द्वादशस्तोत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


द्वादशस्तोत्रग्रन्थस्य रचयिता मध्वाचार्यः भवति। अस्मिन् ग्रन्थे द्वादशस्तोत्राणि विद्यन्ते। अस्य ग्रन्थस्य आरम्भम् उडुपीक्षेत्रे कृतवान् आसीत्। तत्र चेत्थम् आभाणकं वर्णयन्ति। रूप्यपीठपुरात् श्रीकृष्णानयनार्थं पश्चिमसमुद्रं प्रति गमनसमये “वन्दे वन्द्यम्” इत्यादिना भगवन्तं स्तुवन्नेव गतः श्रीमदानन्दतीर्थमुनिः समुद्रतीरं गतः सन् द्वारकातः समागतं श्रीकृष्णं दृष्ट्वा समनन्तरमेव देवकीनन्दनेत्यादिना आनन्दसुपूर्णेत्यन्तेन श्रीकृष्णं स्तुत्वा अनन्तरं च मत्स्यकरूपेत्यादिना दशावतारात्मकतया च तमेव स्तुवानिति। एकैकस्तोत्रस्यापि अध्यायेत्वेनापि व्यवहारः अस्ति। प्रथोमे अध्याये श्रीहरेः पादादि शिरः पर्यन्तं वर्णना कृतं विद्यते। द्वितीये अध्याये भगवत्स्वरूपविवेचना कृता अस्ति। तृतीयचतुर्थाध्याययोः साधकाय हरेः पारम्य, स्वातन्त्र्य, सर्वोत्तमत्वविषयादिशु उपदेशोऽस्ति। पञ्चमाध्याये केशवादि द्वादशमूर्तीनां स्तुतिः अस्ति। षष्टोऽध्याये दशावतारस्तुतिः विद्यते। सप्तमाध्याये श्रीस्तुतिः विद्यते। अष्टमे अध्याये विष्णुमहिमा निरूपिता अस्ति। नवमे दशावतारस्तुतिः अस्ति। दशमे आपादमौलिपर्यन्तं भगवत्स्तुतिः विद्यते। एकादशे भगवद् एकावयवस्तुतिः विद्यते। द्वादशे भगवत्स्वरूपवर्णनाष्टकं विद्यते।

"https://sa.wikipedia.org/w/index.php?title=द्वादशस्तोत्रम्&oldid=373884" इत्यस्माद् पुनः प्राप्तिः