धर्मानन्द दामोदर कोसम्बी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
धर्मानन्द दामोदर कोसम्बी
धर्मानंद दामोदर कोसंबी.jpg
जन्म October 9, 1876
सङ्खवालग्रामः, गोवा
मृत्युः June 24, 1947
सेवाग्राम
शिक्षणस्य स्थितिः हार्वर्ड् विश्वविद्यालयः Edit this on Wikidata
वृत्तिः बौद्धपण्डितः, पालीभाषाविद्
अपत्यानि डी डी कौशाम्बी Edit this on Wikidata

धर्मानन्ददामोदरकोसम्बी (धम्मानन्द-दामोदर-कोसम्बी)


भारतीयसाहित्यजगति आचार्यस्य धम्मानन्द-दामोदर-कोसम्बीमहोदयस्य नाम अतीव विख्यातं वर्तते। धम्मानन्दकोसम्बी 09 अक्टूबर, 1876 तमे वर्षे गोवाप्रान्तस्य संखवालग्रामे ब्राह्मणपरिवारे जनिमलभत। बाल्ये परिवारजनैः तस्य नाम ‘धर्म’ (धम्म) इति व्यपस्थापितम्। ग्रामे शिक्षाध्ययनस्य समुचिता व्यवस्था नासीत्। पुनः तस्य पिता दामोदरशेनाॅयोऽपि साधनसम्पन्नो नासीत्। कथ×िचदपि सः मराठीं संस्कृतं च अपठत्। कदाचित् नारिकेलवृक्षेषु सि×चनकर्मणः अवकाशं प्राप्य तत्रौव नारिकेलोपवने उपविश्य सः बालबोधनाम्नि मासिकपत्रो भगवतो बुद्धस्य चरितमपठत्। भगवतो बुद्धस्य चरित्रं शिक्षाश्च पठित्वा अत्यन्तं प्रभावितः सः बौद्धधर्मदर्शनयोः गभीरं ज्ञानं सम्पादयितुं सर्वं परित्यज्य गृहत्यागस्य निश्चयमकरोत्। एतदन्तरा 16वर्षवयसि एव तस्य विवाहो जातः आसीत्।

पारिवारिकसमस्यानां कारणेन धम्मानन्दस्य मनसि गृहस्थजीवनं प्रति अनासक्तिः जागरिता। अन्यत्, वैवाहिकजीवनस्य कारणेन गृहे उषित्वा स्वस्य जीवनस्य मुख्यं लक्ष्यं प्राप्तुं न शक्ष्येत इतिकृत्वा सः गृहं त्यक्तुं दृढतया कटिबद्धो जातः। ततः बुद्धमार्गान्वेषी धर्माख्यो{यं युवकः धैर्यतापूर्वकं 22 वर्षवयसि गृहत्यागं कृत्वा बम्बईम् आप्तवान्। बम्बÕयां सः प्रार्थनासमाजस्य कार्यालये उषित्वा अध्ययनमकरोत्। तदनु पुनानगरं गत्वा सः प्राच्यविद्यायाः महता विदुषा डा. भण्डारकरेण सह अमिलत्। तस्य परामर्शेण सः बौद्धसाहित्यं ज्ञातुम् आदौ संस्वृफतं ज्ञातव्यमिति अवगम्य उज्जयिनीं गन्तुं सि(ो जातः।

