दुर्गोष्ठ्याः सिद्धान्तः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
दुर्गोष्ठ्याः सिद्धान्तः

छद्मविज्ञानम्
Birth Chart (northern format).png
अन्यनाम छद्मसिद्धान्तः
प्रकाराः घटनात्मकदुर्गोष्ठीसिद्धान्तः, प्रणालिगतदुर्गोष्ठीसिद्धान्तः, अतिदुर्गोष्ठीसिद्धान्तश्च
प्रथमोपयोगः १९०६
प्रसिद्धिः १९८० पश्चात्

दुर्गोष्ठ्याः सिद्धान्तः ( /ˈdʊrɡʃhtjɑːhɑː sɪdðɑːntəhə/) (हिन्दी: षडयन्त्र का सिद्धान्त, आङ्ग्ल: conspiracy theory) इति छद्मविज्ञानम् इत्यपि प्रसिद्धः । एषः शब्दः मूलतया नागरिकस्य, आपराधिकदुर्गोष्ठ्याः, राजनैतिकदुर्गोष्ठ्याः च याच्ञायाः कृते उपयुज्यते । परन्तु, कालान्तरे एषः सिद्धान्तः अपमाननप्रतीकत्वेन प्रसिद्धः सन् अवगणितः । एवम् एषः सिद्धान्तः केवलम् अतिमानवीयशक्तिं प्राप्तुं, कुटिलदुर्गोष्ठीकर्तॄणां कुचक्राणां परिणामत्वेन व्याख्यायितः अभवत् । [१]

दुर्गोष्ठीसिद्धान्तस्य विदुषः सर्वे सन्देहदृष्ट्या पश्यन्ति । यतः तेषां कथनं वैरल्येनैव प्रमाणसहितं समर्थितं भवति, तस्योपरि संस्थागतविश्लेषणस्य विपरीतम् अपि भवति । तद्विश्लेषणं संस्थानां सामूहिकव्यवहारस्योपरि आधारितं भवति । तत्र ऐतिहासिकवर्तमानकालीनघटनानां व्याख्या विद्वत्तापूर्णसामग्रीभ्यः, मुख्यसमाचारमाध्यमानां तथ्येभ्यः च निर्मीयते । सा व्याख्या घटनायाः पृष्ठे विद्यमानायाः इच्छायाः, गुप्तसन्धीनां च विश्लेषणाधारिता न भवति [२][३] । अतः एषः शब्दः सामान्यशब्दत्वेन विश्वासं चित्रयितुम् उपयुज्यते, यस्य विचित्रम् असत्यं विक्षिप्तप्रकृतीनाम्, उन्मादिप्रकृतीनां च समूहेन व्यक्तं भवति । तादृशं चित्रणं सम्भावितौचित्यस्य अनुप्रयुक्तकारणेन विवादितः विषयः भवति [४]

राजनीतिकवैज्ञानिकः माइकल बारकुन इत्यस्य मतानुसारं दुर्गोष्ठ्याः सिद्धान्तः पुरा अवगणितः उत अल्पव्यक्तिषु एव सीमीतः आसीत्, परन्तु अद्यत्वे जनप्रचारमाध्यमेभ्यः सामान्यत्वेन उपयुज्यते । तानि माध्यमानि दुर्गोष्ठीवादस्य अवधारणां जनयितुं योगदानम् अकुर्वन् । विंशस्य शताब्दस्य अन्तिमे, एकविंशस्य शताब्दस्य आरम्भे च एषः सिद्धान्तः अमेरिकासंयुक्तराष्ट्रस्य सांस्कृतिघटनात्वेन प्रसिद्धः अभवत् । राजनैतिकचेष्टायाः प्रभावत्वेन लोकतन्त्रस्य सम्भावितप्रतिस्थापने दुर्गोष्ठी मुख्यभूमिकायाम् आसीत् इति । [२] मानवविज्ञानी टॉड सैंडर्स एवं हैरी जी वेस्ट इत्यनयोः मतानुसारं "प्रमाणेभ्यः सिद्ध्यति यत्, अद्य अमेरिकादेशीयाः (विशेषवर्गः) दुर्गोष्ठ्याः काँञ्चन नियमान् योग्यान् कथयन्ति ।"[५] अतः दुर्गोष्ठीसिद्धान्ते विश्वासः समाजशास्त्रि-मनोवैज्ञानि-लोकथाविशेषज्ञैः रुचिकरः विषयः अस्ति ।

