सामग्री पर जाएँ

नन्दादेवी-राष्ट्रियोद्यानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नन्दादेवी-उद्यानं पुष्पोपत्यका च निसर्गप्रेमिभिः पर्वतारोहिभिः च अवश्यं वीक्षणीयम् अस्ति नन्दादेव्युद्यानम् । नन्दादेवीराष्ट्रियोद्यानम् उत्तराञ्चलस्य चमोलीजनपदस्य हिमालयपर्वतप्रदेशे वर्तते । १८८३ तमे वर्षे WW गार्डनः एतस्य प्रदेशस्य वैशिष्ट्यम् ऎदम्प्राथम्येन अभिज्ञातावान् । १९३६ तमे वर्षे तिल्मन्, नी आडेल् इत्येताभ्यां प्रवासावसरे द्दष्टः अयं प्रदेशः तयोः महतीम् आसक्तिम् अजनयत् ।१९३९ तमे वर्षे अयं प्रदेशः प्राणिवीक्षणालयः जातः १९८२ तमे वर्षे राष्ट्रियोद्यानत्वेन परिगणितम् । १९८८ तमे वर्षे युनेस्कोसंस्थया इदं जागतिकपरम्परास्थलत्वेन घोषितम् ।

पश्चिमहिमालयस्थम् इदं राष्ट्रियोद्यानं स्वीयेन नैसर्गिकसौन्दर्येण सर्वान् आकर्षति । अत्रत्यानि ‘अल्पैन्’ पुष्पाणि नितरां मोहकानि भवन्ति । एतत् स्थानं केषाञ्चन विरलानाम् अवसान् -स्तिथौ विद्यमानानां हिमचित्रोष्ट्र -हिमालयहरिण -हिमालयवनमेषप्रभृतीनां प्राणिनां निवासस्थानम् अस्ति । पुष्पोपत्यका ऎदम्प्राथम्येन अन्विष्टा अस्ति सस्यशास्त्रज्ञेन पर्वतारोहिणा फ्राङ्क एस् स्मितवर्येण स्वीये मौण्डकामेट्प्रवासावसरे । एतत् नन्दादेवीराष्ट्रियोद्यानं वायव्यदिशि २० कि.मी.दूरे विद्यते । एतस्य सौन्दर्यात् आकृष्टाः जनाः एनं देवनिवासं मन्यन्ते । उपत्यका एषा वृष्टिकाले असंख्याकैः कुसुमैः शोभमाना प्राकृतिकोद्यानरुपं प्राप्य नितराम् आकर्षिका भवति । इयम् उपत्यका २००५ तमे वर्षे जागतिकपारम्परिकस्थलत्वेन घोषिता ।

लक्ष्मणस्य प्राणानां रक्षणाय हराष्ट्रोनुमता एतस्याः एव उपत्यकायाः मूलिकाः नीताः इति श्रूयते । भद्रदारुभूर्जशङ्कुफलिप्रभृतयः वृक्षाः अत्र आधिक्येन दृश्यन्ते । नन्दादेवीराष्ट्रियोद्याने ३१२ सस्यजातयः सन्ति प्रायः । तासु १७ सस्यजातयः अतिविशिष्टाः अन्यत्र दुर्लभाः च अस्मिन् उद्याने १४ प्राणिजातयः सन्ति । तासु ६ जातयः अवसानस्थितौ सन्ति ।

औन्नत्यस्य आधिक्यात् अत्रत्यं शीतलं वातावरणं भवति आवर्षम् । षण्मासान् यावत् अयं प्रदेशः हिमेन आवृतः भवति ।शिष्टः षाण्मासिकावधिः सुखप्रदः भवति । जूनतः आगस्ट्पर्यन्तं महती वृष्टिः भवति अत्र । एप्रिलतः अक्टोबरमासान्तः कालः प्रवासाय सुयोग्यः । इतः समीपस्थः जोशिमठप्रदेशः भोजनावासादिनिमित्तं योग्यः अस्ति ।

सम्बद्धाः लेखाः

[सम्पादयतु]