संस्कृताध्ययनेच्छया उज्जयिनीं गन्तुं सः सिद्धस्तु जातः किन्तु तस्य धनं नासीत्। अतः भिक्षया एव उदरपूर्तिं कृत्वा एव सः पद्भ्यामेव तत्र प्राप्तवान्। ततः सः ग्वालियरं काशीं च गत्वा संस्कृतस्य गभीरं ज्ञानम् उपार्जयत्। एतत्सर्वं सम्पाद्य स्वस्य मुख्यं लक्ष्यं पूरयितुं सः स्वसघड्ढल्पानुसारं बौ(धर्मदर्शनयोः ज्ञानं प्राप्तुं बु(स्य जन्मस्थलीं नेपालं गतवान्। इत्येवं सः संस्वृफतस्य पण्डितो जातः। एतेन पालिभाषायाः अध्ययने तस्य महत्सौकर्यं जातम्। ततः बौ(धर्मस्य मौलिकं ज्ञानं तस्य मूलसाहित्ये एव अध्येतुकामः सः बु(स्य ज्ञानप्राप्तिस्थलं बोधगयां प्राप्तः, किन्तु दुर्भाग्यं! भारते पालिभाषायाः बौ(धर्मस्य च अध्ययन-अध्यापनपरम्परा शताब्दिभ्यः समाप्तिं गता आसीत्। बोधगयायां सः अजानात् यत् बौ(शास्त्राणां त्रिपिटकानां च समुचितम् अध्यापनं श्रीलघड्ढादेशे एव भवितुमर्हतीति। तदनु नैकानि कष्टान्यपि सोढ्वा असहायो{पि सः कथ×िचत् श्रीलघड्ढां गतः। तत्रा 1902 तमे वर्षे बौ(भिक्षुत्वेन बौ(धर्मस्य दीक्षां स्वीवृफत्य सः पालिभाषायाः महापण्डितस्य कि×च विद्योदयविश्वविद्यालयस्य वुफलपतेः महास्थविरस्य सुमघõलाचार्यपादस्य साÂिध्ये एव स्थित्वा पालिग्रन्थानां गभीरमध्ययनम् अकरोत्। बौ(धर्मस्य परम्परानुसारं यदा कश्चिज्जनः बौ(संघे प्रविशति प्रव्रज्यां च र्गृीाति, तदा प्रव्रज्यया एव तस्य नूतनं जन्म जातमितिवृफत्वा गुरुः नूतनाम् आख्यां ;नामद्ध तस्मै प्रयच्छति। तदनुसारं गुरुपाद एव तस्मै ‘धर्म’;ध्म्मद्ध-नाम्नः कारणात् ‘धम्मानन्दः’ इति नूतनां बौ(धर्मानुसारिणीम् आख्यां प्रायच्छत्। इत्येवं सः त्रिपिटकेषु गभीरं ज्ञानं प्राप्तवान् अधिकारिको विद्वान् च जातः। ततः सः ब्रह्मदेशं गत्वा ध्यानमार्गस्य बर्मीभाषया उपलब्धस्य बौ(साहित्यस्य च अध्ययनम् अकरोत्। तत्रौव सः आंग्लभाषायाः अपि ज्ञानम् अर्जितवान्। तदनु सः सप्तवर्षाणामनन्तरं स्वदेशं प्राप्नोत्। धर्मजिज्ञासया प्रेरितः सः देशदेशान्तराणां दीर्घां यात्रां वृफत्वा बौ(धर्मस्य तत्साहित्यस्य च गभीरं ज्ञानं प्राप्नोत्।

कालान्तरेण गृहस्थाश्रमधर्मं प्रवेष्टुकामो धम्मानन्दः परिव्राजकव्रतं परित्यज्य गुरोराज्ञया गृहस्थाश्रमं प्रविष्टः। ततः स्वस्य ज्ञानस्य अनुभवस्य च जनेषु प्रचारं कर्तुं सः कलकत्ताविश्वविद्यालये शैक्षणिककर्मणि स्वं नियोजयत। अत्रौव सः स्वपत्नीं पुत्राीं मणिकं चापि आनयत्, किन्तु तन्मनसि सर्वदा बौ(धर्मस्य प्रचारं कर्तुं काचित् बलवती इच्छा जागरिता। अतः तत्रा कि×िचत्कालं कार्यं वृफत्वा सः बडौदानरेशेन श्रीसयाजीराव- गायकवाडेन सह अमिलत्। धम्मानन्दः स्वतन्त्रातया शोधादिकर्म धर्मप्रचारं च कर्तुं शक्नुयादितिवृफत्वा बडौदानरेशेन धनादिभिः तस्य साहाÕयं वृफतम्। अनेनैव सयाजीरावगायकवाडमहोदयेन भीमरावाम्बेडकरस्य अपि आर्थिकं साहाÕयं वृफतमासीत्। अतो{स्य नरेशस्य आधुनिकभारतस्य निर्माणे कि×चन विशिष्टमवदानं वर्तते।

अस्तु, अमेरिकास्थ-हार्वर्डविश्वविद्यालयस्य आचार्यः डा. जेम्स-वुड्सः ‘विसु(िमग्ग’ इति ग्रन्थस्य आंग्लभाषया सम्पादनं कर्तुं तम् अमेरिकां न्यमन्त्रायत्। आचार्यः धम्मानन्दः तस्य आह्नाने अमेरिकां गतः, किन्तु विपरीतपरिस्थितिवशात् सः प्रत्यागतः। अमेरिकाप्रवासकाले सः रुसीभाषां माक्र्सविचारान् च गभीरतया अपठत्। भारतमागत्य सः पूनेस्थ-पफग्र्युसन- महाविद्यालये पालिभाषायाः अध्यापनम् अकरोत्। ततः षड्वर्षाणामनन्तरं सः पुनरपि अमेरिकादेशं गत्वा विसु(िमग्ग-ग्रन्थस्य सम्पादनमपि अपूरयत्। इत्येवं कि×िचन्महत्त्वपूर्णं कार्यं सम्पूर्तिं प्राप्तम्।

