दत्तोपन्त ठेङ्गड़ी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


दत्तोपन्त बापुराव ठेङ्गड़ी
स्वदेशी-आन्दोलनस्य प्रखरणेता,(जोधपुरे) दत्तोपन्तजीः।
जन्मदिनम् २० मार्गशीर्षपूर्वार्धम्, १९२०
जन्मस्थानम् आर्वी, महाराष्ट्रम्, भारतम्
मरणदिनम् १४ कार्त्तिकपूर्वार्धम्, २००४
मरणस्थानम् भारतम्
जन्मराज्यम् महाराष्ट्रम्
विचारधारा हिन्दुत्वम्
मतम् हिन्दुधर्मः
देशप्रेम की साकार अभिव्यक्ति है स्वदेशी।
अनुवादः देशप्रेम्णः साकाराभिव्यक्तिः स्वदेशी अस्ति।

दत्तोपन्त बापुराव ठेङ्गड़ी हिन्दुत्वनिष्ठः, श्रमिकसङ्घस्य विश्वमान्यनेता च आसीत्। सः स्वदेशीजागरणमञ्चस्य, भारतीयमजदूरसङ्घस्य, किसानसङ्घस्य च संस्थापकनेता आसीत्। तस्य जन्म कार्तिकमासकम्, १९२० दीपावल्याः शुभदिवसे अभवत्। सः महाराष्ट्रस्य वर्धाजिलायाः आर्वीग्रामे अजायत । श्री दत्तोपन्तवर्यः राष्ट्रीयस्वयंसेवकसङ्घस्य प्रचारकः आसीत् आजीवनम् । सः भारतस्य सामाजिक-आर्थिकजीवनयोः अभूतपूर्वप्रभावम् अजनयत्।

इतिहासः[सम्पादयतु]

राष्ट्र ऋषिस्वरूपाणां स्वनामधन्यानां परम श्रद्धेय दत्तोपन्तठेंगड़ामहोदयानां जन्म १०-११-१९२० तमेवर्षे दीपावली महोत्सवे महाराष्ट्रस्य वर्धाजनपदस्य आर्वी नामके ग्रामे सञ्जातम्।दत्तोपंतमहोदयानां पिताश्री बापूराव दाजीबा ठेंगड़ी तत्कालीन: सुप्रसिद्धोऽधिवक्ता आसीत्। माता श्रीमति जानकी देवी सघनाध्यात्मिकाभिरूचिसंवलिता ललिता करूणावरूणालया आसीत् । सा च निष्ठया मनोयोगेन च भगवतो दत्तात्रेयस्य भक्तिमार्गे साक्षात् स्फुरन्ती भक्तिरिवं दत्तचित्ता आसीत् ।

श्रद्धेय दत्तोपंतमहोदयानां एकादश (११)कक्षापर्यन्तं शिक्षा आर्वी म्युनिशिपल हाईस्कूल नामके विद्यालये सम्पन्ना ।

बाल्यात प्रभृतिरेव एतेषां मेधावित्वस्य प्रतिभापुञ्जस्य नेतृत्वक्षमतायाश्च सर्वत्र चर्चा प्रसृता आसीत् ।

पञ्चदशवर्षीयो(१५) सन्नपि भवान् आर्वी क्षेत्रस्थ ‘वानरसेनाया:’ अध्यक्ष: सञ्जात: । आगमिनि वर्षे ‘म्युनिसिपल हाईस्कूल ‘छात्रसंघस्य अध्यक्षरूपेण चित: ।

१९३६तमे वर्षे नागपुरस्य ‘मोरिस कोलेज’ नामके महाविद्यालये प्रवेशं प्राप्य स्नातकपदवीं प्राप्तवान् तदनन्तरं नागपुरस्य ‘लॉ कोलेजत:’ एल.एल.बी. इति विध्युपाधिं प्रापतवान् । मोरिस कोलेज नामके महाविद्यालयऽध्ययनसमये भवान् सन्१९३६ त:१९३८ पर्यन्तं ‘हिनदुस्तान सोशलिस्ट रिपब्लिकन एसोसियेशन’ नामकेन क्रान्तिकारि-संगठनेन सम्बद्धोऽभवत् ।

श्रद्धेयो दत्तोपन्तठेंगड़ी महोदय: बाल्यकालादेव संघशाखायां समायात: किन्तु नासीत पूर्वं नियमित: स्वयंसेवक: । एवं सत्यपि सहपाठिन: मुख्यशिक्षक: श्रीमोरोपन्तपिङ्गलमहोदयस्य सान्निध्ये दत्तोपन्तमहानुभावेन राष्ट्रीय स्वयंसेवक संघ शिक्षावर्गाणां तृतीयवर्षं यावत् शिक्षणक्रमं पूरितवान् । १९३६ त: नागपुरे अध्ययनार्थं निवसाद् माननीयमोरोपन्तमहोदयानां सान्निध्याच्च दत्तोपन्त: प्राप्तवान् । समृद्धं सौभाग्यं पूजनीयडाक्टरप्रवराणां परमपूजनीयानां आद्यसरसंघचालकानाञ्च दर्शनस्य श्रवणस्य च अनन्तरञ्चावाप्तं पूजनीयगुरूजीमहोदयानामगाधस्नेहाभिसिक्त सततं सन्मार्गदर्शन सौभाग्यम् ।

