द्राक्षाफलरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नीललोहितवर्णस्य द्राक्षाफलस्य रसः
हरिद्वर्णस्य द्राक्षाफलस्य रसः
नीललोहितवर्णस्य द्राक्षाफलानि
हरिद्वर्णीयानि द्राक्षाफलानि
कूप्यां संरक्षितः द्राक्षाफलरसः
शुष्कद्राक्षा


द्राक्षाफलस्य रसः एव द्राक्षाफलरसः । एतत् द्राक्षाफलम् आङ्ग्लभाषायां Grapes इति उच्यते । अस्य रसः Grape Juice इति उच्यते । द्राक्षाफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य सेवफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि द्राक्षाफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं द्राक्षाफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति द्राक्षाफलं प्रमुखतया द्विधा विभज्यते - शिष्कद्राक्षा अशुष्कद्राक्षा चेति । तत्रापि अशुष्कद्राक्षाफलं वर्णानुग्णं द्विधा विभज्यते – हरितवर्णीया, नीललोहितवर्णीया च इति । द्राक्षाफलस्य वर्णानुगुणं फलरसस्य वर्णः अपि भिन्नः भवति ।


फलरसस्य निर्माणम्[सम्पादयतु]

अस्य द्राक्षाफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् द्राक्षाफलं प्रक्षाल्य बीजानि निष्कासनीयानि । अनन्तरं तत्र शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । अनन्तरं शोधनीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलाम् अपि योजयितुं शक्यते ।‎

"https://sa.wikipedia.org/w/index.php?title=द्राक्षाफलरसः&oldid=299965" इत्यस्माद् प्रतिप्राप्तम्