दूर्वा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दूर्वा
दूर्वा
दूर्वा
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Monocots
(अश्रेणिकृतः) Commelinids
गणः Poales
कुलम् Poaceae
वंशः Cynodon
जातिः C. dactylon
द्विपदनाम
Cynodon dactylon
(L.) Pers.

इयं दूर्वा भारते वर्धमानः काश्चन् तृणविशेषः । इयं दूर्वा यद्यपि तृणकुले अन्तर्भवति तथापि औषधीयानां सस्यानां गणे अपि तस्याः प्रमुखं स्थानम् अस्ति । इयं दूर्वा भारते सर्वत्र सर्वेषु प्रदेशेषु च वर्धते । अस्याः दूर्वायाः मूलं पत्रं चापि औषधत्वेन उपयुज्यते । देवस्य गणेशस्य प्रिया इयं दूर्वा त्रिविधा भवति । नीलदूर्वा, श्वेतदूर्वा, “गण्ड”दूर्वा चेति । संस्कृते अस्याः दूर्वायाः “शतपर्वा” इति अपरम् अपि नाम अस्ति ।

इतरभाषाभिः अस्याः दूर्वायाः नामानि[सम्पादयतु]

इयं दूर्वा आङ्ग्लभाषयाCynodondactylon इति उच्यते । हिन्दीभाषया“दूट्” इति, तेलुगुभाषया“दूर्वालु” इति, तमिळ्भाषया “अरुग मडिलु” इति, कन्नडभाषया“गरिके हुल्लु” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्याः दूर्वायाः प्रयोजनानि[सम्पादयतु]

अस्याः दूर्वायाः रुचिः कषायः, तिक्तः, मधुरः चापि । एषा शीतवीर्या ।

  1. “गण्ड”दूर्वा पित्तशामिका, अरुचिं, ज्वलनं, श्रान्तिं च अपगमयति ।
  2. “गण्ड”दूर्वा पीपासां शमयति । कफं, वातं, ज्वरं चापि निवारयति ।
  3. “गण्ड”दूर्वा चर्मरोगेषु अपि उपयुज्यते ।
  4. नीलदूर्वा अपि तिक्ता, मधुरा, शितवीर्या । एषा रक्तपित्तं शमयति । नीलदूर्वा अपि पित्तशामिका, अरुचिं, ज्वलनं, श्रान्तिं चापि अपगमयति । तथैव पीपासां शमयति । कफं, वातं, ज्वरं चापि निवारयति ।
  5. श्वेतदूर्वा अपि तिक्ता, मधुरा, शितवीर्या । एषा वमनं, रक्तसहितं शौचं चापि निवारयति । एषा अपि पित्तशामिका, अरुचिं, ज्वलनं, श्रान्तिं चापि अपगमयति । तथैव पीपासां शमयति । कफं, वातं, ज्वरं चापि निवारयति ।
  6. दूर्वायाः रसेन सह मधु योजयित्वा उपयोगेन उपर्युक्ताः समस्याः अपगच्छन्ति ।
  7. नासिकायां रक्तस्रावः जायते चेत् नासिकायां दूर्वायाः रसस्य स्थापनेन रक्तस्रावः स्थगितः भवति ।
  8. दूर्वया सह घृतम् उपयोक्तव्यम् ।
  9. पिटकादिषु चर्मरोगेषु दूर्वातैलेन स्नानं कारणीयम् ।
  10. महिलानां मासिकस्रावः सम्यक् न जायते चेत् दूर्वारसः पातव्यः ।
  11. मूत्राघाते अस्याः दूर्वायाः मूलेन निर्मितं कषायं शर्करां, मधु च योजयित्वा सेवनीयम् ।
"https://sa.wikipedia.org/w/index.php?title=दूर्वा&oldid=395717" इत्यस्माद् प्रतिप्राप्तम्