अक्तुबर मासस्य १४ दिनांके २००४ तमे वर्षे (अमावस्याम तिथौ) पुनानगरे श्रद्धेयो दत्तोपंत ठेंगड़ी महोदयो महानिर्वाणं लेभे ।

भारतीय ज्ञान विज्ञान संवलितं सर्वदा सर्वथा च राष्ट्रोन्नतिकारकं भवदीयं विचार दर्शनं सहस्रवर्षाणि यावदपि देशभक्तानां मार्गदर्शनं करिष्यति नात्र लेशमात्रपि संशयस्यावकाश: । भवल्लिखितानि प्राय:२०० पुस्तकरत्नानि सहस्रालेखाश्च पत्र पत्रिकासु प्रकाशितानि सन्ति । सत्ताधिकानि प्रतिवेदनानि प्रकाशितानि सन्ति ।

राष्ट्रीय स्वयंसेवक संघस्य प्रचारकः[सम्पादयतु]

२५-३-१९४२ दिनाङ्के संघप्रचारकस्य दायित्व स्वीकृत्य भवान् केरलप्रान्तेसंघविस्ताराय कालीकटं प्राप्तवान् । १९४२ त: १९४५ पर्यन्तं राष्ट्रीय स्वयंसेवकसंघस्य प्रचारक रूपेण यशस्विकार्यं जातं प्रपूर्य१९४५ त: १९४७ पर्यन्त कलकतानगरे संघ प्रचारकस्य दायित्वं सफलतया पूरितम ।

१९४८ त:१९४९ पर्यन्तं बंगाल – असम – प्रान्तयो: प्रचारकदायित्वं सम्पादितम् । समयेऽस्मिन् राष्ट्रीयपरिदृश्ये भारतविभाजनं पूज्यमहात्मागान्धिन:हत्ययोत्पन्नपरिस्थितिव्याघेन संघे आरोपित प्रतिबन्धविरूध:, देशभक्ते अन्यायकारि-प्रतिबन्धविरूद्ध देशव्यापी सत्याग्रह: सञ्जात: । अस्मिन्नेवान्तराले जूनमासे सर्वकारेण सह वार्तालापस्य घटनाक्रम: तीव्रतया संघटित: । श्रीवेंकटरामशास्त्रिण मध्यस्थतायां सर्वकारेण संघे समारोपितप्रतिबन्ध: प्रत्यावर्तित: ।

एतादृशीसंघर्षपूर्णे समये श्रद्धेयदत्तोपन्त ठेंगड़ी महोदयो बंगालप्रान्तादाइत: तथा ९-७-१०४९ दिनाङ्के अखिलभारतीय विद्यार्थी परिषद: स्थापनाया: औपचारिक घोषणा सञ्जाता दत्तोपन्त महोदयाय विद्यार्थीपरिषद: संस्थापकसदस्यरूपेण नागपुरविदर्भप्रदेशाध्यक्षरूपेण दायित्वं प्रदतम् । श्री दत्ता जी डिडोलकरमहोदयाय महामन्त्री दायित्वं तथा च श्री बबनरावपाठक महोदयाय सङ्गठनमन्त्रिदायित्वं प्रदतम् ।

सङ्घटनाः[सम्पादयतु]

सः भारतीयमजदूरसङ्घम्(१९५५), किसानसङ्घम्(१९७९), स्वदेशीजागरणमञ्चम्(१९९१), सामाजिक समरसता मञ्चं, पर्यावरण मञ्चं, अखिल भारतीय विद्यार्थिपरिषदं, अखिल भारतीय अधिवक्ता परिषदं, अखिल भारतीय ग्राहक पञ्चायतं भारतीय विचार केन्द्रञ्च समस्थापयत् ।

भारतीय मजदूर संघस्य संस्थापकः[सम्पादयतु]

१९४९ तमे वर्षे परम पूजनीयश्रीगुरूजी महोदयेन दत्तोपन्तमहोदय: श्रमिकक्षेत्रविषयाध्ययनार्थं प्रेरित: । इत्थं दत्तोपन्तस्य जीवने निश्चप्रचं नूतनाध्यायस्य प्रारम्भ इव सञ्जात: । इत्थं प्रतीयते यत् ‘श्रमिकान्दोलनं” दत्तोपन्तार्थमीश्वर प्रदत्तम् ।

विद्यार्थीपरिषदो जनजागरण कार्यक्रमेषु कांग्रेस-सम्बन्धितस्य “इण्डियन-नेशनलट्रेड यूनियन कांग्रेस (इंटक) इंटक प्रवेशं प्राप्तवान् । एतेषां प्रतिभाप्रकर्षेण संगठनकौशलेन च स्वल्पकाले एव इंटकसम्बद्धेर्नवसंख्याकसंगठनै: श्रद्धेय: ठेंगड़ी महोदय: निजपदाधिकारित्वेन स्वीकारित्वेन स्वीकृत: ।

१९५० तमे वर्षे अक्टूबर मासे श्री दत्तोपन्त महोदय: इंटकस्थ (संस्थाया:) राष्ट्रीयपरिषद: सदस्योऽभवत् एतेन सहैव मध्यप्रदेशीयइंटकसंगठनस्य प्रदेश मन्त्रित्वेन चित: । श्रद्धेय दत्तोपन्तमहोदयोऽवादीत् पूजनीय: गुरूजीमहोदयानामाग्रहोऽमासीत् यत् केवलम् इंटकस्य कार्यपद्धतिज्ञान न पर्याप्तम् कम्यूनिष्ट-सोशलिस्ट संगठनयो: कार्यपद्धतिज्ञानमपि परमावश्यकम् ।

