दिल्वारामन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दिल्वारामन्दिरम्
कलात्मकं द्वारम्
कलात्मिका छदिः

प्रायशः सहस्रवर्षेभ्यः पूर्वं क्रिस्ताब्दस्य ११९७ तः १२४७ वर्षावधौ २०० कोटिरूप्यकैः एतत् मन्दिरं निर्मितम् अभवत् । एतदर्थं विशिष्टाः अमृतशिलाः आनायिताः । मुख्यगर्भगृहे आदिनाथस्वामी अस्ति । वास्तुपालतेजपालौ सहोदरौ एतन्मन्दिरं निर्मितवन्तौ । अत्र ४८ स्तम्भाः शिल्पकलापूर्णाः सन्ति । पार्श्वनाथबसदि’ स्थले मूलविग्रहे सूर्यकिरणानां स्पर्शः गमनार्हः अस्ति । भीमसिंहेन निर्मिते मन्दिरे रजतस्वर्णनिर्मिता मूर्तिः विशिष्टा अस्ति । पार्श्वनाथमन्दिरे सरस्वती नागकन्या पद्मावती काळियमर्दनं शीतलादेवी शेषनागः नरसिंहः इत्यादीनां शिल्पानि सन्ति । १०८ महावीरस्य मूर्तयः अमृतशिल्पनिर्मिताः दर्शकान् मूकविस्मितान् कुर्वन्ति । तेजपालदेवालये नेमिनाथमूर्तिरस्ति । अबुतः १२ कि.मी दूरे अचलगडप्रदेशे अचलेश्वरदेवालयः अस्ति । १५ कि.मी दूरे गुरुशिखरं राजस्थानराज्ये अत्युन्नतं पर्वतशिखरम् अस्ति । अत्र अत्रिदेवालयः अस्ति । अबुतः समीपे गोमुखदेवालयः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=दिल्वारामन्दिरम्&oldid=371106" इत्यस्माद् प्रतिप्राप्तम्