दादाभाई नवरोजि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गौरवान्वितः
दादाभाई नवरोजि
Preceded by फ्रेड्रिक् थोमस् पेण्टन्
Succeeded by विलियमं फ्रेड्रिक् बार्टन् मास्से-मैन्वारिंग्
व्यैय्यक्तिकसूचना
Born ४ नवेम्बर् १८२६
मुम्बई, आङ्ग्लभारतम्
Died ३० जून् १९१७ (आयुः ९१)
वर्सोवा(मुम्बई), आङ्ग्लभारतम्
Spouse(s) गुल्बाई
Residence लन्डन्, इङ्ग्लेण्डदेशः

दादाभाई नवरोजिवर्यः(Dadabhai Naoroji) महाराष्ट्रराज्यस्य अभिजनः कश्चन देशभक्तः आसीत् ।

जन्म बाल्यञ्च[सम्पादयतु]

दादाभाई नवरोजि १८२५तमस्य वर्षस्य सप्टेम्बर्-मासस्य ४ दिनाङ्के फारसि कुटुम्बे जन्म प्राप्तवान् । तेषां पूर्वजानां स्थलं बरोडा । दादाभाई नवरोजिवर्यस्य बाल्यकाले एव पिता नवरोजि पालञ्जिदोर्दिः मरणं प्राप्तवान् । तदनन्तरं माता मणिकाबाई तं पोषितवती । दादाभाई नवरोजि कुशाग्रबुद्धियुतः आसीत् । आङ्ग्लशिक्षणे तेन सम्यक्शिक्षणमपि प्राप्तम् । उन्नतशिक्षणं मुम्बई नगरे विद्यमाने एल्फिन्स्टन् महाविद्यालये समापितवान् । अग्रे तस्मिन्नेव महाविद्यालये गणितशास्त्रस्य अध्यापकरूपेण सेवां कृतवान् ।

सामाजिकानि राजकीयानि च कार्याणि[सम्पादयतु]

दादाभाई नवरोजि महिलानां शिक्षणार्थं प्रयासं कृतवान् । के एन् कामा इत्येतस्य आर्थिकसहाय्येन दादाभाई नवरोजिवर्यः ज्ञानप्रसारकनामिकां पत्रिकां प्रारब्धवान् । तदनन्तरं गोफ्तार् (सत्यवादी) पाक्षिकपत्रिकाम् आरब्धवान् । तस्यां पत्रिकायां तस्य कालस्य सामाजिक-राजनैतिकदोषान् प्रदर्शितवान् । पत्रिकायाः सङ्घसंस्थानां च साहाय्येन जनेषु जागरणम् आनीतवान् । १८५५ तमे वर्षे कामावर्येण लन्डन्नगरे स्थापितायाः वाणिज्यसंस्थायाः विचारणार्थं दादाभाई नवरोजिवर्यः गतवान् । सः इङ्ग्लेण्ड्देशे भूत्वा भारतस्य स्वातन्त्र्यार्थं प्रयतमानः तत्रत्यानां जनानां प्रियतमः जातः । ब्रिटिश् जनानां शासनस्य विरोधं तत्र प्रथमवारम् आरब्धवान् । तेषां शासनस्य विषये भारतदेशस्य दारिद्र्यं तथा ब्रिटिश् जनानाम् अयोग्यशासनम् इति बृहत् ग्रन्थं प्रकटितवान् । भारतस्य उच्चस्थानस्य चयनार्थं क्रियमाणा सिविल् सर्विस् परीक्षा इङ्ग्लेण्ड्देशे तथा भारते च एकस्मिन्नेव काले सञ्चालनीया इति सः सङ्ग्रामम् आरब्धवान् । एतेषां कार्याणां समीचीनव्यवस्थायाः निमित्तं ईस्ट् इण्डिया असोसियेषन् इति संस्थां लन्डन्नगरे स्थापितवान् । १८९२ तमे वर्षे दादाभाई नवरोजिवर्यः ब्रिटिश् कामन् सभार्थं प्रिन्स्बरि क्षेत्रात् विजयी जातः,ब्रिटिश् पार्लिमेण्ट् मध्ये सदस्यत्वं च प्राप्तवान् । ब्रिटिश् पार्लिमेण्ट् मध्ये सदस्यत्वं प्राप्तः प्रथमः भारतीयः अयम् । तत्र भूत्वा भारतस्य अभिवृद्ध्यर्थं रुरल् कमिशन् समितेः संस्थापनाय प्रयत्नं कृतवान् । सः अपि तस्याः सदस्यः भूत्वा नियुक्तिं प्राप्तवान् । तन्मध्ये यदा भारतं प्रति आगतः आसीत् तदानीं भारतीयराष्ट्रियकाङ्ग्रेस्संस्थायाः अध्यक्षः भूत्वा सेवां कृतवान् । लार्ड् कर्जन्वर्यस्य दमननीतिः भारतीयानां मनसि आक्रोशम् उदपादयत् । तस्मात् काङ्ग्रेस् पक्षे यथार्थवादिनः तथा उपायवादिनः इति विभागस्य आरम्भः जातः । एवं न भवेत् इति धिया तस्य एकीकरणाय दादाभाई नवरोजिवर्येण प्रयत्नः कृतः, परन्तु तस्मिन् प्रयत्ने सः विफलः जातः । १९०७तमे वर्षे सः पुनः इङ्ग्लेण्ड्देशं गतवान् । तदनन्तरं तस्य आरोग्यस्थितिः सम्यक् नासीत्, अतः भारतमागत्य मुम्बई नगरस्य समीपे विद्यमाने तिर्पोवाग्रामे निवसितवान् । तस्य अन्तिमदिनेषु तस्य चिन्ता भारतस्य स्वातन्त्र्यविषये एव आसीत् । १९१५ तमे वर्षे आनिबेसेण्ट्-वर्यया आरब्धं हों रूल् लीग् सङ्ग्रामं दादाभाई नवरोजिवर्यः प्रोत्साहितवान् । १९१७ तमे वर्षे जून्मासस्य ३०तमे दिनाङ्के मरणं प्राप्तवान् ।

"https://sa.wikipedia.org/w/index.php?title=दादाभाई_नवरोजि&oldid=460601" इत्यस्माद् प्रतिप्राप्तम्