देवकणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
देवकणः
देवकणः

देवकणः इत्येषः कणः वैज्ञानिकभाषया हिग्स्-बोसन्-कणः इति निर्दिश्यते । अनेन कणेन एव ब्रह्माण्डस्य सृष्टिः जाता इत्येषः विज्ञानिनाम् अभिप्रायः । चन्द्रः, नक्षत्रं, सस्यवृक्षादयः, प्राणिनः इत्येषां सर्वेषां सृष्टिकारणं वर्तते अयं देवकणः । स्विट्झर्ल्याण्ड्देशे जिनीवानगरे अणुभौतशास्त्रस्य संशोधनार्थं विद्यमाने विश्वस्य बृहत्तमे (ऐरोप्य-परमाणुसंशोधनसंस्था - सि. इ. आर्. एन्.) सुरङ्गप्रयोगालये २०१२ तमस्य वर्षस्य जुलैमासस्य ४ दिनाङ्के देवकणसदृशः कणः आविष्कृतः इति घोषितः ।

ब्रह्माण्डस्य सृष्टिः[सम्पादयतु]

१४ शतकोटिवर्षेभ्यः पूर्वं कश्चन महास्फोटः जातः । तस्मात् स्फोटात् आविर्भूताः एते हिग्स्-बोसन्-कणाः एव परमाणुषु द्रव्यराशिं योजितवन्तः । ततः एव ताराग्रहादयः उत्पन्नाः । परमाणुषु द्रव्यराशिः (भारः) यदि न स्यात् तर्हि ते एकत्र स्थिताः न भवन्ति स्म । अतः एव अयं देवकणः ब्रह्माण्डनिर्माता इति निर्दिश्यते । सृष्टेः निर्माणं सरलतया विवृणोति स्टेण्डर्ड् माडेल् (एस् एम्) इत्येतत् साधनम् । तस्मिन् निर्दिष्टेषु १२ कणेषु ११ कणाः प्राप्ताः आसन् । अयं देवकणः एव द्वादशः कणः ।

कः अयं कणः?[सम्पादयतु]

अति सूक्ष्मकणानाम् एतेषाम् अवगमनाय क्वाण्टं-विश्वम् अवगन्तव्यम् । इदं विश्वं बहिः दृश्यमानं ब्रह्माण्डमिव अनूह्यं, निगूढं, सङ्कीर्णतमं च विद्यते । परमाणवः अति सूक्ष्मकणाः । अस्माभिः सकृत् स्वीकृते श्वासे 'दश'सङ्ख्यायाः पुरः २० शून्यानि योजयामः चेत् प्राप्यमाणसङ्ख्याकाः आम्लजनकपरमाणवः विद्यन्ते । तादृशे सूक्ष्मतमे परमाणौ प्रोटान्-न्यूट्ऱान्-कणाः भवन्ति । प्रोटान्कणस्य अन्तः विद्यमानः अनूह्यं विश्वमेव क्वाण्टं विश्वम् । उदाहरणाय - हीलियम्-अनिलं द्रवरूपं प्रति आनीय पात्रे यदि स्थापयेम तर्हि सः क्वाण्टं-स्थितिं प्राप्नोति । किञ्चित्कालानन्तरं सः पात्रस्य उपरिभागम् आगत्य ततः बहिः अदृश्यतां गच्छति । अयं विशिष्टः सन्निवेशः सङ्ख्याशास्त्रस्य आधारेण एव ऊहितं भारतीयेन अपूर्वेण विज्ञानिना सत्येन्द्रनाथबोसेन १९२४ तमे वर्षे । द्रव्यानां अस्याः विशिष्टस्थितेः कारणस्य आविष्करणे ऐन्स्टीनः अपि योगदानम् अकरोत् । एताभ्याम् अन्विष्टम् इत्यतः द्रव्यस्य सा विशिष्टस्थितिः 'बोस्-ऐन्स्टीन्-कण्डेन्सेट्' इति निर्दिश्यते । अस्याः स्थितेः तस्मिन् विद्यमानः विशिष्टकणाः एव कारणीभूताः इति सप्रमाणं दर्शितं १९६४ तमे वर्षे पीटर्-हिग्स्-नामकेन विज्ञानिना । अतः एव अयं कणः 'हिग्स् बोसन्'कणः इति निर्दिश्यते । प्रोटान्-कणस्य अन्तः विद्यमानस्य अस्य सूक्ष्मतमकणस्य द्रव्यराशिः १२० गुणितम् अधिकम् इति उच्यते । अत्र भाषापरिमितिम् अतिरिच्य वस्तुस्थितिः ग्रहीतव्या भवति ।