भारते स्थित्वा कलकत्ता-बडौदा-अहमदाबाद-पूना-काशीप्रभृतिनगरेषु उषित्वा सः नैकान् विद्यार्थिनः अध्यापयत्, ये खलु पालिसाहित्यस्य विख्याताः विद्वांसो जाताः। महात्मगान्धिनः गुजरातविद्यापीठात् निमन्त्राणे आगते सः तत्रा गत्वा नैकान् ग्रन्थान् विरचयत्। ततः 1921 तमे वर्षे रूसदेशस्य पालिभाषापण्डितस्य बौ(दर्शनपण्डितस्य च आचार्यस्य शेरबेट्स्की-महोदयस्य आमन्त्राणे सः रूसं गतः, तत्रा सः लेनिनग्राद-विश्वविद्यालये पालिम् अध्यापयत्।

यदा धम्मानन्दमहोदयः अमेरिकादेशे आसीत्, तदा प×जाबस्य व्रफान्तिकारिनेत्रा लालाहरदयालेन सह तस्य विशेषः परिचयः स×जातः। तस्य परिचयात् प्रभावात् च आचार्यकोसम्बी समाजवादविचारैः अभिभूतः प्रभावितश्च जातः।

1930 तमे वर्षे स्वदेशं समागतः भगवतो बु(स्य अयम् अनुयायी स्वातन्त्रयान्दोलने सोत्साहं भागम् अर्गृीात्। लवणसत्याग्रहे भागग्रहणपुरस्सरं सः स्वयंसेवकान् प्रशिक्षयन् देशसेवामकरोत्। एतदर्थं सः षड्वर्षाणां वृफते कारावासः अपि प्रेषितः। कारावासाÂिवृत्तः सः पुनरपि बौ(धर्मस्य अनुवादिकर्मसु प्रवृत्तः।

प्राचीनबौ(धर्मस्य विषये ज्ञातुमस्माभिः प्रायेण पाश्चात्यैः वृफतानाम् अनुवादानां व्याख्यानां वा साहाÕयमेव गृहितव्यं भवति, पाश्चात्याः यथा व्याख्याः अनुवादं वा वुफर्वन्ति, वयं ता एव यथातथं प्रामाणिक्यः मन्यामहे, किन्तु तथा न भवितव्यम्। एतस्मिन् सन्दर्भे आचार्यधम्मानन्दस्य व्याख्याप(तिः विशु(तया भारतीयः आसीत्। मूलतः पालि-प्रावृफत-संस्वृफतभाषाणां वाघ्मयस्याधारेण सः विवेकवादिदृष्टड्ढा लेखनं व्याख्यां च स्थापयत्। चारित्रयेण शीलैश्च परिशु(ः, मनोवाक्कर्मभिः निर्भयः स्पष्टश्च सः स्वातन्त्रयचिन्तनेन नैकाः नूतना मान्यताः प्रतिपादयत्, तेषु विषयेषु सः प्रमाणानि तथ्यानि चापि समुचिततया उपस्थापयत् च। बहवो विद्वांसः एतदर्थं तस्य निन्दनमपि अवुफर्वन् किन्तु न केनापि तेन सह प्रतिप्रश्नं कर्तुं धैर्यं वृफतम्। सः बहूनां बौ(जैनग्रन्थानां दीर्घाभिः टिप्पणिभिः सह प्रामाणिकम् अनुवादसम्पादनादिकर्म अकरोत्।

ततः सः चतुर्थवारमपि अमेरिकां प्राप्तः। अमेरिकातः प्रतिनिवत्र्य काश्याम् उषित्वा सः ‘हिन्दी संस्वृफत आणि अहिंसा’ इति मराठीग्रन्थं प्रणीतवान्। ग्रन्थे{स्मिन् सः भारतीयेतिहास-संस्वृफतयोः विषये निर्भीकतया स्पष्टतया च स्वीयाध्ययनस्य सारम् उपस्थापयत्। ग्रन्थे{स्मिन् सः स्वीयाध्ययनस्य मौलिकसाहित्यस्य च प्रमाणपुरस्सरं नैकान् विचारान् प्रास्तौत् किन्तु पारम्परिकाः विद्वांसः एतेषां निर्णयानां वृफते तस्य गर्हणां वृफतवन्तः। ग्रन्थस्थनिर्णयाः कालान्तरेण अतीव विवादास्पदाः अपि स×जाताः, किन्तु तेन एतस्य विषये न काचित् चिन्ता वृफता। काशीतः बम्बयीमागत्य सः श्रमिकेषु उषित्वा बहुजनविहारस्य स्थापनामकरोत्। तदनु बम्बईतः सः सारनाथं गतवान्, तत्रा सः आचार्येण जगदीसकस्सपेन सह मिलित्वा ग्रन्थ-सम्पादनकर्म अकरोत्।