श्रद्धेयो दत्तोपन्तमहोदयोऽस्यां दिशि प्रयत्नं प्रारब्धवान् । १९५२ त: १९५५ कालखण्डे श्री दत्तोपन्तमहोदय: कम्युनिष्ट प्रभावित आल इंण्डिया बैंक एम्पलाईज एसोशियेशन (ए.आई.बी.ई.ए.) नामकश्रमिकसंघस्य प्रान्तीय संगठनमंत्री सञ्जात: । १९५४ त: १९५५ तमे वर्षे आर.एम.एस. एम्पलाइज नामक पोस्टल मजदूर संगठनस्य केंद्रीयवृतस्य (सेन्ट्रल सर्किल) अद्येतनीय (मध्यप्रदेश – विदर्भ – राजस्थान प्रदेशानाम्) अध्यक्षोऽभवत । अस्मिन्नेव कालखण्डे १९४९ त: १९५१ पर्यन्तं श्री ठेंगड़ीमहोदय: कम्युनिज्माध्ययनं गहनतयाऽकरोत् । कम्युनिज्मतत्त्वज्ञान कार्यपद्धति विषये रात्रोस: पूज्य श्री गुरुवर्यै:(श्री गुरूजी) सहानेकहोरापर्यन्तं विस्तृतरूपेण परिचर्चाम् व्यधात् ।

लोकमान्यतिलक महोदयानाम् शताब्दी जयन्तिप्रसङ्गे देशस्य विभिन्न प्रान्तात समागतानां पञ्चत्रिशत् (३५) प्रतिनिधिनाम् उपस्थितौ २३ दिनाङ्के जुलाईमासे १९५५ तमे वर्षे भोपालनगरे भारतीयमजदूरसंघस्य एकम अखिलभारतीयकामगारसंगठनरूपेण स्थापनाऽभवत् ।

सनातनधर्मस्य वैचारिकाधिष्ठानेन अलौकिकसंगठनकौशलेन परिश्रमपराकाष्ठया अचलध्येयनिष्ठया विजयिता विश्वासेन तथा च पूज्यश्रीगुरूजीमहोदयानामनवरतं सन्मार्ग दर्शनबलेन श्रद्धेय: दत्तोपंतमहोदय: केवलं दशकत्रये तत्कालीनं कांग्रेस सम्बद्धम् मजदूर संगठनम् ‘इण्डियन नेशनल ट्रेड यूनियन कांग्रेस पश्चात कृतवान् ।

ख्रष्टाब्दे भारतीय मजदूर संघस्य सदस्यानाम् संख्या एकत्रिशतम लक्षपरिमितासीत् । एषा संख्या कम्युनिष्ट दलसम्बद्धयो: एटक तथा सीटू इत्येतयो: संकलितसंख्यातौऽधिका आसीत् । सन् २००० तमे वर्षे भारतीय मजदूरसंघस्य सदस्यता एकाशीति लक्षपरिमिता सञ्जाता ।एतेन भारतीयमजदूरसंघ: भारतवर्षस्य विशालतम: श्रमसंगठनम् सञ्जातम् । देशस्यान्यान्येन केन्द्रीयश्रमसंगठनेन सदस्यतासंख्यातोऽधिकम सदस्यसंख्या ।

हिन्दूजीवन मूल्याधारे प्रकृत्या राजनीतिरहितं वैचारिकदृष्टया प्रखर राष्ट्रवादनिरतं स्वायतं स्वयंशासि भारतीय मजदूर नामकं संगठनं स्थापितं भारतीयवसुन्धरायाम् ।

पूज्य श्री गुरूजी महोदय: प्रोकत्वान १.११.१९७२ तमे वर्षे ठाणे क्षेत्र गोष्ठयाम् “यदा राष्ट्रीय स्वयंसेवक संघस्य कार्यकर्त्तृभि: चिंतितं यत मजदूरसंघक्षेत्रे भारतीयमजदूरसंघ स्वतंत्ररूपेण कार्य करोतु तथा वे संगठनमिदम् दत्तोपंत: करोतु,तदिदं कार्यं दत्तोपन्ताय प्रदत्तम् । स खलु महता परिश्रमेण स्वकीयकार्यकर्त्तृसहानुभूत्या यत्किञ्चित् साहाय्येनापि एकाकिना दत्तोपंत: विशालकार्यजातं सम्पादितवान । आंग्लभाषायां एतादृक् कार्यसम्पादनं ‘सिंगल हैंडिड’ इत्युच्यते । अधुना भारतीयमजदूरसंघस्य समवेतस्वर: सर्वत्र गुञ्जति । श्रमिकक्षेत्रसंघोऽयं विशिष्ट शक्तिपेण विराजते । सततं प्रवर्धमानो दृश्यते चाश्य प्रभावप्रसर: । सम्प्रति स्थितिरयं दृश्यते यत् श्रमिकक्षेत्रसन्दर्भे ये अन्यान्य संगठनवर्गा: सन्ति तत्र प्राभाविक विचार प्रदायकानां विशिष्ट नेतृजनानामभाव: परिलक्ष्यते । केवलं ते आंदोलनं विधाय वृथा कोलाहलं कृत्वा लोकप्रियतायै प्रयत्नरता: सन्ति । श्रमिकक्षेत्रार्थं आधारभूतानां सुदृढानां सुयोग्यविचाराणा प्रदायिकाशक्तिस्तु साम्प्रत ‘भारतीयमजदूरसंघे’ वयमाधिकमात्रायां पश्याम: ।

