दादाजी कोण्डदेवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दादाजी कोण्डदेवः शिवाजीमहाराजस्य मन्त्री, गुरुश्च । एषः अतीव न्यायनिष्ठः ।स्वविषये अतीव कठोरः । इतरेषां विषये अतीव मृदुत्वेन व्यवहरति स्म । एकस्मिन् दिने कोण्डदेवः राजोद्यानं गतवान् । सर्वम् उद्यानं फलपुष्पभरितम् आसीत् । स्वराज्यं उद्दिश्य चिन्तयन् कोण्डदेवः अजानन् एव एकं फलं स्वीकृतवान् । तत् फलं खादितुं आरब्धवान् । तत्क्षणे एव तस्य विवेकः जागरित:। सः अचिन्तयत् " अहं किं कृतवान् ?" इति । अनुमतिं विना राजोद्यानस्य फलम् अहं खादितवान् । अतः अहं शिक्षार्हः अस्मि इति भावितवान् । झटिति स: (अनुपदमेव) राजसभां गतवान् । राजसभायां राजा तथा सर्वे मन्त्रिणः च आसन् । तत्र कोण्डदेवः पृष्टवान् " राजन् कश्चित् अनुमतिं विना राजसम्पदः उपयोगं करोति चेत् द्ण्डनं किम् ?" इति । 'तस्य हस्तच्छेदनं करणीयम्' इति कश्चित् उक्तवान् । तस्य शिरच्छेदनं करणीयमिति अपर: उक्तवान् । अन्ते राजा "हस्तच्छेदनम् एव उचितः द्ण्डः" इति प्रकटितवान् । 'तर्हि मम दक्षिणहस्तच्छेदनं कुर्वन्तु' इति अवदत् सः ।

राजा किमर्थं इति पृष्टवान् । 'भवत: अनुमतिं विनाऽहं राजोद्याने स्थितं फलं खादितवान्' इति स सर्वं वृत्तमकथयत् । ततः राजा सर्वं तं वृत्तान्तं श्रुत्वा एवम् अवोचत् ।'भवान् अजानन् अपराधं कृतवान् किल । तदर्थं दण्डः मास्तु इति । कोण्डदेवः न अङ्गीकृतवान् । सः एवम् उक्तवान् -" अपराधी अपराधी एव । दण्डः अवश्यं दातव्यः " इति। तथापि राजा दण्डः मास्तु इति पुनः उक्तवान् । अन्ते कोण्डदेवः "तर्हि अहमेव आत्मानं दण्डयामि" इत्युवाच । अद्य आरभ्य 'अहं मम दक्षिणहस्तस्य उपयोगं न करोमि' इति प्रतिज्ञां कृतवान् । आजीवनं सः तथैव आचरितवान् । अहो ! दादाजी कोण्डदेवस्य सत्यनिष्टा एतादृशानां पुरुषाणां सहकारेणैव शिवप्रभुः हिन्दूसाम्राज्यसंस्थापनं कृतवान् ।

अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।
मृत्युमापद्यते मोहात् सत्येनापद्यतेऽमृतम् ॥
महाभारतम्

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दादाजी_कोण्डदेवः&oldid=409314" इत्यस्माद् प्रतिप्राप्तम्