येते येन गतिरधिकं वर्धते । इदं दोलनं हस्तयोर्निकटे शरीरकर्षणात् पूर्वमेव समाप्यते परं दोलनस्य तथा हस्ताभ्यां शरीरविकर्षणामध्ये तारतम्यं यथावत् स्थिरं भवति ।
उपर्युत्थानम्
[सम्पादयतु]दोलनसमाप्त्यनन्तरं ययैव वंशः पृथ्व्यां लम्ब्तो भवति हस्तयोः शक्ति शालिना विकर्षणेनोपर्युत्यानमारभ्यते । शरीरमुपर्युत्थानमपि करोति तथाऽग्र ऊर्ध्वं दोलनमपि विधाय तिष्ठति । इयमुपर्युत्थानस्य क्रीया तावन्न विधीयते यावत् कबन्धः स्कन्धयो रेखायां नोपयाति । अस्याः क्रियायाः काले जङ्घे जानुनी च विकर्षणरहिता भवन्ति परन्तूल्लङ्घनयष्टेरुत्तरणात् पूर्वमेते सरला जायन्ते ।
शरीरस्य वलनं तथा पदयोः कर्तरीनिर्माणम्
[सम्पादयतु]वामः पादो यो जानोर्वलितो भवति, शक्त्या सरलो भवति तथाऽग्रतो निम्नतां प्रति दोलां जनयति । एतस्य परिणतिरुपेण वामा स्फिग् वलति वामपादस्य प्रक्षेपाद दक्षिणा स्फिगपि पुरतो नीचैरागच्छति । एवं समग्रोऽपि कबन्धो वलति तथा कूर्दकः पूर्णतया हस्तयोरुपरि स्थितो भवति । वंशोऽधुनापि लम्बित एव तिष्ठति येन शक्तिशाली प्रघात ऊर्ध्वभागं प्रति भवितुं शक्नोति ।
ऊर्ध्व प्रक्षेपणम्
[सम्पादयतु]उभयोर्हस्तयोः शक्तिपूर्वकं पूर्वरुपेण सरलीकरणं तथा कबन्धस्य कटयाश्च यष्रुटेपरितनभागाद् द्वितीयभागे नयनं सर्वथा सहैव चलतः । अस्मिन् विधौ यष्ट्युल्लङ्न्, वंशविसर्जनम्, भूमाववतरणक्रियाश्च क्रमशो भवन्ति । तद्विषयेऽपि सामान्यत इमे नियमाः पालनीयतामर्हन्ति -
यष्टयुल्लङ्घनम्
[सम्पादयतु]यथैव हस्ताभ्यामूर्ध्वगतये प्रघातो मिलेत् तदा वंशकूर्दकः स्वीयं कबन्धमुच्चैरुन्नयेत् । यदा पूर्णरुपेण हस्तोत्यानस्थितिरागच्छेत तदा पादौ कबन्धस्योर्ध्वभागान्नीचैर्नयेत् पादौ च हस्तयोर्ग्रहणस्य रेखायामध आनयेत् तदैव हस्तवुपरि गन्तुं प्रघातयतः । अनया रीत्या मध्ययष्टिकाया उल्लङ्घनए सौविध्यं भवति स्पर्शादयो दोषाश्च नागच्छन्ति ।
वंशविसर्जनम्
[सम्पादयतु]हस्ताभ्यां गृहीतस्य वंशस्य विसर्जनं क्रोडकेन द्वाभ्यां पद्धतिभ्यां क्रियते । यथा-
- (क) एकेन करेण त्यागस्तथा
- (ख) द्वाभ्यां कराभ्यां त्यागः ।
कूर्दको यदि वंशविसर्जनमेकेनैव ह्स्तेन अर्तुमीहेत् तदा वामहस्तेन पूर्वं विसृजेत् तथा दक्षिणहस्तेनान्तं यावद् शक्तिं योजयेत् । अन्ते सव्यहस्तोऽप्यूर्ध्वभागात् पृष्ठभागं प्रति दोलायितो भवेत् । द्वाभ्यामपि हस्ताभ्यां वंशत्यागविधौ हस्तेनान्तिमोच्छलन- समकालमेवोभावपि करौ वंशात् पृथक् कर्तव्यौ । बहवः कूर्दनकुशलाः स्वीयं शरीरं वामतो वर्तयन्ति तथाऽन्ये केचन भूमौ धावनमार्ग प्रति मुखं कुर्वन्ति ।