पूज्य श्रीगुरूजी-दत्तोपंतयो: सम्बन्धा:कीदृशा: आसत् ? इति सम्यगरूपेण विज्ञातुमहं माननीयनां पी. परमेश्वरन् महोदयानां साहित्यकभाषाया उपयोगं कुर्त्तुम इच्छामि । श्रीपरमेश्वरमहोदयो लिखति यत –“ श्री दत्तोपंतठेगड़ी, तेषु अङ्गलिगणितेषु विशिष्टजनेषु आसत् ये परमपूज्यगुरूजी महोदयानां मनोरचना विज्ञातुं समर्था: आसत् । मन्ये परम पूज्यश्रीगुरूजीमहोदय: सनातनधर्मस्य हिमालयात् नि:सरन्ति गंगोत्री वा सन् तदा दत्तोपंत: तस्या:पावनजलेऽवगाहनस्य पवित्रावसरं प्राप्तवान् ।

भारतीयमजदूरसंघस्य स्थापनाया: कालखण्डेऽपि श्रद्धेय: दत्तोपंतमहोदय: राष्ट्रीयस्वयंसेवकसंघक्षेत्रस्य अनेकानां समानान्तरदायित्वाना सहैव निर्वहनमकरोत् । अस्मिनेव काल खण्डे १९४५ तमे वर्षे अखिलभारतीयविद्यार्थीपरिषदस्य संस्थापकसदस्य: हिन्दुस्थानसमाचारस्य संगठनमन्त्री(१९५१ त:१९५३ पर्यन्तम्) भारतीयजनसंघस्य मध्यप्रदेशे संगठनमंत्री (१९५६ त: १९५७ पर्यन्तम्) तथा च दक्षिणाञ्वलेऽपि भारतीयजनसंघस्य संगठनमंत्री सञ्जात: । दत्तोपंतमहोदयानां व्यक्तित्वं चित्रयन् भानुप्रतापशुक्लो लिखति-आवास-भोजनपरिवेषादौ सरलता,अध्ययने व्यापकता,चिन्तनेगहनताया: सातत्यम् कार्यसफलताया: सुदृढोविश्वासश्च श्री ठेंगड़ीमहोदया: व्यक्तित्वं रूपायितुं कुर्वन्ति ।

भारतीय किसान संघस्य संस्थापकः[सम्पादयतु]

महापुरूषाणां संकल्पा: सदैव भवन्ति सत्संकल्परूपा: निश्चप्रचत्वेन भगवान् पूरयति तान् । सनातन हिन्दुधर्माधिष्ठाने पूर्णतो राजनितिविहिनं प्रकटराष्ट्रवादात प्रेरितं सर्वोत्कृष्टं विशालतमं सक्षमं जनसङ्गठनं प्रतिष्ठितम भवत् । सामुहिक चर्चाया: सामुहिक निर्णयस्य सामुहिकनिर्णस्य सामुहिकनेतृत्वस्य सिद्धान्तस्य व्यवहारस्य च सफलतया स्थापना सञ्जाता । अद्य भारतीय किसान संघ: कृषकाणां राष्ट्रहितानां सबल: जागृतिमय: प्रहरीव समेषां दृष्टिपथमायाति ।

सामाजिक समरसता मंचस्य संस्थापकः[सम्पादयतु]

बाबासाहब अम्बेडकर जन्मशताब्दी प्रसङ्गे पुनानगरे अप्रेलमासस्य चतुर्दश (१४) दिनाङ्के१९८३ तमे ख्रीताब्दे सामाजिक समरसतामञ्चस्य स्थापनाऽभवत् । अत्र सुखदोऽयम संयोगो यत्रस्मिनेव दिवसे परमपूज्य डाक्टरमहोदयस्य जन्मदिनं वर्षप्रतिपदारूपेणासीत् । सामाजिकसमरसतां विना सामाजिकसमता असम्भवास्ति । अस्य ध्येयवाक्यस्योद् घोषं विधाय, श्रद्धेय दत्तोपन्तमहोदया: हिन्दूसमाजस्य अत्यन्त पीडादायकव्याधेरूपचार मार्गं प्रशस्तवान् ।श्रद्धेय ठेंगड़ी महोदया: अम्बेडकर महोदयस्य सान्निध्यं निकटत: प्राप्पनुवन्त:। पूज्य बाबा साहबमहोदस्य हार्दिकपीडायां ज्ञातुं महानवसरं प्राप्तमभवत् । सर्व समावेशसमृद्धस्य सनातनहिन्दुधर्मस्याऽधिष्ठाने हिन्दुसमाजस्यैकात्मकताया महत कार्यं सम्पादयितुं सामाजिक समरसतामञ्चमाध्येन प्रारब्धम् मार्गदर्शनम् । अस्यामेव श्रंखलायाम १६ अप्रेलमासस्य १९९१ तमे वर्षे सर्वपन्थ समादर मञ्चस्य स्थापनाम करोत् ।

स्वदेशी जागरण मंचस्य संस्थापकः[सम्पादयतु]