जैनधर्मस्य 23तमस्य तीर्थघड्ढरस्य पाश्र्वनाथस्य चातुर्यामधर्मेण प्रभावितः सः तस्मिन् विषये क×चन ग्रन्थमपि विरचयत्। पाश्र्वनाथस्य चिन्तनेन प्रभावितः सः मनुते स्म यत् ‘शरीरस्य क्षीणतां यावत् मृत्योः प्रतीक्षा न करणीया, नेदं शोभनम्। यावत् शरीरस्य उपयोगिता वर्तते, तावदेव तस्य उपयोगो भवेत्। यदा शरीरेण विशेषसेवाया सम्भावना न भवेत्, तदा मनुष्येण भोजनं परित्यज्य शरीरत्यागः करणीयः इति।’ पाश्र्वनाथस्य अनया जीवनदृष्ट्या प्रभावितः आचार्यधम्मानन्दकोसम्बी शरीरत्यागार्थं प्रायोपवेशनम् ;उपवासम्द्ध आरभत। महात्मगान्धिना वृत्तान्तमिदं यदा ज्ञातं, सः तथा न आचरितुं धम्मानन्दमहोदयाय न्यवेदयत्। आचार्यधम्मानन्दः महात्मनो गान्धिनः आज्ञां शिरोधारिणीमकरोत्, किन्तु दुर्भाग्यवशात् अधुना तस्य पूर्ववत् सहजा जिजीविषा नाभूत्। ततः सः काश्यां वासम् अकरोत्, ततश्च बम्बईम् अगच्छत्। अन्ततोगत्वा सः गान्धिनः सेवाग्रामाश्रमे उषितवान्। तत्रौव 05 जून, 1947 मिते अवधौ तस्य परिनिर्वाणो जातः।

आचार्यस्य धम्मानन्दकोसम्बिनः दृष्टौ सर्वानपि धर्मान्प्रति श्र(ाभावः आसीत्, किन्तु ब्राह्मणपरिवारे लब्धजन्मो{यं हिन्दूधर्मे स्थिता वुफरीतीः ब्राह्मणानां भेदभावपूर्णचिन्तनं च प्रति अतीव रुष्टः आसीत्। कस्यापि सामाजिकभेदभावस्य सः अत्यन्तं विरोधमकरोत्। स्वीयग्रन्थलेखनेन सः बु(स्य यथार्थं चिन्तनं प्रसारयितुं प्रायतत। भगवतो बु(स्य उपदेशाः वर्तमानपरिस्थितीसु कथम् उपयोगिनो भवितुमर्हन्ति इत्यपि सः युक्तियुक्त- विवेचनेन प्रसारयत्।

महात्मगान्धिनो विषये आदरभावः श्र(ा च तन्मनसि आसीत्, तथापि महात्मगान्धिनः चिन्तनस्य ये विषया तेन अनुपयुक्ताः अविवेकपूर्णाः च मताः, तेषु विषयेषु सः असघड्ढोचतया भाषणमकरोत्। पाश्र्वनाथस्य चातुर्यामधर्मादेव बौ(जैनपरम्परे विकसिते इति तस्य मतमासीत्। एतस्य चातुर्यामधर्मस्य प्रभावेण सः कालान्तरेण गान्धिनः सत्याग्रहान्दोलने आत्मानं नियोजयत्। आचार्यधम्मानन्दकोसम्बी बु(भक्तिजनितपाण्डित्ये न, अपितु शीलस्य परिपालने चारित्रयस्य शु(तायां च दक्षः आसीत्। शीलस्य दृढतायाः आग्रहात् शान्तिदेवाचार्यस्य ‘बोधिचर्यावतारः’ इति ग्रन्थः तस्मै अतीव रोचते स्म। अस्य ग्रन्थस्य मराठी-गुजरातीभाषयोः अनुवादो{पि अनेन वृफतः। अनेन नैके ग्रन्थाः विरचिताः।