शब्दावली[सम्पादयतु]

"दुर्गोष्ठ्याः सिद्धान्तः" नागरिकदुर्गोष्ठी, आपराधिकदुर्गोष्ठी, राजनैतिकदुर्गोष्ठी च वैधकारणस्य उत अवैधकारणस्य च कृते तटस्थसूत्रधारः भवितुम् अर्हति । "दुर्गोष्ठ्याचरण"स्य अर्थः अस्ति यत्, यस्य कस्यापि वैधोद्देशस्य उत अवैधोद्देशस्य पूर्त्यै गुप्तसन्धिः [६] परन्तु, "दुर्गोष्ठी'सिद्धान्त'स्य प्रयोगः वर्णनात्मकविधां प्रति इङ्गिताय अपि भवति, यस्मिन् दुर्गोष्ठ्याः अस्तित्वाय व्यापकतर्काः (दुर्गष्ठ्या सम्बन्धः अस्ति इति आवश्यकं नास्ति) सङ्कलिताः भवन्ति ।[७]

अत्र "सिद्धान्तः" इति शब्दः मख्यधारायाः वैज्ञानिकसिद्धान्तत्वेन न अपि तु प्राक्कल्पनात्वेन अधिकम् अनौपचारिकं मन्यते । तं विहाय दुर्गोष्ठीशब्दः शक्तिमद्भ्यः, प्रतिष्ठितसंस्थाभ्यश्च आधिक्येन उपयुज्यते । यतो हि तेषु एव अधिकसङ्ख्याकानां जनानां विश्वासघातस्य विश्वासः भवति । यथा राजनैतिकभ्रष्टाचारः । यद्यपि सर्वाः दुर्गोष्ठ्यः वास्तव्येन सिद्धान्तः न भवन्ति, तथापि सामान्यनागरिकाः तथैव चिह्नितं कुर्वन्ति ।

दुर्गोष्ठीसिद्धान्तः इत्यस्य शब्दस्य प्रप्रथमः उपयोगः १९०९ तमे वर्षे दरीदृश्यते । मूलतया एतस्य शब्दस्य उपयोगः तटस्थभावं दर्शयितुं भवति स्म । परन्तु १९०६ पश्चात् राजनैतिकसङ्घर्षोत्तरं सः शब्दः अपमाननस्य प्रतीकत्वेन प्रसिद्धः अभवत् [८] ऑक्सफोर्ड इंग्लिश डिक्शनरी मध्ये एषः शब्दः १९९७ तमात् वर्षात् पश्चात् योजितः [९]

स्वान्तत्र्यहरणाय, जनसमर्थनं प्राप्तुं त गुप्ततया जातानां सैन्य-वित्तकोष-राजैनिकचेष्टानां कृते विद्वद्भिः बहुधा "दुर्गोष्ठीसिद्धान्तः" इत्यस्य शब्दस्य उपयोगः कृतः । सामान्यतया एतस्य शब्दस्य प्रचलितार्थः लोककथानां, नगरेतिहासस्य च कथोपकथनत्वेन उपयुज्यते, यस्य पौराणिककथाभिः सह सम्बन्धः अपि भवति [१०]

प्रकारः[सम्पादयतु]

राजनीतिवैज्ञानिकः माइकल बारकुन आरोहक्रमे दुर्गोष्ठीसिद्धान्तं श्रेणीबद्धम् अकरोत् । यस्य विवरणम् अधः क्रियते :[२]