१९८० तमे वर्षे श्रद्धेय: दत्तोपन्त ठेंगड़ी महोदय:आङ्गलदेशानां साम्राज्यवादिभि: षडयंत्रै: सचेतं कृतवान् राष्ट्रम् । स्वकीय सार्वजनिकभाषणानां कार्यकर्तृगोष्ठीनां अर्थशास्त्रज्ञगोष्ठीनां व्यक्तिगत: परिचर्चानां विविधै: प्रसङ्गै: स्पष्टरूपेण सङ्केतितवान्। आसन्नराष्ट्रसंकटसम्भावनाम् ।

श्री ठेंगड़ीमहोदय:सावधानं कृतवान् यत् विश्वमुद्रागार(विश्वबैंक)अन्तराष्ट्रीय मुद्रा कोष – बहुराष्ट्रीयकम्पनीश्च पश्चिमाङ्गलदेशवासिनां नूतना: शोषणोपाया: सन्ति तेषामुपयोगेन साम दाम दण्ड भेदानामुपयोगं विधाय विकसनशील देशानामविकसितानां च देशानां शोषणं कुर्वन्ति ।

जनरल एग्रीमेन्टआन टेरिफ एन्ड ट्रेड (गेट) इत्यस्य स्थापना जनवरी मासस्य प्रथम दिनांके १९४८ तमे ख्रीस्टाब्दे विहिता । तत्रेक एव विषय आसीद्वस्तुनामन्ताराष्ट्रीय व्यापार: । १९८६ तमे ख्रीस्ताब्दे संजातवार्तायां कुख्यातानां डंकेलप्रस्तावानां विवरणं समक्षे समागतम् । एतावत कालपर्यन्तं केवलं सीमाशुल्कं न्यूनीकर्तृमेव वार्तालाप आसीत् किन्तु १९८६ तमे ख्रीस्टाब्दे आर्थर डंकेल गेट इत्यस्य सीमावर्धनं कुर्वन् वस्तुनां व्यापारेण सह सेवानां व्यापारमपि प्रस्तावरूपेण सम्मेलितं प्रस्तावितवान् । तत्र नूतन विषय त्र्यमुत्पीटे समागतम् ।

  1. बौधिक सम्पदाधिकाराणां व्यापार:
  2. निवेशसम्बन्धिनामुपक्रमाणां व्यापार:
  3. कृषि:

डंकेलप्रस्तावानां व्यापकमध्ययनानन्तरं श्रद्धेयदत्तोपंतो देशं प्रत्यबोधयत् डंकेल प्रताव:पारतन्पत्रावलिखे । सोऽकथयत् यद् भारतसर्वकार: डंकेलप्रस्तावं न स्वीकुर्यात् । यतोहि डंकेल प्रस्ताव: आर्थिकसाम्राज्यवादमानेतुं प्रयतते । अनेन राष्ट्रस्य सम्प्रभुता सङ्कटाकीर्णा स्यात् । स केवलं सर्वकारमेव न प्रत्यबोधयदपितु डंकेल प्रस्तावविरोधे व्यापकजनान्दोलनार्थं जनजागरणं कृत्वा राष्ट्रव्यापि आन्दोलनस्याह्वानं कृतवान् । स एवं स्वतन्त्रताया द्वितीयं संग्राममथयत् । द्वितीयमिमं स्वतंत्रतासंग्रामम् सञ्चालयितुं नवम्बर मासस्य २२ दिनाङ्के १९९१ तमे ख्रीष्टाब्दे नागपुरे स्वदेशी जागरण मञ्चस्य स्थापनामकरोत । तत्र गोष्ठयाम् अखिलभारतीयनां पञ्चसंस्थानां प्रमुखपदाधिकारिण उपस्थिता: आसन् ।तेषु अखिलभारतीय विद्यार्थी परिषद् भारतीय किसान संघ: तथा भारतीय मजदूरसंघादय: समवेता आसन् । नागपुर गोष्ठयां स्वदेशी जागरण मञ्चस्य संयोजकत्वेन डा मा.गो बोकरे दायित्वस्य निरवहणं कृतवान् । डा बोकरे नागपुरविश्वविद्यालयस्योपकुलपतिस्तथा च तत्कालीनोऽर्थशास्त्री आसीत् । पूर्वं स वज्रमार्क्सवादी साम्यवादी विचारक: आसीत किन्तु कालान्तरेण तस्य विचार परिवर्तनमभवत् । स विख्यात पुस्तकं ‘हिन्दु अर्थशास्त्रम’ नाम्ना लिखितवान् । अनेन सार्धमेव मा.मदनदासो राष्ट्रीयो सह-संयोजक: सञ्जात:। स्वदेशीजागरणमञ्चस्य भारतीयमजदूरसंघस्य भारतीयकृषकसंघस्य तथा चानेनदेशभक्तिभावितसंगठनानां सत्यपि विश्ववयापारसंगठनाग्रह: स्वीकृत: ।