आचार्यः धम्मानन्द-दामोदर-कोसम्बी बौद्धधर्मदर्शनयोः उच्चकोटिको विद्वान् पालिप्राकृतसंस्कृतादिप्राच्यभाषाणां ज्ञाता च आसीत्। मूलत्रिपिटक-साहित्यस्य संस्कृतवाङयस्य च अध्ययनं विधाय अनेन आधुनिकयुगे बौद्धसाहित्ये अद्वितीयं स्थानं प्राप्तम्। अस्य इमे प्रयासाः बुद्धिविलासाय नासन् अपितु बुद्धस्य बहुजनहितकारिणीं बहुजनसुखकारिणीं च शिक्षां प्राप्य स्वचरित्रो ताम् अवतार्य लोककल्याणार्थाय तेषाम् उपयोगाय एव आसन्। वस्तुतः कोसम्बिवर्यः बौद्धसाहित्यस्य अवगाहनं कृत्वा तस्य स्थापनां कर्तुम् आधुनिकयुगे भारतवर्षे प्रथम एव आचार्यः आसीत्, यतोहि अनेन यदा लेखनकार्यम् आरब्धं, तदा भिक्षुत्रायो{पि (महापण्डितो राहुलसांकृत्यायनो, भदन्तो जगदीसकस्सपो, डा. भदन्त-आनन्दकोसल्यायन-महास्थविरः च) न अस्मिन् कर्मणि भागग्राहिणो जाता आसन्। अतः गतशताब्दे बौद्धधर्मस्य पालिसाहित्यस्य च अध्ययन-अनुसन्धान-प्रचारप्रसार-विकासादिषु अस्य महोदयस्य अवदानं चिरकालं यावत् स्मरणीयं भविष्यति।

महतः गणितज्ञस्य, संस्कृतविदुषः, इतिहासकारस्य मुद्राविज्ञस्य च आचार्यस्य दामोदरकोसम्बिनः अयं पूज्यपितृपादः वर्तते। वस्तुतस्तु आचार्यधम्मानन्दकोसम्बी स्वपुत्राय आत्मनः पितुः ‘दामोदर’ इत्येव नाम प्रायच्छत्। अतः उभावपि पितृ-पुत्रौ डी.डी. कोसम्बी इत्यनेनैव नाम्ना ज्ञायेते, कदाचित् अस्मिन् विषये भ्रान्तिरपि जायते। पितुः नाम धम्मानन्ददामोदरकोसम्बी अपि च पुत्रास्य नाम दामोदरधम्मानन्दकोसम्बी वर्तते। विगतशताब्दस्य महत्सु विद्वत्सु आचार्यस्य दामोदरकोसम्बिनो नाम अतीव सम्मानेन सह गृह्यते।

आचार्यधम्मानन्दकोसम्बिप्रणीतं साहित्यम्

1. बु(, धर्म संघ ;व्याख्यानसंग्रहद्ध

2. बु(लीलासंग्रह

3. बौ(संघाचा परिचय

4. धम्मपद ;अनुवादद्ध

5. सुत्तनिपात ;अनुवादद्ध

6. धम्मपद ;लघुपाठद्ध

7. सुत्तनिपात ;लघुपाठद्ध

8. बोधिचर्यावतारः ;मराठी-गुजरातीभाषयोः अनुवादःद्ध

9. विसु(िमग्गो ;दीपिकाटीकासहितो सम्पादितोद्ध

10. समाधिमार्ग ;मराठी-गुजरातीभाषयोः विसु(िमग्गग्रन्थस्य अनुवादःद्ध

11. जातक-कथा ;गुजरातीभाषया अनुवादःद्ध

12. बोधिसत्त्वनाटक (मराठीभाषयां)

13. अभिधम्मत्थसघõहो ;नवनीतटीकया सहितोद्ध

14. हिन्दी संस्वृफति आणि अहिंसा

15. पाश्र्वनाथ का चातुर्याम धर्म

16. निवेदन ;मराठीगुजरातीभाषाभ्यां विरचितो आत्मकथारूपो ग्रन्थःद्ध

17. खुलासा

18. भगवान् बु( - जीवन आणि दर्शन

आचार्यधम्मानन्दकोसम्बिनः साहित्यलेखनशैली असाधारणी अपूर्वा च आसीत्। गूढतमविषयान् अपि अतीव सारल्येन सुस्पष्टतया च अयं स्वग्रन्थेषु उपस्थापयति स्म। अस्य लेखने यादृशी सरलता लक्ष्यते जीवने{पि सः तादृशीं सरलतां पर्यपालयत्। वस्तुतः अस्य पाण्डित्यं, प्रामाणिकता, दृढसघड्ढल्पः, शीलपरिपालनं बु(भक्तिः च - इमे सर्वे{पि सद्गुणाः अवश्यं बोधयन्ति जीवनस्य सार्थकताम्।

सम्बद्धाः लेखाः[सम्पादयतु]