दृष्ट्वेदं मानुषं रूपं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दृष्ट्वेदं मानुषं - 11.51 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

अर्जुन उवाच -

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५१ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकपञ्चाशत्तमः(५१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

दृष्ट्वा इदं मानुषं रूपं तव सौम्यं जनार्दन इदानीं अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५१ ॥

अन्वयः[सम्पादयतु]

जनार्दन ! सौम्यं मानुषम् इदं तव रूपं दृष्ट्वा इदानीं प्रकृतिं गतः सचेताः संवृत्तः अस्मि ।

शब्दार्थः[सम्पादयतु]

जनार्दन = श्रीकृष्ण !
सौम्यम् = प्रसन्नम्
मानुषम् = मानवीयम्
इदम् = एतत्
तव रूपम् = ते रूपम्
दृष्ट्वा = अवलोक्य
इदानीम् = अधुना
प्रकृतिम् = पूर्वावस्थाम्
गतः = प्राप्तः
सचेताः = प्रसन्नमनाः
संवृत्तः = सञ्जातः
अस्मि = भवामि ।

अर्थः[सम्पादयतु]

श्रीकृष्ण ! प्रसन्नं मानवीयम् एतत् तव रूपं दृष्ट्वा अधुना प्रसन्नमनाः प्रकृतिस्थः च सञ्जातः अस्मि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]