दिव्यमाल्याम्बरधरं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दिव्यमाल्याम्बरधरं - 11.11 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः[सम्पादयतु]

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ॥ ११ ॥

अन्वयः[सम्पादयतु]

(तच्च रूपम्) अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणं दिव्यानेकोद्यतायुधं दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनं सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ।

शब्दार्थः[सम्पादयतु]

अनेकवक्त्रनयनम् = तच्च रूपं बहुमुखनेत्रम्
अनेकाद्भुतदर्शनम् = विविधाश्चर्योपेतम्
अनेकदिव्याभरणम् = विविधदिव्यालारम्
दिव्यानेकोद्यतायुधम् = बहुदिव्यशस्त्रास्त्रम्
दिव्यमाल्याम्बरधरम् = लोकोत्तरमालावस्त्रधारकम्
दिव्यगन्धानुलेपनम् = लोकोत्तरचन्दनानुलेपनम्
सर्वाश्चर्यमयम् = सकलाद्भुतमयम्
देवम् = विराजमानम्
अनन्तम् = अन्तरहितम्
विश्वतोमुखम् =सर्वतोवक्त्रं च ।

अर्थः[सम्पादयतु]

भगवान् कृष्णः अर्जुनाय तादृशं स्वरूपं प्रदर्शयामास यस्मिन् बहूनि मुखानि नेत्राणि उतवस्तूनि दिव्याभरणानि लोकोत्तरशस्त्राणि च आसन् । तच्च स्वरूपम् अत्यन्तं विस्मयकरं द्योतमानं व्याप्तं च आसीत्।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दिव्यमाल्याम्बरधरं...&oldid=418600" इत्यस्माद् प्रतिप्राप्तम्