द्वैतनये मुक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मुक्तिर्नाम कीदृशीति श्रीमद्भागवते तत्स्वरुपं प्रतिपादितम्[सम्पादयतु]

मुक्तिर्हित्वाऽन्यथारुपं स्वरुपेण व्यवस्थितिः इति । द्वैतनयानुगुण्येन सात्त्विको जीवः ज्ञानानन्दवीर्यादिगुणरुपः । यद्यपि संसारावस्थायां ज्ञानानन्दादयो जीवगुणा नानुभूयन्ते अनाद्यविद्यावृतत्वात् अदृष्टाश्रतवस्तुत्वाच्च । तदुक्तम्-

अतः परं यदव्यक्तमव्यूढगुरबृंहितम् ।
अदृष्टाश्रुतवस्तुत्वात् स जीवो यः पुनर्भवः ॥ इति ।

जीवस्वरुपावरणानि षडिक्तानि शास्त्रे । तानि च यथा –

१. अविद्या

सत्वादिगुणात्मिका भावरुपाविद्या । ‘बध्नन्ति नित्यदा मुक्तं मायिनं प्रकृतिं गुणाः’ इति भागवतोक्तेः ।

२.कामः

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरुपेण कौन्तेय -इति गीतोक्तेः ।

‘तथा कामनिरुध्दोऽयम् उच्चावचतया भ्रमन् ।’ इति भागवतोक्तेश्च ।

३. प्रारब्धकर्म

अनादिकर्मणा बध्दो जिवः संसारमण्डले ।
वासिदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ॥

४. स्वगुणाच्छादिका

५. परमाच्छादिका- अथान्ये प्रक्रुती दुष्टे नृषु प्रातिस्विकं स्थिते । स्वगुणाच्छादिका त्वेका परमाच्छादिका परा ॥ इत्युक्तेः । ६. लिङ्गशरीरम्

एकं पञ्चविधं लिङ्गं त्रिवृत् षोडशविस्तरम् ।
एष चेतनया युक्तो जीव इत्यभिधीयते ॥
अनेन पुरुषो देहान् उपादत्ते विमुञ्चति ॥ इति भागवतोक्तेः ।

एकं लिङ्गशरीरं षोडशविस्तरम् । प्राणेन्द्रियान्तः करणभेदेन त्रिवृत् । कथं पञ्चविधम् ? त्रिधा भिन्नया पञ्चविधया युतम् पञ्चप्राणाः पञ्चज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनसा सह षोडशविधम् ।

एवं, ‘न ऋते त्वत् क्रियते’ (ब्र.सू.अ.पृ.२६१)इत्यत्र ‘परमेश्वरो अचिन्त्याद्भुतया स्वशत्तया जीवस्वरुपचैतन्यमाच्छादयति (न्या. सु.. –पॄ.२६६) इति सुधोक्तेः ईश्वरेच्छाऽपि सप्तमी प्रतिबन्धिकाऽऽवधारणरुपा विद्यत् इत्यवगन्तव्यम् ।

एवं चैतादृशावरणैः बध्दो जीवः स्वीयमपाकृतमानन्दं विद्यमानमपि अभुञ्जन् संसरति अनुभवति च दुःखम् । विद्यया चावरणानि हित्वा भगवत्प्रसादेन मुक्तिमाप्नुयात् ।

अङ्गचतुष्टययुक्तो मोक्षः[सम्पादयतु]

कर्मक्षयः, उत्क्रान्तिः, मार्गः, भोग इति चत्वारः मुक्तिसोपानाः । तदुक्तम्- ‘कर्मक्षयः तथोत्क्रान्तिः मार्गो भोगचतुष्टयम् । फलम् (अनु. ४.१.१)

कर्मक्षयः –अपरोक्षज्ञानोत्तरं प्रथमतः कर्मक्षयो भवति । तदुक्तम् –

तदघिगमे उत्तरपूर्वाघयोरश्लेषाविनाशौ तद्वयपदेशात् (ब्र.सू.) इति । अयमाशयः –मोक्षयोग्यैः क्रियमाणं कर्म द्विविधम् । पुण्यं पापं चेति । पुण्यमपि प्रवृत्तनिवृत्तभेदेन द्विविधम् । प्रवृत्तं स्वर्गादिफलकम् ।ज्ञानात्पूर्वभावि निवृत्तं कर्म अपरोक्षज्ञाननिदानम् । तदुत्तरं तु मुक्तावानन्दातिशयकारणम् । अपरोक्षज्ञाने जाते सञ्चितपापस्य नाशो भवति । तदुक्तम् – ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन’ (भ.गी.) इति । अत्र पापनाशो नाम द्विषतां प्रदानमेव । केषाञ्चित्स्वरुपतोऽपि नाशः विद्यते । एवमनिष्टपुण्यस्य कूपतटागादिनिर्माणजस्य सुहृद्भ्यः प्रदानम् । तदुक्तम् – ‘अतोऽन्यदपीत्यकेषामुभयोः’ (ब. सू. ४.११७)