श्रद्धेय दत्तोपन्तमहोदयेन जनजागरणार्थं स्वदेशीजागरणमञ्चेन साथाने स्थाने आन्दोलनप्रदर्शनं कृतम् । सभा संगोष्ठी संघर्षयात्राभि: देशे जनजागरणाभियानं कृतम् । अनेकदेशभक्त संगठनै: स्वप्रकारेण शोधात्मकाध्यनानि,समाचारपत्रेषु डा. बी.के. केला महोदयोऽग्रपंक्तौ आसीत् , य: खलु पेटेंटविषयक विधिनियमानां दुष्परिणामस्य व्यापकमध्ययनं प्रस्तुतवान् । श्रद्धेय दत्तोपन्त ठेंगड़ीमहोदयानां स्पष्टरूपेण कालविजयी मार्गदर्शनेन स्वदेशीयान्दोलनं स्वल्पे समये चैव राष्ट्रव्यापकमान्दोलनरूपं प्राप्तम् । विश्वव्यापार संघस्य द्विवार्षिक मंत्रीस्तरीयसङ्गोष्ठीषु स्वकीय प्रभावात् जनजागरणामञ्चेन सफलताऽवापता । प्रथमा सफलता तावत ‘सियेटले’ प्राप्ता । सियेटले आयोजितायां विश्ववयापारसंगठनस्य मंत्रीस्तरीयवार्तायां भारतस्य वाणिज्यमंतरी श्रीमंत मुरोसली मारन महोदया: साहस पूर्वकंभारतीयजनताया: पक्षं विधिवत् स्थापितवान् स स्वदेशीजागरणमंचस्य लोकप्रिये वाक्ये सुस्थिरासीद् –‘नो न्यु निगोशियेशन , बट रीनिगोशियेशन ‘ परिणामत: वार्ताऽग्रेनासरत् । सर्वेदेशभक्तार: तस्य महोदयस्य प्रशंसां कृतवंत: । अग्रीमा विश्ववयापारसंघस्य मंत्रीस्तरीया ‘दोहा’ मध्ये समायोजिता । तत्राऽपि किमपि साफ्लयं न जातम् । तदनन्तरं कानकुन वार्तात: पूरवमेव देशे सर्वत्र विश्ववयापारसंगठन इत्यस्य विरोधे व्यापकं प्रदर्शनमभूत् । देहल्यामेकलक्षजना:विशालम प्रदर्शनं कृतवन्त: ।अस्य प्रभावसर्वकारोपरि सञ्जात् । अत: कानकुन सम्मेलने भारतस्य वाणिज्य मंत्री श्रीअरूण जेतलीमहोदयेन भारतस्य पक्षं व्यापक दृशा संस्थापितवान् तत्र सम्मेलने ‘अफ्रीका- कैरेबियन देशेरपि भारतीय पक्षे सहयोग:कृत: । इत्थं कानकुन सम्मेलनं असफलं सञ्जातम् ।

श्रद्धेयदत्तोपन्त महोदयो विश्वव्यापारसंगठनप्रस्ताव सन्दर्भे स्पस्टं मार्गदर्शनं प्रदत्तवान ‘वर्ल्ड ट्रेड ओर्गेनाइझेशन इज ए मिसनोमर, इट इज ए वेस्टर्न वर्ल्ड ट्रेड ओर्गेनाइझेशन’ एतावदेव कथनेन सर्व: खलुविषयोऽवगतो भवति स्म । विश्ववयापारसंगठन विरोधे स समुद् घोषं कृतवान ‘ त्रोट्यताम् त्याज्यताम् मोट्यतां वा। वस्तुत: स्वदेशीयान्दोलनमाध्यमेन श्रद्धेय दत्तोपन्त महोदय: वैश्विकान्दोलनसन्दर्भे सफलं नेतृत्वमकरोत् ।

सम्पूर्ण जीवने स सनातनहिन्दू विचाराणां प्रासङ्गितां स्थापयितुं महतकार्यं सम्पादितवान् । १९४८ त: ४९ समये यदासाम्यवादस्य सर्वत्र विश्वपटले प्रभाव आसीत तदा स परमपूज्यगुरूदेवस्य मार्गदर्शनेन श्रमिकक्षेत्रे भारतीयमजदूरसंघ: संस्थाप्य, सनातन हिन्दुदर्शनाधारेण देशस्य विशालतमं श्रमिकसंगठनं साम्यवादिजनान् तेषामेव क्षेत्रे परास्तान् कृतवान् । साम्यवादपूंजीवाद् विचारान् भौतिकवादस्य दर्शन कथयित्वा स हिन्दूविचारदर्शनाधारेण तृतीय: पन्था प्रवर्तितवान् । हिन्दू जीवनस्य मूल्याधारे विश्वव्यवस्थाया: प्रवर्त्तने भारते पाश्चात्यलोकतंत्रप्रणाल्या अनेकेषा: महापुरूषाणां यथा लोकमान्यतिलक – महात्मा गान्धी – श्री चक्रवर्ती राजगोपालचारी – श्री मानवेन्द्रनाथराय – पूज्य श्री गुरूजी – पण्डित दीनदयालदृशानां विचारदर्शनां विचार दर्शनं प्रस्थाप्य पाश्चात्यलोकतंत्र प्रणाली भारतीयजनजीवनार्थमनुपयुक्तां प्रत्यपाद्यत् । दत्तोपंतमहोदयो भारतीयपरम्पराया: मण्डन कुर्वन् । कथयति स्म यद्- यदि देशभक्ति प्रेरितानि स्वायत्त स्वयं शासितजनसंगठनानि राजसत्ताया उपरि धर्मदण्ड इव सफलतां भूमिकां निवर्क्ष्यन्ति तदैव राजसत्ता राजधर्मस्य विधिवत् पालनं करिष्यति ।

स १९९५ तमे ख्रीटाब्दे डंकेल प्रस्तावसन्दर्भे तदन्तरं निर्मिते विश्वव्यापारसंगठनविषये राष्ट्रोपरि समागतासन्नार्थिक साम्राज्यवादे वैदेशिकपारतंत्रसंदर्भे स प्राचीनभारतीयार्थव्यवस्थासूत्राणां श्रेष्ठतां स्थापयितुं व्यापकजनान्दोलनेन नूतनसूत्रपात्मकरोत् । स्पष्टमुदघोषणामकरोत् देशभक्तै: साकाराभिव्यक्तिरस्ति स्वदेशीसूत्रम्।