  • घटनात्मकदुर्गोष्ठीसिद्धान्तः – दुर्गोष्ठी सर्वदा सीमितघटनायै उत सीमितघटनाभ्यः कारणभूता भवति । दुर्गोष्ठीकारिभिः स्वशक्तिः कथिततया स्वोर्जा सीमितोद्देशः यः सम्यग्रीत्या परिभाषितः अस्ति, तस्मिन् ध्यानं केन्द्रितं कृत्वा दुर्गोष्ठ्याः कार्यान्वयं करणीयं भवति । एतस्याः दुर्गोष्ठ्याः कृते कैनेडी इत्यस्य हत्या मुख्योदाहरणम् अस्ति ।
  • प्रणालिगतदुर्गोष्ठीसिद्धान्तः – एवं कथ्यते यत्, एतस्य सिद्धान्तस्य दुर्गोष्ठ्याः लक्ष्यं व्यापकं भवति । सामान्यतया एतस्य उपयोगः अखिले विश्वे नियन्त्रं प्राप्तुम् उत कस्यचित् बृहदः क्षेत्रस्य प्राप्तै भवति । यद्यपि लक्ष्यम् अति व्यापकम् अस्ति, परन्तु समान्यतया दुर्गोष्ठीकर्तॄणां कार्यान्वयं सरलम् एव भवति । किञ्चन एकाक्यनिष्टकारिसङ्टनम् अधिकसंस्थासु स्वनियन्त्रं प्राप्तुम् अनधिकारिकतया प्रवेशः कृत्वा तासां संस्थानां विनाशस्य योजना करणीया भवति । एषः दुगोष्ठीसिद्धान्तः अन्ताराष्ट्रियसाम्यवादस्य, अन्ताराष्ट्रियधनाढ्यैव्यक्तीनां, यहुदी-जनानां, गुप्तसभायाः सदस्यानां, दिव्यशक्तियुक्तसमुदायस्य नियन्त्रणस्य कृते अति महत्त्वपूर्णः अस्ति ।
  • अतिदुर्गोष्ठीसिद्धान्तः – इत्यस्य विषये १९८० तमात् वर्षात् अनन्तरं जिम मार्स, डेविड आइक, मिल्टन विलियम कूपर इत्यादयः लेखकाः न्यरूपयन् । एतस्मिन् सिद्धान्ते अनेकानां दुर्गोष्ठीनां जालं भवति । ताः सर्वाः दुर्गोष्ठ्यः परस्परं सोपानत्वेन सङ्घटिताः भवन्ति । सर्वोन्नते स्थाने स्थितः दुर्गोष्ठीकारी सर्वासां दुर्गोष्ठीनां सञ्चालनं कृत्वा सर्वं नियन्त्रयति ।

उद्धरणम्[सम्पादयतु]

  1. Barkun, Michael (2003). A Culture of Conspiracy: Apocalyptic Visions in Contemporary America. University of California Press 1 edition. ISBN 0520238052. 
  2. २.० २.१ २.२ Barkun, Micheal (2003). A Culture of Conspiracy: Apocalyptic Visions in Contemporary America. University of California Press; 1 edition. ISBN 0520238052. 
  3. Domhoff, G. William (2005). Who Rules America? Power, Politics, and Social Change. McGraw-Hill Humanities/Social Sciences/Languages; 5 edition. ISBN 0072876255. 
  4. फेंस्टर, एम. 1999. षड्यंत्र के सिद्धांत: अमेरिकी संस्कृति में गोपनीयता और शक्ति मिनेपोलिस: युनिवरसिटी ऑफ़ मिनेसोटा प्रेस.
  5. हैरी जी. वेस्ट, टोड सैंडर्स. पीपी 4. (2003) ट्रैन्स्पेरन्सी एंड कॉन्सपिरेसी: एथनोग्राफिज़ ऑफ़ ससपीशियन इन द न्यू वर्ल्ड ऑर्डर . ड्यूक यूनिवर्सिटी प्रेस. पीपी 4.
  6. वेब्सटर की नई कॉलेजिएट शब्दकोश, पृष्ठ. 243 (8थ एड. 1976).
  7. रैमसे, रॉबिन (2006). कॉन्सपिरेसी थ्योरीज, पॉकेट एसेंशियल्स. ISBN 1-904048-65-X.
  8. "20थ सेन्चरी वर्ड्स" (1999) जॉन एटू, ऑक्सफोर्ड यूनिवर्सिटी प्रेस, पृष्ठ. 15.
  9. पिटर नाईट द्वारा प्लॉट्स, पैरानौए और ब्लेम, बीबीसी (BBC) न्यूज़ 7 दिसम्बर 2006.
  10. जॉनसन, 1983