प्रारब्धकर्मणस्तु भोगेनैव क्षयः । तदुक्तम् –‘प्रारब्धकर्मणोऽन्यस्य ज्ञानादेव परिक्षयः’ (स. शा.सं ) इति । प्रारब्धस्यापि संविदा उपमर्दो भवति । तदुक्तं भागवते – ‘ न वै जनो जातु कथञ्चनाव्रजेत् मुकुन्दसेवी अन्यवदङ्गसंसृतिम्’ (भाग.) इति ।

उत्क्रान्तिः[सम्पादयतु]

उत्क्रान्तिमार्गौ प्रायेण देवकक्ष्याबहिर्भूतानामेव । तदुक्तम्- ‘उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः ।’ (ब्र.सू.अ.) इति । देवेतराणां ब्रह्मनाड्या चरमशरीरादुत्क्रान्तिः । देवानां तु स्वोत्तमेषु प्रविश्य देहत्यागेन चतुर्मुखद्वारा परमात्मनि प्रवेशः ।

प्रारब्धानुभवान्तरं हृदिस्थहरेः तेजसा हृदयाग्रे प्रकाशो जायते । प्राणाद्यशेषपरिवारविशिष्टः हृदयस्थो भगवान् तदा जीवमादाय प्रकाशद्वारेण ब्रह्मनाडीं प्रविशति । मूलाधारं समारभ्यामूर्धानमृजुस्थिता सुषुम्नानाड्येव पञ्चप्रमेदिनी ब्रह्मनाडीत्युच्यते । तत्राप्रतीकालम्बनानां देवादिव्यतिरिक्तानां सुषुम्नानाडीमध्यादुत्क्रमणम् । तदा हृदयाग्रं प्रद्योतते । तत्र वायुः पुरतो गच्छति । तमनु जीवमादाय परमात्मा । तदुक्तम् –

तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुग्रहीतः शताधिकया । ब्र.सू. ४.२) इति । देवानां स्वोत्तमेषु लय इत्युक्तम् । तत्र द्वौ मर्गौ गरुडमार्ग-शेषमार्गभेदेन ।

मार्गः[सम्पादयतु]

आदौ शरीरादुत्क्रान्तोऽर्चिकर्लोकं गच्छति । अर्चिर्लेके चार्चिर्नामाग्निसुतोऽग्र्निर्ज्योतिरिति रुपद्वयेन तिष्ठति । तत्रादावग्निनामकं द्वितीयं रुपमेति । प्रत्युद्गमादिभिर्भगवत्पूजा च पूर्ववदेव सर्वलोकेषु भवति । एवमर्चिर्लेके द्विरुपेण संस्थितमग्नेः सुतमर्चिर्नामानं देवं प्राप्य तत आतिवाहिकलोकं गच्छति । तत्रातिवाहिकलोकनामानं वायुपुत्रं ततोऽहरभिमानिलोकं ततः शुक्लपक्षाभिमानिलोकं तत उत्तरायणाभिमानिलोकं ततः संवत्सराभिमानिलोकं ततो विद्युदभिमानिलोकं ततो वरुणलोकं ततः प्रजापतिलोकं ततः सूर्यलोकं ततः सोमलोकं ततो वैश्वनरलोकं तत इन्द्रलोकं ततो भारतीलोकं ततो वायुलोकं गच्छति । तत्र च वायुदेवप्रसादेन भगवद्धयानादिसुखसम्भृतमना जीवो बहुकालं तिष्ठति । तदुक्तम् –

उत्क्रान्तस्तु शरीरात् स्वात् गच्छत्यर्चिषमेव तु ।
ततो हि वायोः पुत्रं च योऽसौ नाम्नाऽतिवाहिकः ॥
ततोऽहः पूर्वपक्षं चाप्युदक्संवत्सरं तथा ।
तटितं वरुणं चैव प्रजापं सूर्यमेव च ॥
सोमं वैश्वनारं चेन्द्रं ध्रुवं देवीं दिवं तथा ।
ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम् ॥ -(ब्र.सू.भा.) इति ।