प्रयोगपथः[सम्पादयतु]

विश्वसृष्टेः कारणं महास्फोटः इति ज्ञातः अंशः । तादृश्याः अगाधशक्तेः पुनः सृष्टिः सामान्या न इति विज्ञानिनः जानन्ति स्म । अतः तन्निमित्तं विज्ञानिभिः अति बृहत् विज्ञानोपकरणं निर्मितम् । फ्रान्स्-स्विट्झर्लेण्ड्देशयोः सीमाप्रदेशे सुरङ्गप्रयोगालये इदं यन्त्रं संस्थापितम् । तस्य नाम 'लार्ज्-ह्याड्रन्-कोलैडर्' इति । सरलं नाम 'बिग्-बेङ्ग्-मिषन्' इति । भूमौ ५७४ पादयुते गभीरे स्थले २७ किलोमीटर्परिमितः दीर्घः सुरङ्गमार्गः कल्पितः । विश्वसृष्टेः अवसरे क्षणस्य शतकोट्यंशे भागे विद्यमानस्य उष्णांशस्य पुनः सृष्ट्यर्थम् इदं यन्त्रं निर्मितम् । अणोः हृदयरूपाः प्रोटान्कणाः सुरङ्गस्य उभयदिशौ अपि स्फोटयन्ति । एते कणाः प्रकाशस्य ९९.९९९९९९१ प्रतिशतेन वेगेन चलन्ति । अनेन वेगेन प्रोटन्कणाः क्षणे ११ सहस्रवारं यन्त्रे भ्रमणं कुर्वन्ति । प्रदक्षिणावसरे निर्दिष्टेषु स्थलेषु प्रोटान्कणानां घट्टनं कारयन्ति । एतस्मात् महतः प्रमाणस्य शक्तिः उद्गता भवति । इयं शक्तिः द्रव्यरूपं प्राप्य नूतनकणानां सृष्टौ सहायिका भवति । ऐन्स्टीनेन वचनानुगुणं e=mc2 इत्येतत् सूत्रम् अत्र अन्वेति । ये कणाः नूतनतया जायन्ते ते सान्द्रयुक्ताः भवेयुः इति चेत् उत्पद्यमाना शक्तिः अगाधा स्यात् । अधिकसान्द्रयुक्ताः कणाः न्यूनसान्द्रयुक्तेषु कणेषु विलीनाः भवन्ति । इदम् अत्यल्पावधौ भविष्यति । तन्नाम क्षणस्य १००० कोट्यंशस्य भागस्य अवधौ इदं सर्वं भविष्यति । अस्य कणस्य अभिज्ञाने विज्ञानिनः यशस्विनः जाताः सन्ति । ३५ देशानां १६० विज्ञानसंस्थाभ्यः आगताः द्विसहस्राधिकाः विज्ञानिनः देवकणस्य सृष्टौ निरताः सन्ति । २००८ तमस्य वर्षस्य सेप्टेम्बर्मासस्य १० दिनाङ्के इदं कार्यम् आरब्धम् । आरम्भे केषुचित् एव दिनेषु हीलियम्-अनिलगोलानां स्फोटस्य कारणतः घर्षणहेतुभूताः अयस्कान्ताः कार्यविरताः जाताः । तदा ९ दिनानि कार्यं स्थगितम् आसीत् । २००९ तमस्य वर्षस्य नवेम्बर्मासस्य २० तमे दिनाङ्के कार्यस्य पुनरारम्भः जातः ।

उपलब्धयः[सम्पादयतु]

कोट्यधिकडालर्मितस्य धनस्य व्ययेन क्रियमाणेन अनेन प्रयोगेण एताः उपलब्धयः इति विज्ञानिनः कथयन्ति -

  • कस्यचित् वस्तुनः आकारः गात्रं च कथं प्राप्यते इत्येतस्य प्रश्नस्य उत्तरं प्राप्यते ।
  • अन्तर्जालस्य वेगस्य वर्धने साहायकं भविष्यति ।
  • सम्पर्कक्रान्तौ नूतनः विक्रमः साधितः भवति ।
  • न्यानोतन्त्रज्ञाने महत्वभूतं परिवर्तनं भविष्यति ।
  • जङ्गमदूरवाण्यां सूपर्-सङ्गणकयुगस्य आरम्भः भविष्यति ।

अग्रिमाध्ययनाय[सम्पादयतु]


बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=देवकणः&oldid=484922" इत्यस्माद् प्रतिप्राप्तम्