स १९९५ तमे ख्रीष्टाब्दे महतिमावश्यकतां प्रासङ्गिकतां पर्यालोच्य भोपालनगरे पर्यावरणमञ्चस्य स्थापनामकरोत् । साम्प्रतमेतद् बी.एम.एस. इत्येस्यान्तर्गतं कार्यरतमस्ति । परमपूज्य श्रीगुरूजी – पंडित दीनदयालोपाध्यायपरम्परायां श्रद्धेय दत्तोपंत महोदय सनातनधर्माधिष्ठाने राष्ट्रवादिविचारान् सुपरिभाषितान् विधाय महतकार्यं सम्पादितवान् । समकालीनविभाजनकारिराजनीति संशोधक – वैकल्पिक राजनितिप्रक्रियां वैचारिक – व्यवहारिक आधारे प्रतिष्ठाप्य महत् कार्यकलापमकरोत् । श्रद्धेय: ठेंगड़ी महोदयो भारतीय मजदूर संघ – भारतीय किसान संघ – स्वदेशीजागरणमञ्चादीनां राष्ट्रवादीसंगठनानां निर्माणं केवलं परिवर्तनवाहकरूपे नैवापितु संगठनप्रहरीरूपे कृतवान् ।आधुनिक राजनीतिसंशोधकत्वेन प्राचीनभारतीयवैचारिकाधारेण सशक्ताभिव्यक्तिरूपेण चैतानि संगठनप्रहरीरूपे कृतवान आधुनिक राजनीतिसंशोधकत्वेन प्राचीन भारतीयवैचारिकादारेण सशक्ताभिव्यक्तिरूपेण चैतानि संगठनानि प्रतिपदं कार्यं सम्पादयितुं प्रयतन्ते। कृतज्ञ देश: श्रद्धेयं दत्तोपंतठेंगड़ी महोदयं राष्ट्रऋषिं इति नाम्ना प्रोचिवान् ।

संसदि[सम्पादयतु]

सः द्विवारं राज्यसभायाः सदस्यः(१९६४-७६) आसीत्। सः राज्यसभायाः उपाध्यक्षः(१९६८-७०) अपि आसीत्।

१९६४ त:१९७६ पर्यन्तमेते उत्तरप्रदेशतो राज्यसभार्थं चिता: । राज्यसभां गन्तुं निर्णयावसरे दत्तोपन्त:प्रोवाच-“यन्मया परमपूज्यगुरूजीमहोदय: पृष्ट: किमर्थं राज्यसभायां प्रेष्यतेऽतयं जन: ? श्री गुरुजी महोदयेन विनोदभावेनोतरित्तम् गम्यताम् दीयतां भाषणं क्रियतां विश्राम: एतावता बहुधा परिश्रम: कृत । क्षणान्तरे गंभीरस्वरेण श्री गुरूणा प्रोक्तम-एकमन्यत् कार्यमपि भवितुमर्हति राज्यसभायामनेकदलानाम् अनेकविचाधारापारङ्गता: वरिष्ठा: जना आगछन्ति । तै: सह व्यक्तिगत चर्चायां व्यक्तिगतसम्बन्धस्य मित्रतास्थापनावसर: अपि विद्यते । य: खलु अग्रे गत्वा निजकार्योपयोगी भवितमर्हति ।

परमपूज्यश्रीगुरूजी महोदयौ: कियन्त: अग्रे सोचिन: दूरदर्शिन: आसन् । एषा वार्ता आपातकाल विरोधर्थं संचालिते देशव्यापके चान्दोलनसमये सार्थकतां प्रपेदे । राज्य सभाया: कार्यकाले दत्तोपन्त महोदया: सकलै: प्रमुखै: राजनैतिकनायकै: सम्पर्कं कृतवन्त: । समाजवादित: साम्यवादिपर्यन्तं सहज- सरल सम्बन्धत्वाद दत्तोपन्त: सर्वत्र विश्वासं सम्पादितवान । १९६४ त: १०७६ पर्यन्तं राज्यसभासदस्यो भुत्वा राज्यसभाया अनेकमहत्वपुर्णदायित्वानां निर्वहनम् अकरोत ।१९६८ त: ७० पर्यन्तं भवान् राज्य सभाया: उपाध्यक्षमण्डलस्य माननीय: सदस्योऽभवत ।१९६५ त: ६६पर्यन्तं हाउस कमेटी सदस्योऽजायत् । १९६८ त: ७० पर्यन्तं सार्वजनिकोद्योगसमिते: सदस्यो जात: ।