एवं जीवः चतुर्मुखब्रह्मणा सह विरजायां कृतस्नानः त्यक्तलिङ्गशरीरश्च स्वरुपशरीरेण भगवदुदरे ध्यानङ्गतः तिष्ठति । सृष्टिकाले भगवदुदरस्थितलक्ष्म्यात्मकेश्वेतद्वीपानन्तासनवैकुण्ठलोकानां भगवदुदरात् पुनः ब्रह्माण्डे स्थापिते तत्र श्वेतद्वीपपतिं परवासुदेवं दृष्ट्वा अपसृतभगवदिच्छारुपसप्तमावरणः स्वरुपशरीरेण अमन्दमानन्दमनुभवन् यथायोग्यं भूमौ अन्तरिक्षे स्वर्गे श्वेतद्वीपादौ तिष्ठति ।

भोगः[सम्पादयतु]

मुक्तिरियं सालोक्य- सामीप्य-सारुप्य-सायुज्यभेदेन चतुर्विधा ।

१.सालोक्यम्

भगवल्लोकावस्थानं विना भूम्यादिषु स्थित्वा परमात्मसन्निधाननिमित्तेन ( दर्शनेन वा ) भोगः सालोक्य –मुच्यते । अत्र मनुष्योत्तमा अधिकारिणः । तदुक्तम् – ‘केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन’ इति ।

२.सामीप्यम्

भगवत्सामीप्यविशेषाद् भोगविशेषवन्तः ऋष्यादयः सामीप्यभाजः । तदुक्तं श्रीभाष्ये- ‘तत्रापि क्रमयोगेन ज्ञानाधिक्यात् समीपगाः’ इति । बृहद्भाष्ये च –

उपासनाबलान्मुक्तो भोगान् कर्मफलान् सदा ।
भुङ्क्ते विष्ण्वोः समीपस्थो सर्वदोषविवजिर्तः ॥

३. सारुप्यम्

‘सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेशनिष्काभरणाः सुपेशसः ।’ इति द्वितीयभागवतोक्तदिशा विष्णोरिव चतुर्बाहवः शङ्खचक्रायुधसमलङ्कृताः शोभन्ते । सारुप्यपदयोग्याश्च जय- विजयादयो द्वारपालाः । ४. सायुज्यम्

स्वोत्पत्त्यङ्गेषु प्रविश्य तत्रैव स्थित्वा भगवच्छरीरेण भोगानुभवः सायुज्यमुच्यते ।

आदत्ते हरिहस्तेन हरिदृष्टयैव पश्यति ।
गच्छेच्च हरिपादाभ्यां मुक्तस्यैषा स्थितिर्भवेत् ॥ -(ब्र.सू. भा.)

अत्र देवानां स्वस्वोत्तमप्रवेशेन परमात्मशरीरेण च भोगः । चतुर्मुखस्य तु परमात्मशरीरप्रवेशेनैव भोगः । तदुक्तम् अणुभाष्ये –

उत्तरेषूत्तरेष्वेवं यावद्वायुं विमुक्तिगाः ।
प्रविश्य भुञ्जते भोगान् तदन्तर्बहिरेव वा ॥
वायुर्विष्णुं प्रविश्यैव’ इत्युक्तेः । (स.शा. सं)

एतत्तु प्रायिकम् । हरिशरीराद् बहिः भोगस्यापि प्रमितत्वात् । एवं द्वैतनये मुक्तिस्वरुपमुपर्णितम् ।

उल्लिखिताः ग्रन्थाः =[सम्पादयतु]

१.भ.गी. – भगवद्गीता गुरुसावैभौविद्यापीठम्, मन्त्रालयम् १९९५
२. श्रीमद्भा. - श्रीमद्भागवतम् पूर्णप्रज्ञसंशोधनमन्दिरम् पूर्णप्रज्ञविद्यापीठम्, बेङ्गळूरु. २००१
३. ब्र.सू.अ. – ब्रह्मसूत्रानुव्याख्यानम् अखिलभारतमाध्वमहामण्डलम् बेङ्गलूरु १९६९
४. न्या.सु. – श्रिमन्न्यायसुधा मध्वसिद्धान्ताभिवृध्दिकारणीसभा उत्तरादिमठः, बेङ्गलूरु १९८२
५. ब्र.सू. –ब्रह्मसूत्राणि अखिलभारतमाध्वमहामण्डलम् बेङ्गलूरु १९६९
६. ब्र.सू.भा.- ब्रह्मसूत्रभाष्यम् अखिलभारतमाध्वमहामण्डलम् बेङ्गलूरु १९६९
७. बृ.भा.- बृहदारण्यकभाष्यम् अखिलभारतमाध्वमहामण्डलम् बेङ्गलूरु १९६९
८. स.शा.सं- सर्वशास्त्रार्थसङ्ग्रहः अखिलभारतमाध्वमहामण्डलम् बेङ्गलूरु १९६९

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=द्वैतनये_मुक्तिः&oldid=409333" इत्यस्माद् प्रतिप्राप्तम्