भूमाववतरणम्
[सम्पादयतु]वंशोत्प्लावको यदा वंशं हस्ताभ्यां पृथक् कुर्यात् तदा तस्य ध्यानं नीचैरागमनं प्रति भवेत् । तस्य समग्रमपि कूर्दनकर्म साधुरीत्या सम्पत्स्यते तदा स सारल्येन सुखेन च भूमाववतरीतुं प्रभविष्यति तथा शरीरस्य प्रसरादवतरणस्य गतिर्मन्दतां गमिष्यति ।
वंशकूर्दने विशिष्य ध्यातव्यानि
[सम्पादयतु]वंशग्रहणकाले धावनकाले च
[सम्पादयतु]कूर्दको वंशमधिकोन्नतस्थलान्न धारयेदन्यथा वंशेन सह लम्बवद्वेगसम्पादने स क्षमो न भविष्यति । वंशस्यातिनिम्नभागाद् ग्रहणेन यष्टिकोल्लङ्घने काठिन्यं भवति कठोरतया ग्रहणेन च धावने शरीरस्यापि कम्पनं जायते ।
धावनमार्गे
[सम्पादयतु]समुचितगत्यभावात् तथा परिक्षणचिह्नानामस्पष्टतया त्रुटयो भवन्ति ताः परिहरेत् ।
वंशस्य गर्ते निक्षेपकाले
[सम्पादयतु]स्वाद्देश्यं ज्ञात्वा लक्ष्यं च ध्यात्वा वंशं गर्ते निक्षिपेता तथा धावनेन सह तस्य साम्यमवधारयेत् ।
हस्तापसारणकाले
[सम्पादयतु]समुचितोप्त्लुतिप्राप्तये स्वाभिलपितपरिणतये च नियतसमयानुसारमपेक्षितानुपातेन हस्तमपसारयेत्
पादस्थापने समुत्प्लवनग्रहणे च
[सम्पादयतु]यथोचितरीत्या नाधिकं नन्यूनं न पृष्ठे न वाऽऽधिक्येनाग्रे पादं न्यसेत ।
ऊर्ध्वेत्थानकाले
[सम्पादयतु]सवेगमुत्यानम्, अपूर्णमुत्थानं, सन्तुलनरहितमुत्यानं शिथिलमुत्थानं च वर्जयेत् ।
उच्चैर्दोलनसमये
[सम्पादयतु]हस्तयोर्मांसपेशीनामनुचितं विकर्षाणं, सम्यक्त्वहीनमुत्थानं तथा वंशतो दूरे दोलनं न विदद्यात् ।
शरीरस्य वलनकाले
[सम्पादयतु]पदयोः कर्तरीबन्धनकाले च सन्तुलनपूर्वकं वामपादेन कर्तरीं विधाय दक्षिणं पादमुन्नमयेत् ।
उपर्युच्छलनग्रगणकाले
[सम्पादयतु]हस्त्योर्वलनमुच्छलनात् पूर्वं न कुर्यात् । शरीरोच्छालनापेक्षया स्कन्धयोरुच्छालनेन शक्तिं प्राप्नुयात् ।
इत्यमियं वंशकूर्दनकलासाम्प्रतिकेषु क्रीडाविनोदेषु महत्वं धारयन्तो प्राचीनान् प्रकारानप्यावर्जयति । अस्यां भूयांसो विकल्पा अपि यथा -समयमुत्पद्यन्ते परं तैरस्याः कलाया उत्कर्ष एव सिद्धयति । यतो हि -
विना धावनं कूर्दनं नैव लोके, भवेत् क्रीडनं साधु साफल्यदायि । अतः क्रीडकः साधयित्वाऽत्र् दाक्ष्यं, ततः सञ्चरेन्निर्भयं क्रीडनाय ॥
आधारः
[सम्पादयतु]अभिनवक्रीडातरङ्गिणी