१९६८ तमे ख्रष्टाब्दे लोकसभाध्यक्षस्य श्री नीलमरेडीसंजीवमहोदयस्य अध्यक्षतायां तथा राज्य सभाया: सेक्रेट्री जनरल श्री बी के बनर्जी महोदयस्य मन्त्रीत्व भारतीय शिष्टमण्डलस्य सोवियत रूसदेशंगन्तुं कार्यक्रम: सुनिश्चितोऽभवत् । तस्मिन समये श्री वी.वी.गिरी: राष्ट्रपति: आसीत श्रीवी.वी.गिरीणा संसदीयप्रतिनिधीमण्डले श्रद्धेय दत्तोपन्तमहोदयस्य नाम प्रस्तावितम् । श्री वी.वी.गिरी महोदय:, य: खलुस्वयं श्रमिकक्षेत्रे सम्बन्ध: आसीत् । तस्याभीप्सा आसीद् यत् सोवियतरूसदेशे औद्योगिकसम्बन्धानां किं रूपमिति सफलताविज्ञातुम् ? एतस्य महानतया निरपेक्षभावेन अध्ययनं कृत्वा सम्यग्-रूपेण अवगति: सम्प्राप्ता भवेत् यतोहि कतिपय समयान्तरमेव राश्ट्रपते: श्री वी.वी.गिरे: रूसगमनमं प्रस्तवितमासीत् ।

शोडषदिवसानां सोवियतरूसयात्रायां तेनसार्धं कम्युनिष्टदलस्य वरिष्ठनेता श्री हीरेन मुखर्जी तथा च फारवर्ड ब्लाक दलस्य श्री शीलभद्रयाजी प्रमुख आसीत् । अनेन प्रतिनिधिमण्डलेन सह १६ दिवसान् यावत् सोवियतरूस-हंगरीदेशयोर्यात्रा कृता ।

रूस यात्रा, श्रद्धेय दत्तोपन्तार्थं साम्यवादस्य वास्तविक स्वरूपस्य सूक्ष्मतया सघनाध्ययनस्यापूर्वोऽवसर रूपेण सम्वृता ।

साम्यवादिविचारधाराया: तिलयिञ्जत्वं सारहीनत्वम् अन्तर्विरोधानाञ्च प्रत्यक्षानुभवं विधाय श्रद्धेयोदत्तोपन्तमहोदय: पूर्णात्मविश्वासपूर्वकं भारत राष्ट्रं प्रति प्रोवाच “ साम्यवाद: स्वकीयन्तर्विरोधै: स्वतएव समाप्तिं प्रापतुकाम:, साम्यवादं समापयितुं प्रयत्नान्तरस्य अपेक्षा नास्ति । तस्मिन समये विश्वयार्धभाग: ललितध्वजैराच्छादित: आसीत् ।

कोऽपि विचारक: श्रद्धेय दत्तोपन्तमहोदयानां साम्यवादविषयकमिमं विचारं विश्वसितुं किं चिन्तयितुमपि प्रभव: नास्ति । अद्य परिणामो: प्रत्यक्षा: सन्ति । येन सटीक विश्लेषकानां दत्तोपन्तमहोदयानां दूरंदेशविचार विश्लेषणसामर्थ्यं स्वतेव स्फुटिभवति । साम्यवादस्य परिणाम: सर्वेषा: पुरतो विलसति ।

३एप्रिलत: १९ एप्रिल पर्यन्त १९८५ तमे ख्रब्दे ‘आल चायना फेडरेशन आफ ट्रेड यूनियन’ निमंत्रणे श्रद्धेय दत्तोपन्तठेंगड़ी महोदस्य नेतृत्वे भारतीयमजदूरसंघस्य प्रतिनिधिमण्डल: चीनयात्राम् अकरोत । अस्मिन् प्रतिनिधिमण्डले श्री मनहरभाई महता श्री रामबिहारी मैत्र: श्री वेनुगोपालन: तथा च श्री ओमप्रकाश: अघ्घी सम्मलिता: आसन् । सप्तदश दिवसीय चीनयात्राकाले दत्तोपन्तमहोदय: चीनस्य सामाजिकजीवनस्य श्रमिकसंघनां राष्ट्रव्यवस्थायाश्च अत्यन्तसूक्ष्मरीत्या सम्यग् अनुशीलनंकृतवान । यात्रा समये चीनराष्ट्रस्य श्रमिकनेतृभि: प्रशासनिकाधिकारिभि: तथा च कम्युनिष्टदलनेतृभिश्च विस्तारपूर्वकं शोषित पीडितासङ्गठित जनसमुदाये चास्मविश्वासजागृतिं कुर्वन् सोऽवदद् यत प्रत्येक: कृकोऽस्माकम् नेता अस्ति । वयं देशस्य भण्डारान् पूरयिष्याम: किन्तु मूल्यमपि पूर्णरूपेण ग्रहीष्याम: ।

भाषणम्[सम्पादयतु]

चलचित्रम्[सम्पादयतु]

  1. पूज्यः दत्तोपन्त ठेङ्गड़ीः, स्वदेशीजागनणमंचस्य, षष्ठं राष्ट्रीयाधिवेशनम्, कड़ीं, गुजरातम्- भागः- १
  2. पूज्यः दत्तोपन्त ठेङ्गड़ीः, स्वदेशीजागनणमंचस्य, षष्ठं राष्ट्रीयाधिवेशनम्, कड़ीं, गुजरातम्- भागः-२

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. दत्तोपन्तवर्यस्य पुस्तकानां सूची
  2. दत्तोपन्तवर्यस्य संघपरिवारस्य पृष्ठः
  3. स्वदेशीजागरणमंचम्
  4. किसानसङ्घम्
  5. भारतीयमजदूरसङ्घम्
  6. De Facto Official Website- Dattopant Thengadi
  7. Shri S.Gurumurthy
"https://sa.wikipedia.org/w/index.php?title=दत्तोपन्त_ठेङ्गड़ी&oldid=480453" इत्यस्माद् प्रतिप्राप्तम्